वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५१ · ३२ श्लोकाःSarga 51 · 32 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५१ · १ ॥
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे । ७.५१.१ ॥ ॥

tathā sañcoditaḥ sūto lakṣmaṇena mahātmanā ।
tadvākyamṛṣiṇā proktaṁ vyāhartumupacakrame ।
7.51.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २ ॥
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः । वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह । ७.५१.२ ॥ ॥

purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ ।
vasiṣṭhasyāśrame puṇye vārṣikyaṁ samuvāsa ha ।
7.51.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ३ ॥
तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् । ७.५१.३ ॥ ॥

tamāśramaṁ mahātejāḥ pitā te sumahāyaśāḥ ।
purohitaṁ mahātmānaṁ didṛkṣuragamastvayam ।
7.51.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ४ ॥
दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा । उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् । ७.५१.४ ॥ ॥

sa dṛṣṭvā sūryasaṅkāśaṁ jvalantamiva tejasā ।
upaviṣṭaṁ vasiṣṭhasya savyapārśve mahāmunim ।
7.51.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ५ ॥
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् । ताभ्यां पूजितो राजा स्वागतेनासनेन ॥ ॥

tau munī tāpasaśreṣṭhau vinīto hyabhivādayat ।
sa tābhyāṁ pūjito rājā svāgatenāsanena ca ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ६ ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह । ७.५१.५ ॥ ॥

pādyena phalamūlaiśca uvāsa munibhiḥ saha ।
7.51.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ७ ॥
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः । बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि । ७.५१.६ ॥ ॥

teṣāṁ tatropaviṣṭānāṁ tāstāḥ sumadhurāḥ kathāḥ ।
babhūvuḥ paramarṣīṇāṁ madhyādityagate 'hani ।
7.51.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ८ ॥
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः । उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् । ७.५१.७ ॥ ॥

tataḥ kathāyāṁ kasyāñcitprāñjaliḥ pragraho nṛpaḥ ।
uvāca taṁ mahātmānamatreḥ putraṁ tapodhanam ।
7.51.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ९ ॥
भगवन्किं प्रमाणेन मम वंशो भविष्यति । किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः । ७.५१.८ ॥ ॥

bhagavankiṁ pramāṇena mama vaṁśo bhaviṣyati ।
kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ ।
7.51.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १० ॥
रामस्य सुता ये स्युस्तेषामायुः कियद्भवेत् । काम्यया भगवन्बूहि वंशस्यास्य गतिं मम । ७.५१.९ ॥ ॥

rāmasya ca sutā ye syusteṣāmāyuḥ kiyadbhavet ।
kāmyayā bhagavanbūhi vaṁśasyāsya gatiṁ mama ।
7.51.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ११ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च । दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे । ७.५१.१० ॥ ॥

tacchrutvā vyāhṛtaṁ vākyaṁ rājño daśarathasya ca ।
durvāsāḥ sumahātejā vyāhartumupacakrame ।
7.51.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १२ ॥
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि । दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः । ७.५१.११ ॥ ॥

śṛṇu rājanpurāvṛttaṁ tadā devāsure yudhi ।
daityāḥ surairbhartsyamānā bhṛgupatnīṁ samāśritāḥ ।
7.51.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १३ ॥
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा । ७.५१.१२ ॥ ॥

tayā dattābhayāstatra nyavasannabhayāstadā ।
7.51.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १४ ॥
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् । ७.५१.१३ ॥ ॥

tayā parigṛhītāṁstāndṛṣṭvā kruddhaḥ sureśvaraḥ ।
cakreṇa śitadhāreṇa bhṛgupatnyāḥ śiro 'harat ।
7.51.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १५ ॥
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् । ७.५१.१४ ॥ ॥

tatastāṁ nihatāṁ dṛṣṭvā patnīṁ bhṛgukulodvahaḥ ।
śaśāpa sahasā kruddho viṣṇuṁ ripukulārdanam ।
7.51.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १६ ॥
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन । ७.५१.१५ ॥ ॥

yasmādavadhyāṁ me patnīmavadhīḥ krodhamūrcchitaḥ ।
tasmāttvaṁ mānuṣe loke janiṣyasi janārdana ।
7.51.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १७ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् । ७.५१.१६ ॥ ॥

tatra patnīviyogaṁ tvaṁ prāpsyase bahuvārṣikam ।
7.51.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १८ ॥
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् । ७.५१.१७ ॥ ॥

śāpābhihatacetāssa svātmanā bhāvito 'bhavat ।
7.51.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · १९ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः । लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् । ७.५१.१९ ॥ ॥

arcayāmāsa taṁ devaṁ bhṛguḥ śāpena pīḍitaḥ ।
tapasārādhito devo hyabravīdbhaktavatsalaḥ ।
lokānāṁ saṁhitārthaṁ tu taṁ śāpaṁ grāhyamuktavān ।
7.51.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २० ॥
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि । इहागतो हि पुत्रत्वं तव पार्थिवसत्तम । ७.५१.२० ॥ ॥

iti śapto mahātejā bhṛguṇā pūrvajanmani ।
ihāgato hi putratvaṁ tava pārthivasattama ।
7.51.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २१ ॥
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद । तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् । ७.५१.२१ ॥ ॥

rāma ityabhivikhyātastriṣu lokeṣu mānada ।
tatphalaṁ prāpsyate cāpi bhṛguśāpakṛtaṁ mahat ।
7.51.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २२ ॥
अयोध्यायाः पती रामो दीर्घकालं भविष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः । ७.५१.२२ ॥ ॥

ayodhyāyāḥ patī rāmo dīrghakālaṁ bhaviṣyati ।
sukhinaśca samṛddhāśca bhaviṣyantyasya ye 'nugāḥ ।
7.51.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २३ ॥
दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति । ७.५१.२३ ॥ ॥

daśa varṣasahasrāṇi daśa varṣaśatāni ca ।
rāmo rājyamupāsitvā brahmalokaṁ gamiṣyati ।
7.51.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २४ ॥
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून्संस्थापयिष्यति । ७.५१.२४ ॥ ॥

samṛddhaiścāśvamedhaiśca iṣṭvā paramadurjayaḥ ।
rājavaṁśāṁśca bahuśo bahūnsaṁsthāpayiṣyati ।
7.51.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २५ ॥
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु । अन्यत्र त्वयोध्यायां सत्यमेतन्नसंशयः । ७.५१.२५ ॥ ॥

dvau putrau tu bhaviṣyete sītāyāṁ rāghavasya tu ।
anyatra na tvayodhyāyāṁ satyametannasaṁśayaḥ ।
7.51.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २६ ॥
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः । ७.५१.२६ ॥ ॥

sītāyāśca tataḥ putrāvabhiṣekṣyati rāghavaḥ ।
7.51.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २७ ॥
सर्वमखिलं राज्ञो वंशस्याह गतागतम् । आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः । ७.५१.२७ ॥ ॥

sa sarvamakhilaṁ rājño vaṁśasyāha gatāgatam ।
ākhyāya sumahātejāstūṣṇīmāsīnmahāmuniḥ ।
7.51.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २८ ॥
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ । अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् । ७.५१.२८ ॥ ॥

tūṣṇīmbhūte tadā tasminrājā daśaratho munau ।
abhivādya mahātmānau punarāyātpurottamam ।
7.51.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · २९ ॥
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा । श्रुतं हृदि निक्षिप्तं नान्यथा तद्भविष्यति । ७.५१.२९ ॥ ॥

etadvaco mayā tatra muninā vyāhṛtaṁ purā ।
śrutaṁ hṛdi ca nikṣiptaṁ nānyathā tadbhaviṣyati ।
7.51.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ३० ॥
एवं गते सन्तापं कर्तुमर्हसि राघव । सीतार्थे राघवार्थे वा दृढो भव नरोत्तम । ७.५१.३० ॥ ॥

evaṁ gate na santāpaṁ kartumarhasi rāghava ।
sītārthe rāghavārthe vā dṛḍho bhava narottama ।
7.51.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ३१ ॥
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् । ७.५१.३१ ॥ ॥

śrutvā tu vyāhṛtaṁ vākyaṁ sūtasya paramādbhutam ।
praharṣamatulaṁ lebhe sādhu sādhviti cābravīt ।
7.51.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५१ · ३२ ॥
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि । अस्तमर्के गते वासं केशिन्यां तावथोषतुः । ७.५१.३२ ॥

tataḥ saṁvadatorevaṁ sūtalakṣmaṇayoḥ pathi ।
astamarke gate vāsaṁ keśinyāṁ tāvathoṣatuḥ ।
7.51.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.