वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५३ · २६ श्लोकाःSarga 53 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५३ · १ ॥
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह । ७.५३.१ ॥ ॥

lakṣmaṇasya tu tadvākyaṁ niśamya paramādbhutam ।
suprītaścābhavadrāmo vākyametaduvāca ha ।
7.53.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २ ॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः । ७.५३.२ ॥ ॥

durlabhastvīdṛśo bandhurasminkāle viśeṣataḥ ।
yādṛśastvaṁ mahābuddhermama saumya mano 'nugaḥ ।
7.53.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ३ ॥
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण । तन्निशामय श्रुत्वा कुरुष्व वचनं मम । ७.५३.३ ॥ ॥

yacca me hṛdaye kiñcidvartate śubhalakṣaṇa ।
tanniśāmaya ca śrutvā kuruṣva vacanaṁ mama ।
7.53.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ४ ॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति । ७.५३.४ ॥ ॥

catvāro divasāḥ saumya kāryaṁ paurajanasya vai ।
akurvāṇasya saumitre tanme marmāṇi kṛntati ।
7.53.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ५ ॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ । ७.५३.५ ॥ ॥

āhūyantāṁ prakṛtayaḥ purodhā mantriṇastathā ।
kāryārthinaśca puruṣāḥ striyaśca puruṣarṣabha ।
7.53.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ६ ॥
पौरकार्याणि यो राजा करोति दिने दिने । संवृते नरके घोरे पतितो नात्र संशयः । ७.५३.६ ॥ ॥

paurakāryāṇi yo rājā na karoti dine dine ।
saṁvṛte narake ghore patito nātra saṁśayaḥ ।
7.53.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ७ ॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः । ७.५३.७ ॥ ॥

śrūyate hi purā rājā nṛgo nāma mahāyaśāḥ ।
babhūva pṛthivīpālo brahmaṇyaḥ satyavāk śuciḥ ।
7.53.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ८ ॥
कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः । ७.५३.८ ॥ ॥

sa kadācidgavāṁ koṭīḥ savatsāḥ svarṇabhūṣitāḥ ।
nṛdevo bhūmidevebhyaḥ puṣkareṣu dadau nṛpaḥ ।
7.53.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ९ ॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ । ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः । ७.५३.९ ॥ ॥

tataḥ saṅgādgatā dhenuḥ savatsā sparśitā 'nagha ।
brāhmaṇasyāhitāgneśca daridrasyoñchavartinaḥ ।
7.53.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १० ॥
नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च । नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् । ७.५३.१० ॥ ॥

sa naṣṭāṁ gāṁ kṣudhārto vai anviṣaṁstatra tatra ca ।
nāpaśyatsarvarājyeṣu saṁvatsaragaṇānbahūn ।
7.53.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · ११ ॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने । ७.५३.११ ॥ ॥

tataḥ kanakhalaṁ gatvā jīrṇavatsāṁ nirāmayām ।
dadarśa gāṁ svakāṁ dhenuṁ brāhmaṇasya niveśane ।
7.53.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १२ ॥
अथ तां नामधेयेन स्वकेनोवाच द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् । ७.५३.१२ ॥ ॥

atha tāṁ nāmadheyena svakenovāca sa dvijaḥ ।
āgaccha śabaletyevaṁ sā tu śuśrāva gauḥ svaram ।
7.53.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १३ ॥
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् । ७.५३.१३ ॥ ॥

tasya taṁ svaramājñāya kṣudhārtasya dvijasya vai ।
anvagātpṛṣṭhataḥ sā gaurgacchantaṁ pāvakopamam ।
7.53.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १४ ॥
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् । ७.५३.१४ ॥ ॥

yo 'pi pālayate vipraḥ so 'pi gāmanvagāddrutam ।
gatvā tamṛṣimācaṣṭa mama gauriti satvaram ।
7.53.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १५ ॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः । ७.५३.१५ ॥ ॥

sparśitā rājasiṁhena mama dattā nṛgeṇa ha ।
tayorbrāhmaṇayorvādo mahānāsīdvipaścitoḥ ।
7.53.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १६ ॥
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि प्राप्तौ नृगशासनम् । ७.५३.१६ ॥ ॥

vivadantau tato 'nyonyaṁ dātāramabhijagmatuḥ ।
tau rājabhavanadvāri na prāptau nṛgaśāsanam ।
7.53.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १७ ॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् । ७.५३.१७ ॥ ॥

ahorātrāṇyanekāni vasantau krodhamīyatuḥ ।
ūcatuśca mahātmānau tāvubhau dvijasattamau ॥kruddhau paramasamprāptau vākyaṁ ghorābhisaṁhitam ।
7.53.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १८ ॥
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि । ७.५३.१८ ॥ ॥

arthināṁ kāryasiddhyarthaṁ yasmāttvaṁ naiṣi darśanam ।
adṛśyaḥ sarvabhūtānāṁ kṛkalāso bhaviṣyasi ।
7.53.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · १९ ॥
बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि । ७.५३.१९ ॥ ॥

bahuvarṣasahasrāṇi bahuvarṣaśatāni ca ।
śvabhre 'smin kṛkalāso vai dīrghakālaṁ vasiṣyasi ।
7.53.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २० ॥
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः । ७.५३.२० ॥ ॥

utpatsyate hi loke 'sminyadūnāṁ kīrtivardhanaḥ ।
vāsudeva iti khyāto viṣṇuḥ puruṣavigrahaḥ ।
7.53.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २१ ॥
ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता तेन कालेन निष्कृतिस्ते भविष्यति । ७.५३.२१ ॥ ॥

sa te mokṣayitā rājaṁstasmācchāpādbhaviṣyasi ।
kṛtā ca tena kālena niṣkṛtiste bhaviṣyati ।
7.53.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २२ ॥
भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते । ७.५३.२२ ॥ ॥

bhārāvataraṇārthaṁ hi naranārāyaṇāvubhau ।
utpatsyete mahāvīryau kalau yuga upasthite ।
7.53.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २३ ॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै । ७.५३.२३ ॥ ॥

evaṁ tau śāpamutsṛjya brāhmaṇau vigatajvarau ।
tāṁ gāṁ hi durbalāṁ vṛddhāṁ dadaturbrāhmaṇāya vai ।
7.53.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २४ ॥
एवं राजा तं शापमुपभुङ्क्ते सुदारुणम् । ७.५३.२४ ॥ ॥

evaṁ sa rājā taṁ śāpamupabhuṅkte sudāruṇam ।
7.53.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २५ ॥
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः । ७.५३.२५ ॥ ॥

kāryārthināṁ vimardo hi rājñāṁ doṣāya kalpate ।
tacchīghraṁ darśanaṁ mahyamabhivartantu kāryiṇaḥ ।
7.53.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५३ · २६ ॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः । ७.५३.२६ ॥

sukṛtasya hi kāryasya phalaṁ nāpaiti pārthivaḥ ।
tasmādgaccha pratīkṣasva saumitre kāryavāñjanaḥ ।
7.53.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.