वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५७ · २० श्लोकाःSarga 57 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५७ · १ ॥
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् । ७.५७.१ ॥ ॥

tāṁ śrutvā divyasaṅkāśāṁ kathāmadbhutadarśanām ।
lakṣmaṇaḥ paramaprīto rāghavaṁ vākyamabravīt ।
7.57.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · २ ॥
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ । ७.५७.२ ॥ ॥

nikṣiptadehau kākutstha kathaṁ tau dvijapārthivau ।
punardehena saṁyogaṁ jagmurdevasammatau ।
7.57.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ३ ॥
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः । ७.५७.३ ॥ ॥

tasya tadbhāṣitaṁ śrutvā rāmaḥ satyaparākramaḥ ।
tāṁ kathāṁ kathayāmāsa vasiṣṭhasya mahātmanaḥ ।
7.57.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ४ ॥
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ । ७.५७.४ ॥ ॥

yastu kumbho raghuśreṣṭha tejaḥpūrṇo mahātmanoḥ ।
tasmiṁstejomayau viprau sambhūtāvṛṣisattamau ।
7.57.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ५ ॥
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् । ७.५७.५ ॥ ॥

pūrvaṁ samabhavattatra hyagastyo bhagavānṛṣiḥ ।
nāhaṁ sutastavetyuktvā mitraṁ tasmādapākramat ।
7.57.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ६ ॥
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् । ७.५७.६ ॥ ॥

taddhi tejastu mitrasya urvasyāḥ pūrvamāhitam ।
tasminsamabhavatkumbhe tattejo yatra vāruṇam ।
7.57.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ७ ॥
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् । ७.५७.७ ॥ ॥

kasyacittvatha kālasya mitrāvaruṇasambhavaḥ ।
vasiṣṭhastejasā yukto jajñe ikṣvākudaivatam ।
7.57.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ८ ॥
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः । ७.५७.८ ॥ ॥

tamikṣvākurmahātejā jātamātramaninditam ।
vavre purodhasaṁ saumya vaṁśasyāsya bhavāya naḥ ।
7.57.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ९ ॥
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् । ७.५७.९ ॥ ॥

evaṁ tvapūrvadehasya vasiṣṭhasya mahātmanaḥ ।
kathito nirgamaḥ saumya nimeḥ śṛṇu yathā 'bhavat ।
7.57.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १० ॥
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं ते योजयामासुर्यागदीक्षां मनीषिणः । ७.५७.१० ॥ ॥

dṛṣṭvā videhaṁ rājānamṛṣayaḥ sarva eva te ।
taṁ ca te yojayāmāsuryāgadīkṣāṁ manīṣiṇaḥ ।
7.57.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · ११ ॥
तं देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः । ७.५७.११ ॥ ॥

taṁ ca dehaṁ narendrasya rakṣanti sma dvijottamāḥ ।
gandhairmālyaiśca vastraiśca paurabhṛtyasamanvitāḥ ।
7.57.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १२ ॥
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव । ७.५७.१२ ॥ ॥

tato yajñe samāpte tu bhṛgustatredamabravīt ।
ānayiṣyāmi te cetastuṣṭo 'smi tava pārthiva ।
7.57.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १३ ॥
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् । ७.५७.१३ ॥ ॥

suprītāśca surāḥ sarve nimeścetastathābruvan ।
varaṁ varaya rājarṣe kva te ceto nirūpyatām ।
7.57.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १४ ॥
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः । ७.५७.१४ ॥ ॥

evamuktaḥ suraiḥ sarvairnimeścetastadābravīt ।
netreṣu sarvabhūtānāṁ vaseyaṁ surasattamāḥ ।
7.57.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १५ ॥
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि । ७.५७.१५ ॥ ॥

bāḍhamityeva vibudhā nimeścetastadā 'bruvan ।
netreṣu sarvabhūtānāṁ vāyubhūtaścariṣyasi ।
7.57.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १६ ॥
त्वत्कृते निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः । ७.५७.१६ ॥ ॥

tvatkṛte ca nimiṣyanti cakṣūṁṣi pṛthivīpate ।
vāyubhūtena caratā viśramārthaṁ muhurmuhuḥ ।
7.57.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १७ ॥
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् । ७.५७.१७ ॥ ॥

evamuktvā tu vibudhāḥ sarve jagmuryathāgatam ।
ṛṣayo 'pi mahātmāno nimerdehaṁ samāharan ।
7.57.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १८ ॥
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा । ७.५७.१८ ॥ ॥

araṇiṁ tatra nikṣipya mathanaṁ cakrurojasā ।
mantrahomairmahātmānaḥ putrahetornimestadā ।
7.57.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · १९ ॥
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः । ७.५७.१९ ॥ ॥

araṇyāṁ mathyāmānāyāṁ prādurbhūto mahātapāḥ ।
mathanānmithirityāhurjananājjanako 'bhavat ।
yasmādvidehātsambhūto vaidehastu tataḥ smṛtaḥ ।
7.57.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५७ · २० ॥
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् । ७.५७.२० ॥

evaṁ videharājaśca janakaḥ pūrvako 'bhavat ।
mithirnāma mahātejāstenāyaṁ maithilo 'bhavat ।
7.57.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.