वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५२ · १९ श्लोकाःSarga 52 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५२ · १ ॥
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा । ७.५२.१ ॥ ॥

tatra tāṁ rajanīmuṣya keśinyāṁ raghunandanaḥ ।
prabhāte punarutthāya lakṣmaṇaḥ prayayau tadā ।
7.52.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · २ ॥
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् । ७.५२.२ ॥ ॥

tato 'rdhadivase prāpte praviveśa mahārathaḥ ।
ayodhyāṁ ratnasampūrṇāṁ hṛṣṭapuṣṭajanāvṛtām ।
7.52.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ३ ॥
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः । ७.५२.३ ॥ ॥

saumitristu paraṁ dainyaṁ jagāma sumahāmatiḥ ।
rāmapādau samāsādya vakṣyāmi kimahaṁ gataḥ ।
7.52.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ४ ॥
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत । ७.५२.४ ॥ ॥

tasyaivaṁ cintayānasya bhavanaṁ śaśisannibham ।
rāmasya paramodāraṁ purastānsamadṛśyata ।
7.52.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ५ ॥
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः । ७.५२.५ ॥ ॥

rājñastu bhavanadvāri so 'vatīrya rathottamāt ।
avāṅmukho dīnamanāḥ praviveśānivāritaḥ ।
7.52.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ६ ॥
दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः । ७.५२.६ ॥ ॥

sa dṛṣṭvā rāghavaṁ dīnamāsīnaṁ paramāsane ।
netrābhyāmaśrupūrṇābhyāṁ dadarśāgrajamagrataḥ ।
7.52.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ७ ॥
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः । ७.५२.७ ॥ ॥

jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ ।
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ ।
7.52.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ८ ॥
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ । ७.५२.८ ॥ ॥

āryasyājñāṁ puraskṛtya visṛjya janakātmajām ।
gaṅgātīre yathoddiṣṭe vālmīkerāśrame śucau ।
7.52.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ९ ॥
तत्र तां शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् । ७.५२.९ ॥ ॥

tatra tāṁ ca śubhācārāmāśramānte yaśasvinīm ।
punarapyāgato vīra pādamūlamupāsitum ।
7.52.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १० ॥
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा हि शोचन्ति बुद्धिमन्तो मनस्विनः । ७.५२.१० ॥ ॥

mā śucaḥ puruṣavyāghra kālasya gatirīdṛśī ।
tvadvidhā na hi śocanti buddhimanto manasvinaḥ ।
7.52.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · ११ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं जीवितम् । ७.५२.११ ॥ ॥

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ ।
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam ।
7.52.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १२ ॥
तस्मात्पुत्रेषु दारेषु मित्रेषु धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् । ७.५२.१२ ॥ ॥

tasmātputreṣu dāreṣu mitreṣu ca dhaneṣu ca ।
nātiprasaṅgaḥ kartavyo viprayogo hi tairdhruvam ।
7.52.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १३ ॥
शक्तस्त्वमात्मना ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः । ७.५२.१३ ॥ ॥

śaktastvamātmanā ' 'tmānaṁ vinetuṁ manasaiva hi ।
lokānsarvāṁśca kākutstha kiṁ punaḥ śokamātmanaḥ ।
7.52.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १४ ॥
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः किल ते पुनरेष्यति राघव । ७.५२.१४ ॥ ॥

nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ ।
apavādaḥ sa kila te punareṣyati rāghava ।
7.52.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १५ ॥
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति संशयः । ७.५२.१५ ॥ ॥

yadarthaṁ maithilī tyaktā apavādabhayānnṛpa ।
so 'pavādaḥ pure rājanbhaviṣyati na saṁśayaḥ ।
7.52.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १६ ॥
त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह । ७.५२.१६ ॥ ॥

sa tvaṁ puruṣaśārdūla dhairyeṇa susamāhitaḥ ।
tyajaināṁ durbalāṁ buddhiṁ santāpaṁ mā kuruṣva ha ।
7.52.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १७ ॥
एवमुक्तः काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः । ७.५२.१७ ॥ ॥

evamuktaḥ sa kākutstho lakṣmaṇena mahātmanā ।
uvāca parayā prītyā saumitriṁ mitravatsalaḥ ।
7.52.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १८ ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने । ७.५२.१८ ॥ ॥

evametannaraśreṣṭha yathā vadasi lakṣmaṇa ।
paritoṣaśca me vīra mama kāryānuśāsane ।
7.52.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५२ · १९ ॥
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण । ७.५२.१९ ॥

nivṛttiścāgatā saumya santāpaśca nirākṛtaḥ ।
bhavadvākyaiḥ surucirairanunīto 'smi lakṣmaṇa ।
7.52.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.