वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५६ · २९ श्लोकाःSarga 56 · 29 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५६ · १ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् । ७.५६.१ ॥ ॥

rāmasya bhāṣitaṁ śrutvā lakṣmaṇaḥ paravīrahā ।
uvāca prāñjalirvākyaṁ rāghavaṁ dīptatejasam ।
7.56.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २ ॥
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ । ७.५६.२ ॥ ॥

nikṣiptadehau kākutsya kathaṁ tau dvijapārthivau ।
punardehena saṁyogaṁ jagmaturdevasammatau ।
7.56.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ३ ॥
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः । ७.५६.३ ॥ ॥

lakṣmaṇenaivamuktastu rāmaścekṣvākunandanaḥ ।
pratyuvāca mahātejā lakṣmaṇaṁ puruṣarṣabhaḥ ।
7.56.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ४ ॥
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ । ७.५६.४ ॥ ॥

tau parasparaśāpena dehāvutsṛjya dhārmikau ।
abhūtāṁ nṛpaviprarṣī vāyubhūtau tapodhanau ।
7.56.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ५ ॥
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् । ७.५६.५ ॥ ॥

aśarīraḥ śarīrasya kṛte 'nyasya mahāmuniḥ ।
vasiṣṭhaḥ sumahātejā jagāma piturantikam ।
7.56.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ६ ॥
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः । ७.५६.६ ॥ ॥

so 'bhivādya tataḥ pādau devadevasya dharmavit ।
pitāmahamathovāca vāyubhūta idaṁ vacaḥ ।
7.56.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ७ ॥
भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः । ७.५६.७ ॥ ॥

bhagavannimiśāpena videhatvamupāgamam ।
lokanātha mahādeva aṇḍajo 'pi tvamabjajaḥ ।
7.56.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ८ ॥
सर्वेषां देहहीनानां महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो । देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि । ७.५६.८ ॥ ॥

sarveṣāṁ dehahīnānāṁ mahadduḥkhaṁ bhaviṣyati ।
lupyante sarvakāryaṇi hīnadehasya vai prabho ।
dehasyānyasya sadbhāve prasādaṁ kartumarhasi ।
7.56.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ९ ॥
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः । मित्रावरुणजं तेज प्रविश त्वं महायशः । ७.५६.९ ॥ ॥

tamuvāca tato brahmā svayambhūramitaprabhaḥ ।
mitrāvaruṇajaṁ teja praviśa tvaṁ mahāyaśaḥ ।
7.56.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १० ॥
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेष्यसि मे वशम् । ७.५६.१० ॥ ॥

ayonijastvaṁ bhavitā tatrāpi dvijasattama ।
dharmeṇa mahatā yuktaḥ punareṣyasi me vaśam ।
7.56.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · ११ ॥
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् । कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् । ७.५६.११ ॥ ॥

evamuktastu devena cābhivādya pradakṣiṇam ।
kṛtvā pitāmahaṁ tūrṇaṁ prayayau varuṇālayam ।
7.56.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १२ ॥
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः । ७.५६.१२ ॥ ॥

tameva kālaṁ mitro 'pi varuṇatvamakārayat ।
kṣīrodena sahopetaḥ pūjyamānaḥ surottamaiḥ ।
7.56.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १३ ॥
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यदृच्छया तमुद्देशमाययौ सखिभिर्वृता । ७.५६.१३ ॥ ॥

etasminneva kāle tu urvaśī paramāpsarāḥ ।
yadṛcchayā tamuddeśamāyayau sakhibhirvṛtā ।
7.56.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १४ ॥
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये । आविशत्परमो हर्षो वरुणं चोर्वशीकृते । ७.५६.१४ ॥ ॥

tāṁ dṛṣṭvā rūpasampannāṁ krīḍantīṁ varuṇālaye ।
āviśatparamo harṣo varuṇaṁ corvaśīkṛte ।
7.56.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १५ ॥
तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् । वरुणो वरयामास मैथुनायाप्सरोवराम् । ७.५६.१५ ॥ ॥

sa tāṁ padmapalāśākṣīṁ pūrṇacandranibhānanām ।
varuṇo varayāmāsa maithunāyāpsarovarām ।
7.56.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १६ ॥
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर । ७.५६.१६ ॥ ॥

pratyuvāca tataḥ sā tu varuṇaṁ prāñjaliḥ sthitā ।
mitreṇāhaṁ vṛtā sākṣātpūrvameva sureśvara ।
7.56.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १७ ॥
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः । इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते । ७.५६.१७ ॥ ॥

varuṇastvabravīdvākyaṁ kandarpaśarapīḍitaḥ ।
idaṁ tejaḥ samutsrakṣye kumbhe 'smindevanirmite ।
7.56.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १८ ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि । कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् । ७.५६.१८ ॥ ॥

evamutsṛjya suśroṇi tvayyahaṁ varavarṇini ।
kṛtakāmo bhaviṣyāmi yadi necchasi saṅgamam ।
7.56.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · १९ ॥
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह । ७.५६.१९ ॥ ॥

tasya tallokapālasya varuṇasya subhāṣitam ।
urvaśī paramaprītā śrutvā vākyamuvāca ha ।
7.56.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २० ॥
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् । भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो । ७.५६.२० ॥ ॥

kāmametadbhavatvevaṁ hṛdayaṁ me tvayi sthitam ।
bhāvaścāpyadhikastubhyaṁ deho mitrasya tu prabho ।
7.56.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २१ ॥
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् । ७.५६.२१ ॥ ॥

urvaśyā evamuktastu retastanmahadadbhutam ।
jvaladagniśikhāprakhyaṁ tasminkumbhe hyapāsṛjat ।
7.56.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २२ ॥
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता । तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् । ७.५६.२२ ॥ ॥

urvaśī tvagamattatra mitro vai yatra devatā ।
tāṁ tu mitraḥ susaṅkramya urvaśīmidamabravīt ।
7.56.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २३ ॥
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी । ७.५६.२३ ॥ ॥

mayā nimantritā pūrvaṁ kasmāttvamavasarjitā ।
patimanyaṁ vṛtavatī tasmāttvaṁ duṣṭacāriṇī ।
7.56.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २४ ॥
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि । ७.५६.२४ ॥ ॥

anena duṣkṛtena tvaṁ matkrodhakaluṣīkṛtā ।
manuṣyalokamāsthāya kañcitkālaṁ nivatsyasi ।
7.56.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २५ ॥
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः । तमद्य गच्छ दुर्बुद्धे ते भर्ता भविष्यति । ७.५६.२५ ॥ ॥

budhasya putro rājarṣiḥ kāśīrājaḥ purūravāḥ ।
tamadya gaccha durbuddhe sa te bhartā bhaviṣyati ।
7.56.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २६ ॥
ततः सा शापदोषेण पुरूरवसमभ्यगात् । प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् । ७.५६.२६ ॥ ॥

tataḥ sā śāpadoṣeṇa purūravasamabhyagāt ।
pratiyāte purūravaṁ budhasyātmajamaurasam ।
7.56.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २७ ॥
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः । नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः । ७.५६.२७ ॥ ॥

tasya jajñe tataḥ śrīmānāyuḥ putro mahābalaḥ ।
nahuṣo yasya putrastu babhūvendrasamadyutiḥ ।
7.56.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २८ ॥
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे । शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् । ७.५६.२८ ॥ ॥

vajramutsṛjya vṛtrāya bhrānte 'tha tridiveśvare ।
śataṁ varṣasahasrāṇi yenendratvaṁ praśāsitam ।
7.56.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५६ · २९ ॥
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च । ७.५६.२९ ॥

sā tena śāpena jagāma bhūmiṁ tadorvaśī cārudatī sunetrā ।
bahūni varṣāṇyavasacca subhrūḥ śāpakṣayādindrasado yayau ca ।
7.56.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.