वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४८ · २६ श्लोकाःSarga 48 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४८ · १ ॥
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह । ७.४८.१ ॥ ॥

lakṣmaṇasya vacaḥ śrutvā dāruṇaṁ janakātmajā ।
paraṁ viṣādamāgamya vaidehī nipapāta ha ।
7.48.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २ ॥
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा । ७.४८.२ ॥ ॥

sā muhūrtamivāsañjñā bāṣpaparyākulekṣaṇā ।
lakṣmaṇaṁ dīnayā vācā uvāca janakātmajā ।
7.48.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ३ ॥
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते । ७.४८.३ ॥ ॥

māmikeyaṁ tanurnūnaṁ sṛṣṭā duḥkhāya lakṣmaṇa ।
dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate ।
7.48.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ४ ॥
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती । ७.४८.४ ॥ ॥

kiṁ nu pāpaṁ kṛtaṁ pūrvaṁ ko vā dārairviyojitaḥ ।
yā 'haṁ śuddhasamācārā tyaktā nṛpatinā satī ।
7.48.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ५ ॥
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे परिवर्तिनी । ७.४८.५ ॥ ॥

purā 'hamāśrame vāsaṁ rāmapādānuvartinī ।
anurudhyāpi saumitre duḥkhe ca parivartinī ।
7.48.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ६ ॥
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि कस्याहं दुःखं दुःखपरायणा । ७.४८.६ ॥ ॥

sā kathaṁ hyāśrame saumya vatsyāmi vijanīkṛtā ।
ākhyāsyāmi ca kasyāhaṁ duḥkhaṁ duḥkhaparāyaṇā ।
7.48.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ७ ॥
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना । ७.४८.७ ॥ ॥

kiṁ nu vakṣyāmi muniṣu karma vā satkṛtaṁ ca kim ।
kasmiṁścit kāraṇe tyaktā rāghaveṇa mahātmanā ।
7.48.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ८ ॥
खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते । ७.४८.८ ॥ ॥

na khalvadyaiva saumitre jīvitaṁ jāhnavījale ।
tyajeyaṁ rājavaṁśastu bharturme parihāsyate ।
7.48.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ९ ॥
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम । ७.४८.९ ॥ ॥

yathājñaṁ kuru somitre tyaja māṁ duḥkhabhāginīm ।
nideśe sthīyatāṁ rājñaḥ śṛṇu cedaṁ vaco mama ।
7.48.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १० ॥
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् । ७.४८.१० ॥ ॥

śvaśrūṇāmaviśeṣeṇa prāñjalipragraheṇa ca ।
śirasā ' 'vandya caraṇau kuśalaṁ brūhi pārthivam ।
7.48.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · ११ ॥
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः । ७.४८.११ ॥ ॥

śirasā 'bhinato brūyāḥ sarvāsāmeva lakṣmaṇa ।
vaktavyaścāpi nṛpatirdharmeṣu susamāhitaḥ ।
7.48.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १२ ॥
जानासि यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या परया युक्ता हिता तव नित्यशः । ७.४८.१२ ॥ ॥

jānāsi ca yathā śuddhā sītā tattvena rāghava ।
bhaktyā ca parayā yuktā hitā ca tava nityaśaḥ ।
7.48.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १३ ॥
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया परिहर्तव्यं त्वं हि मे परमा गतिः । ७.४८.१३ ॥ ॥

ahaṁ tyaktā tvayā vīra ayaśobhīruṇā jane ।
yacca te vacanīyaṁ syādapavādasamutthitam ।
mayā ca parihartavyaṁ tvaṁ hi me paramā gatiḥ ।
7.48.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १४ ॥
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा । ७.४८.१४ ॥ ॥

vaktavyaśceti nṛpatirdhameṇa susamāhitaḥ ।
yathā bhrātṛṣu vartethāstathā paureṣu nityadā ।
7.48.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १५ ॥
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा । ७.४८.१५ ॥ ॥

paramo hyeṣa dharmaste tasmātkīrtiranuttamā ।
7.48.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १६ ॥
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ । ७.४८.१६ ॥ ॥

yattu paurajano rājandharmeṇa samavāpnuyāt ।
ahaṁ tu nānuśocāmi svaśarīraṁ nararṣabha ।
7.48.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १७ ॥
यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः । ७.४८.१७ ॥ ॥

yathāpavādaṁ paurāṇāṁ tathaiva raghunandana ।
patirhi devatā nāryāḥ patirbandhuḥ patirguruḥ ।
7.48.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १८ ॥
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् । ७.४८.१८ ॥ ॥

prāṇairapi priyaṁ tasmādbhartuḥ kāryaṁ viśeṣataḥ ।
iti madvacanādrāmo vaktavyo mama saṅgrahaḥ ।
nirīkṣya mā 'dya gaccha tvamṛtukālātivartinīm ।
7.48.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · १९ ॥
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽवन्द्य धरणीं व्याहर्तुं शशाक ह । ७.४८.१९ ॥ ॥

evaṁ bruvantyāṁ sītāyāṁ lakṣmaṇo dīnacetanaḥ ।
śirasā ' 'vandya dharaṇīṁ vyāhartuṁ na śaśāka ha ।
7.48.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २० ॥
प्रदक्षिणं तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने । ७.४८.२० ॥ ॥

pradakṣiṇaṁ ca tāṁ kṛtvā rudanneva mahāsvanaḥ ।
dhyātvā muhūrtaṁ tāmāha kiṁ māṁ vakṣyasi śobhane ।
7.48.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २१ ॥
दृष्टपूर्वं ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने । ७.४८.२१ ॥ ॥

dṛṣṭapūrvaṁ na te rūpaṁ pādau dṛṣṭau tavānaghe ।
kathamatra hi paśyāmi rāmeṇa rahitāṁ vane ।
7.48.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २२ ॥
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य पुनर्नावं नाविकं चाभ्यचोदयत् । ७.४८.२२ ॥ ॥

ityuktvā tāṁ namaskṛtya punarnāvamupāruhat ।
āruhya ca punarnāvaṁ nāvikaṁ cābhyacodayat ।
7.48.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २३ ॥
गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् । ७.४८.२३ ॥ ॥

sa gatvā cottaraṁ tīraṁ śokabhārasamanvitaḥ ।
sammūḍha iva duḥkhena rathamadhyāruhaddrutam ।
7.48.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २४ ॥
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ । ७.४८.२४ ॥ ॥

muhurmuhuḥ parāvṛtya dṛṣṭvā sītāmanāthavat ।
ceṣṭantīṁ paratīrasthāṁ lakṣmaṇaḥ prayayāvatha ।
7.48.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २५ ॥
दूरस्थं रथमालोक्य लक्ष्मणं मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् । ७.४८.२५ ॥ ॥

dūrasthaṁ rathamālokya lakṣmaṇaṁ ca muhūrmuhuḥ ।
nirīkṣamāṇāṁ tūdvignāṁ sītāṁ śokaḥ samāviśat ।
7.48.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४८ · २६ ॥
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती । ७.४८.२६ ॥

sā duḥkhabhārāvanatā yaśasvinī yaśodhanā nāthamapaśyatī satī ।
ruroda sā barhiṇanādite vane mahāsvanaṁ duḥkhaparāyaṇā satī ।
7.48.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.