वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४९ · २४ श्लोकाःSarga 49 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४९ · १ ॥
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः । ७.४९.१ ॥ ॥

sītāṁ tu rudatīṁ dṛṣṭvā te tatra munidārakāḥ ।
prādravanyatra bhagavānāste vālmīkirugradhīḥ ।
7.49.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २ ॥
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् । ७.४९.२ ॥ ॥

abhivādya muneḥ pādau muniputrā maharṣaye ।
sarvaṁ nivedayāmāsustasyāstu ruditasvanam ।
7.49.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ३ ॥
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना । ७.४९.३ ॥ ॥

adṛṣṭapūrvā bhagavankasyāpyeṣā mahātmanaḥ ।
patnī śrīriva sammohādvirauti vikṛtānanā ।
7.49.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ४ ॥
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता । ७.४९.४ ॥ ॥

bhagavansādhu paśya tvaṁ devatāmiva khāccyutām ।
nadyāstu tīre bhagavanvarastrī kāpi duḥkhitā ।
7.49.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ५ ॥
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् । ७.४९.५ ॥ ॥

dṛṣṭāsmābhiḥ praruditā dṛḍhaṁ śokaparāyaṇā ।
anarhā duḥkhaśokābhyāmekāṁ dīnāṁ hyanāthavat ।
7.49.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ६ ॥
ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे त्वामियं शरणं गता । ७.४९.६ ॥ ॥

na hyenāṁ mānuṣīṁ vidmaḥ satkriyā 'syāḥ prayujyatām ।
āśramasyāvidūre ca tvāmiyaṁ śaraṇaṁ gatā ।
7.49.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ७ ॥
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली । ७.४९.७ ॥ ॥

trātāramicchate sādhvī bhagavaṁstrātumarhasi ।
teṣāṁ tu vacanaṁ śrutvā buddhyā niścitya dharmavit ।
tapasā labdhacakṣuṣmān prādravadyatra maithilī ।
7.49.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ८ ॥
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः । ७.४९.८ ॥ ॥

taṁ prayāntamabhipretya śiṣyā hyenaṁ mahāmatim ।
taṁ tu deśamabhi pretya kiñcitpadbhyāṁ mahāmatiḥ ।
7.49.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ९ ॥
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् । ७.४९.९ ॥

arghyamādāya ruciraṁ jāhnavītīramāgamat ।
dadarśa rāghavasyeṣṭāṁ sītāṁ patnīmanāthavat ।
7.49.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १० ॥
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा । ७.४९.१० ॥ ॥

tāṁ sītāṁ śokabhārārtāṁ vālmīkirmunipuṅgavaḥ ।
uvāca madhurāṁ vāṇīṁ hlādayanniva tejasā ।
7.49.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · ११ ॥
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते । ७.४९.११ ॥ ॥

snuṣā daśarathasya tvaṁ rāmasya mahiṣī priyā ।
janakasya sutā rājñaḥ svāgataṁ te pativrate ।
7.49.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १२ ॥
आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् । ७.४९.१२ ॥ ॥

āyāntī cāsi vijñātā mayā dharmasamādhinā ।
kāraṇaṁ caiva sarvaṁ me hṛdayenopalakṣitam ।
7.49.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १३ ॥
तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं विदितं मह्यं त्रैलोक्ये यद्धि वर्तते । ७.४९.१३ ॥ ॥

tava caiva mahābhāge viditaṁ mama tattvataḥ ।
sarvaṁ ca viditaṁ mahyaṁ trailokye yaddhi vartate ।
7.49.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १४ ॥
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे । ७.४९.१४ ॥ ॥

apāpāṁ vedmi sīte tvāṁ tapolabdhena cakṣuṣā ।
visrabdhā bhava vaidehi sāmprataṁ mayi vartase ।
7.49.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १५ ॥
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः । ७.४९.१५ ॥ ॥

āśramasyāvidūre me tāpasyastapasi sthitāḥ ।
tāstvāṁ vatse yathā vatsaṁ pālayiṣyanti nityaśaḥ ।
7.49.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १६ ॥
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः । ७.४९.१६ ॥ ॥

idamardhyaṁ pratīccha tvaṁ visrabdhā vigatajvarā ।
yathā svagṛhamabhyetya viṣādaṁ caiva mā kṛthāḥ ।
7.49.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १७ ॥
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः । ७.४९.१७ ॥ ॥

śrutvā tu bhāṣitaṁ sītā muneḥ paramamadbhutam ।
śirasā ' 'vandya caraṇau tathetyāha kṛtāñjaliḥ ।
7.49.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १८ ॥
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् । ७.४९.१८ ॥ ॥

taṁ prayāntaṁ muniṁ sītā prāñjaliḥ pṛṣṭhato 'nvagāt ।
7.49.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · १९ ॥
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् । ७.४९.१९ ॥ ॥

taṁ dṛṣṭvā munimāyāntaṁ vaidehyā munipatnayaḥ ।
upājagmurmudā yuktā vacanaṁ cedamabruvan ।
7.49.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २० ॥
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं ते । अभिवादयामस्त्वां सर्वा उच्यतां कि कुर्महे । ७.४९.२० ॥ ॥

svāgataṁ te muniśreṣṭha cirasyāgamanaṁ ca te ।
abhivādayāmastvāṁ sarvā ucyatāṁ ki ca kurmahe ।
7.49.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २१ ॥
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः । ७.४९.२१ ॥ ॥

tāsāṁ tadvacanaṁ śrutvā vālmīkiridamabravīt ।
sīteyaṁ samanuprāptā patnī rāmasya dhīmataḥ ।
7.49.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २२ ॥
स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा । ७.४९.२२ ॥ ॥

snuṣā daśarathasyaiṣā janakasya sutā satī ।
apāpā patinā tyaktā paripālyā mayā sadā ।
7.49.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २३ ॥
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः । ७.४९.२३ ॥ ॥

imāṁ bhavantyaḥ(?) paśyantu snehena parameṇa hi ।
gauravānmama vākyācca pūjyā vo 'stu viśeṣataḥ ।
7.49.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४९ · २४ ॥
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः । ७.४९.२४ ॥

muhurmuhuśca vaidehīṁ praṇidhāya mahāyaśāḥ ।
svamāśramaṁ śiṣyavṛtaḥ punarāyānmahātapāḥ ।
7.49.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.