वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५४ · १९ श्लोकाःSarga 54 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५४ · १ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् । ७.५४.१ ॥ ॥

rāmasya bhāṣitaṁ śrutvā lakṣmaṇaḥ paramārthavit ।
uvāca prāñjalirvākyaṁ rāghavaṁ dīptatejasam ।
7.54.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · २ ॥
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः । ७.५४.२ ॥ ॥

alpāparādhe kākutstha dvijābhyāṁ śāpa īdṛśaḥ ।
mahānnṛgasya rājarṣeryamadaṇḍa ivāparaḥ ।
7.54.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ३ ॥
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ । किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ । ७.५४.३ ॥ ॥

śrutvā tu pāpasaṁyuktamātmānaṁ puraṣarṣabha ।
kimuvāca nṛgo rājā dvijau krodhasamanvitau ।
7.54.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ४ ॥
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् । शृणु सौम्य यथा पूर्वं राजा शापविक्षतः । ७.५४.४ ॥ ॥

lakṣmaṇenaivamuktastu rāghavaḥ punarabravīt ।
śṛṇu saumya yathā pūrvaṁ sa rājā śāpavikṣataḥ ।
7.54.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ५ ॥
अथाध्वनि गतौ विप्रौ विज्ञाय नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः । ७.५४.५ ॥ ॥

athādhvani gatau viprau vijñāya sa nṛgastadā ।
āhūya mantriṇaḥ sarvānnaigamānsapurodhasaḥ ।
7.54.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ६ ॥
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः । ७.५४.६ ॥ ॥

tānuvāca nṛgo rājā sarvāśca prakṛtīstathā ।
duḥkhena susamāviṣṭaḥ śrūyatāṁ me samāhitaiḥ ।
7.54.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ७ ॥
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ । ७.५४.७ ॥ ॥

nāradaḥ parvataścaiva mama dattvā mahadbhayam ।
gatau tribhuvanaṁ bhadrau vāyubhūtāvaninditau ।
7.54.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ८ ॥
कुमारो ऽयं वसुर्नाम देवो ऽद्याभिषिच्यताम् । श्वभ्रं यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् । ७.५४.८ ॥ ॥

kumāro 'yaṁ vasurnāma sa devo 'dyābhiṣicyatām ।
śvabhraṁ ca yatsukhasparśaṁ kriyatāṁ śilpibhirmama ।
yatrāhaṁ saṅkṣayiṣyāmi śāpaṁ brāhmaṇaniḥsṛtam ।
7.54.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ९ ॥
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा । ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः । ७.५४.९ ॥ ॥

varṣaghnamekaṁ śvabhraṁ tu himaghnamaparaṁ tathā ।
grīṣmaghnaṁ tu sukhasparśamekaṁ kurvantu śilpinaḥ ।
7.54.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १० ॥
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः । विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः । ७.५४.१० ॥ ॥

phalavantaśca ye vṛkṣāḥ puṣpavatyaśca yā latāḥ ।
viropyantāṁ bahuvidhāśchāyāvantaśca gulminaḥ ।
7.54.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · ११ ॥
क्रियतां रमणीयं श्वभ्राणां सर्वतोदिशम् । सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः । ७.५४.११ ॥ ॥

kriyatāṁ ramaṇīyaṁ ca śvabhrāṇāṁ sarvatodiśam ।
sukhamatra vasiṣyāmi yāvatkālasya paryayaḥ ।
7.54.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १२ ॥
पुष्पाणि सुगन्धीनि क्रियतां तेषु नित्यशः । परिवार्य यथा मे स्युरध्यर्धं योजनं तथा । ७.५४.१२ ॥ ॥

puṣpāṇi ca sugandhīni kriyatāṁ teṣu nityaśaḥ ।
parivārya yathā me syuradhyardhaṁ yojanaṁ tathā ।
7.54.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १३ ॥
एवं कृत्वा विधानं सन्दिदेश वसं तदा । धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय । ७.५४.१३ ॥ ॥

evaṁ kṛtvā vidhānaṁ sa sandideśa vasaṁ tadā ।
dharmanityaḥ prajāḥ putra kṣatradharmeṇa pālaya ।
7.54.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १४ ॥
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः । नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे । ७.५४.१४ ॥ ॥

pratyakṣaṁ te yathā śāpo dvijābhyāṁ mayi pātitaḥ ।
naraśreṣṭha saroṣābhyāmaparādhe 'pi tādṛśe ।
7.54.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १५ ॥
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ । कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः । ७.५४.१५ ॥ ॥

mā kṛthāstanusantāpaṁ matkṛte 'pi nararṣabha ।
kṛtāntaḥ kuśalaḥ putra yenāsmi vyasanīkṛtaḥ ।
7.54.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १६ ॥
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि सुखानि च । ७.५४.१६ ॥ ॥

prāptavyānyeva prāpnoti gantavyānyeva gacchati ।
labdhavyānyeva labhate duḥkhāni ca sukhāni ca ।
7.54.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १७ ॥
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह । ७.५४.१७ ॥ ॥

pūrve jātyantare vatsa mā viṣādaṁ kuruṣva ha ।
7.54.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १८ ॥
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः । श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ । ७.५४.१८ ॥ ॥

evamuktvā nṛpastatra sutaṁ rājā mahāyaśāḥ ।
śvabhraṁ jagāma sukṛtaṁ vāsāya puruṣarṣabha ।
7.54.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५४ · १९ ॥
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् । सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् । ७.५४.१९ ॥

evaṁ praviśyaiva nṛpastadānīṁ śvabhraṁ mahāratnavibhūṣitaṁ tat ।
sampādayāmāsa tadā mahātmā śāpaṁ dvijābhyāṁ hi ruṣā vimuktam ।
7.54.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.