वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५० · २० श्लोकाःSarga 50 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५० · १ ॥
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः । ७.५०.१ ॥ ॥

dṛṣṭvā tu maithilīṁ sītāmāśrame sampraveśitām ।
santāpamagamadghoraṁ lakṣmaṇo dīnacetanaḥ ।
7.50.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · २ ॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे । ७.५०.२ ॥ ॥

abravīcca mahātejāḥ sumantraṁ mantrasārathim ।
sītāsantāpajaṁ duḥkhaṁ paśya rāmasya sārathe ।
7.50.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ३ ॥
ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् । ७.५०.३ ॥ ॥

tato duḥkhataraṁ kiṁ nu rāghavasya bhaviṣyati ।
patnīṁ śuddhasamācārāṁ visṛjya janakātmajām ।
7.50.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ४ ॥
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् । ७.५०.४ ॥ ॥

vyaktaṁ daivādahaṁ manye rāghavasya vinā bhavam ।
vaidehyā sārathe nityaṁ daivaṁ hi duratikramam ।
7.50.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ५ ॥
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः दैवमनुवर्तते । ७.५०.५ ॥ ॥

yo hi devānsagandharvānasurānsaha rākṣasaiḥ ।
nihanyādrāghavaḥ kruddhaḥ sa daivamanuvartate ।
7.50.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ६ ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने । ७.५०.६ ॥ ॥

purā rāmaḥ piturvākyāddaṇḍake vijane vane ।
uṣitvā nava varṣāṇi pañca caiva mahāvane ।
7.50.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ७ ॥
ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे । ७.५०.७ ॥ ॥

tato duḥkhataraṁ bhūyaḥ sītāyā vipravāsanam ।
paurāṇāṁ vacanaṁ śrutvā nṛśaṁsaṁ pratibhāti me ।
7.50.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ८ ॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः । ७.५०.८ ॥ ॥

ko nu dharmāśrayaḥ sūta karmaṇyasminyaśohare ।
maithilīṁ pratisamprāptaḥ paurairhīnārthavādibhiḥ ।
7.50.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ९ ॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह । ७.५०.९ ॥ ॥

etā vāco bahuvidhāḥ śrutvā lakṣmaṇabhāṣitāḥ ।
sumantraḥ śraddhayā prājño vākyametaduvāca ha ।
7.50.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १० ॥
सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः । ७.५०.१० ॥ ॥

na santāpastvayā kāryaḥ saumitre maithilīṁ prati ।
dṛṣṭametatpurā vipraiḥ pituste lakṣmaṇāgrataḥ ।
7.50.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · ११ ॥
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् । ७.५०.११ ॥ ॥

bhaviṣyati dṛḍhaṁ rāmo duḥkhaprāyo 'pi saukhyabhāk ।
prāpsyate ca mahābāhurviprayogaṁ priyairdhruvam ।
7.50.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १२ ॥
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् । ७.५०.१२ ॥ ॥

tvāṁ caiva maithilīṁ caiva śatrughnabharatāvubhau ।
santyajiṣyati dharmātmā kālena mahatā mahān ।
7.50.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १३ ॥
इदं त्वयि वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह । ७.५०.१३ ॥ ॥

idaṁ tvayi na vaktavyaṁ saumitre bharate 'pi vā ।
rājñā vo vyāhṛtaṁ vākyaṁ durvāsā yaduvāca ha ।
7.50.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १४ ॥
महाजनसमीपे मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य सन्निधौ । ७.५०.१४ ॥ ॥

mahājanasamīpe ca mama caiva nararṣabha ।
ṛṣiṇā vyāhṛtaṁ vākyaṁ vasiṣṭhasya ca sannidhau ।
7.50.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १५ ॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत क्वचिदेवं ते वक्तव्यं जनसन्निधौ । ७.५०.१५ ॥ ॥

ṛṣestu vacanaṁ śrutvā māmāha puruṣarṣabhaḥ ।
sūta na kvacidevaṁ te vaktavyaṁ janasannidhau ।
7.50.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १६ ॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् । ७.५०.१६ ॥ ॥

tasyāhaṁ lokapālasya vākyaṁ tatsusamāhitaḥ ।
naiva jātvanṛtaṁ kāryamiti me saumya darśanam ।
7.50.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १७ ॥
सर्वथैव वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन । ७.५०.१७ ॥ ॥

sarvathaiva na vaktavyaṁ mayā saumya tavāgrataḥ ।
yadi te śravaṇe śraddhā śrūyatāṁ raghunandana ।
7.50.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १८ ॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् । ७.५०.१८ ॥ ॥

yadyapyahaṁ narendreṇa rahasyaṁ śrāvitaḥ purā ।
tathāpyudāhariṣyāmi daivaṁ hi duratikramam ।
7.50.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · १९ ॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ । ७.५०.१९ ॥ ॥

yenedamīdṛśaṁ prāptaṁ duḥkhaṁ śokasamanvitam ।
na tvayā bharate vācyaṁ śatrughnasyāpi sannidhau ।
7.50.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५० · २० ॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् । ७.५०.२० ॥

tacchrutvā bhāṣitaṁ tasya gambhīrārthapadaṁ mahat ।
tathyaṁ brūhīti saumitriḥ sūtaṁ vākyamathābravīt ।
7.50.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.