वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४७ · १८ श्लोकाःSarga 47 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४७ · १ ॥
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् । ७.४७.१ ॥ ॥

atha nāvaṁ suvistīrṇāṁ naiṣādīṁ rāghavānujaḥ ।
āruroha samāyuktāṁ pūrvamāropya maithilīm ।
7.47.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · २ ॥
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति नाविकम् । ७.४७.२ ॥ ॥

sumantraṁ caiva sarathaṁ sthīyatāmiti lakṣmaṇaḥ ।
uvāca śokasantaptaḥ prayāhīti ca nāvikam ।
7.47.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ३ ॥
ततस्तीरमुपागम्य भागीरथ्याः लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः । ७.४७.३ ॥ ॥

tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ ।
uvāca maithilīṁ vākyaṁ prāñjalirbāṣpasamplutaḥ ।
7.47.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ४ ॥
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः । ७.४७.४ ॥ ॥

hṛdgataṁ me mahacchalyaṁ yasmādāryeṇa dhīmatā ।
asminnimitte vaidehi lokasya vacanīkṛtaḥ ।
7.47.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ५ ॥
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते । ७.४७.५ ॥ ॥

śreyo hi maraṇaṁ me 'dya mṛtyurvā yatparaṁ bhavet ।
na cāsminnīdṛśe kārye niyojyo lokanindite ।
7.47.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ६ ॥
प्रसीद मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात लक्ष्मणः । ७.४७.६ ॥ ॥

prasīda ca na me pāpaṁ kartumarhasi śobhane ।
ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ ।
7.47.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ७ ॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् । ७.४७.७ ॥ ॥

rudantaṁ prāñjaliṁ dṛṣṭvā kāṅkṣantaṁ mṛtyumātmanaḥ ।
maithilī bhṛśasaṁvignā lakṣmaṇaṁ vākyamabravīt ।
7.47.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ८ ॥
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां स्वस्थमपि क्षेमं महीपतेः । ७.४७.८ ॥ ॥

kimidaṁ nāvagacchāmi brūhi tattvena lakṣmaṇa ।
paśyāmi tvāṁ na ca svasthamapi kṣemaṁ mahīpateḥ ।
7.47.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ९ ॥
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते । ७.४७.९ ॥ ॥

śāpito 'si narendreṇa yattvaṁ santāpamāgataḥ ।
tadbrūyāḥ sannidhau mahyamahamājñāpayāmi te ।
7.47.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १० ॥
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह । ७.४७.१० ॥ ॥

vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ ।
avāṅmukho bāṣpakalaṁ vākyametaduvāca ha ।
7.47.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · ११ ॥
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः । ७.४७.११ ॥ ॥

śrutvā pariṣado madhye hyapavādaṁ sudāruṇam ।
pure janapade caiva tvatkṛte janakātmaje ।
rāmaḥ santaptahṛdayo mā nivedya gṛhaṁ gataḥ ।
7.47.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १२ ॥
तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः । ७.४७.१२ ॥ ॥

na tāni vacanīyāni mayā devi tavāgrataḥ ।
yāni rājñā hṛdi nyastānyamarṣātpṛṣṭhataḥ kṛtaḥ ।
7.47.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १३ ॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि ते ऽन्यथा । ७.४७.१३ ॥ ॥

sā tvaṁ tyaktā nṛpatinā nirdoṣā mama sannidhau ।
paurāpavādabhītena grāhyaṁ devi na te 'nyathā ।
7.47.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १४ ॥
आश्रमान्तेषु मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् । ७.४७.१४ ॥ ॥

āśramānteṣu ca mayā tyaktavyā tvaṁ bhaviṣyasi ।
rājñaḥ śāsanamājñāya tavedaṁ kila daurhṛdam ।
7.47.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १५ ॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं रमणीयं मा विषादं कृथाः शुभे । ७.४७.१५ ॥ ॥

tadetajjāhnavītīre brahmarṣīṇāṁ tapovanam ।
puṇyaṁ ca ramaṇīyaṁ ca mā viṣādaṁ kṛthāḥ śubhe ।
7.47.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १६ ॥
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः । ७.४७.१६ ॥ ॥

rājño daśarathasyeṣṭaḥ piturme munipuṅgavaḥ ।
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ ।
7.47.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १७ ॥
पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे । ७.४७.१७ ॥ ॥

pādacchāyāmupāgamya sukhamasya mahātmanaḥ ।
upavāsaparaikāgrā vasa tvaṁ janakātmaje ।
7.47.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४७ · १८ ॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति । ७.४७.१८ ॥

pativratātvamāsthāya rāmaṁ kṛtvā sadā hṛdi ।
śreyaste paramaṁ devi tathā kṛtvā bhaviṣyati ।
7.47.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.