वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४६ · ३४ श्लोकाःSarga 46 · 34 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४६ · १ ॥
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता । ७.४६.१ ॥ ॥

tato rajanyāṁ vyuṣṭāyāṁ lakṣmaṇo dīnacetanaḥ ।
sumantramabravīdvākyaṁ mukhena pariśuṣyatā ।
7.46.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २ ॥
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु । ७.४६.२ ॥ ॥

sārathe turagāñchīghraṁ yojayasva rathottame ।
svāstīrṇaṁ rājabhavanātsītāyāścāsanaṁ kuru ।
7.46.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३ ॥
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः । ७.४६.३ ॥ ॥

sītā hi rājavacanādāśramaṁ puṇyakarmaṇām ।
mayā neyā maharṣīṇāṁ śrīghramānīyatāṁ rathaḥ ।
7.46.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ४ ॥
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया । ७.४६.४ ॥ ॥

sumantrastu tathetyuktvā yuktaṁ paramavājibhiḥ ।
rathaṁ suruciraprakhyaṁ svāstīrṇaṁ sukhaśayyayā ।
7.46.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ५ ॥
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो । ७.४६.५ ॥ ॥

ānīyovāca saumitriṁ mitrāṇāṁ mānavardhanam ।
ratho 'yaṁ samanuprāpto yatkāryaṁ kriyatāṁ prabho ।
7.46.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ६ ॥
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः । ७.४६.६ ॥ ॥

evamuktaḥ sumantreṇa rājaveśmani lakṣmaṇaḥ ।
praviśya sītāmāsādya vyājahāra nararṣabhaḥ ।
7.46.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ७ ॥
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति । ७.४६.७ ॥ ॥

tvayā kilaiṣa nṛpatirvaraṁ vai yācitaḥ prabhuḥ ।
nṛpeṇa ca pratijñātamājñaptaścāśramaṁ prati ।
7.46.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ८ ॥
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि । ७.४६.८ ॥ ॥

gaṅgītīre mayā devi ṛṣīṇāmāśramāñchubhān ।
śīghraṁ gatvā tu vaidehi śāsanātpārthivasya naḥ ।
araṇye munibhirjuṣṭe apaneyā bhaviṣyasi ।
7.46.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ९ ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् । ७.४६.९ ॥ ॥

evamuktā tu vaidehī lakṣmaṇena mahātmanā ।
praharṣamatulaṁ lebhe gamanaṁ cāpyarocayat ।
7.46.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १० ॥
वासांसि महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे । ७.४६.१० ॥ ॥

vāsāṁsi ca mahārhāṇi ratnāni vividhāni ca ।
gṛhītvā tāni vaidehī gamanāyopacakrame ।
7.46.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ११ ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि महार्हाणि धनानि विविधानि च । ७.४६.११ ॥ ॥

imāni munipatnīnāṁ dāsyāmyābharaṇānham ।
vastrāṇi ca mahārhāṇi dhanāni vividhāni ca ।
7.46.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १२ ॥
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् । ७.४६.१२ ॥ ॥

saumitristu tathetyuktvā rathamāropya maithilīm ।
prayayau śīghraturagai rāmasyājñāmanusmaran ।
7.46.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १३ ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन । ७.४६.१३ ॥ ॥

abravīcca tadā sītā lakṣmaṇaṁ lakṣmivardhanam ।
aśubhāni bahūnyeva paśyāmi raghunandana ।
7.46.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १४ ॥
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये । ७.४६.१४ ॥ ॥

nayanaṁ me sphuratyadya gātrotkampaśca jāyate ।
hṛdayaṁ caiva saumitre asvasthamiva lakṣaye ।
7.46.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १५ ॥
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव पश्यामि पृथिवीं पृथुलोचन । ७.४६.१५ ॥ ॥

autsukyaṁ paramaṁ cāpi adhṛtiśca parā mama ।
śūnyāmeva ca paśyāmi pṛthivīṁ pṛthulocana ।
7.46.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १६ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः । ७.४६.१६ ॥ ॥

api svasti bhavettasya bhrātuste bhrātṛvatsala ।
śvaśrūṇāṁ caiva me vīra sarvāsāmaviśeṣataḥ ।
7.46.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १७ ॥
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत । ७.४६.१७ ॥ ॥

pure janapade caiva kuśalaṁ prāṇināmapi ।
ityañjalikṛtā sītā devatā abhyayācata ।
7.46.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १८ ॥
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता । ७.४६.१८ ॥ ॥

lakṣmaṇo 'rthaṁ tataḥ śrutvā śirasā vandya maithilīm ।
śivamityabravīddhṛṣṭo hṛdayena viśuṣyatā ।
7.46.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · १९ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् । ७.४६.१९ ॥ ॥

tato vāsamupāgamya gomatītīra āśrame ।
prabhāte punarutthāya saumitriḥ sūtamabravīt ।
7.46.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २० ॥
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा । ७.४६.२० ॥ ॥

yojayasva rathaṁ śīghramadya bhāgīrathījalam ।
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā ।
7.46.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २१ ॥
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् । ७.४६.२१ ॥ ॥

so 'śvān rajvātha caturo rathe yuṅktvā manojavān ।
ārohasveti vaidehīṁ sūtaḥ prāñjalirabravīt ।
7.46.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २२ ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण धीमता । ७.४६.२२ ॥ ॥

sā tu sūtasya vacanādāruroha rathottamam ।
sītā saumitriṇā sārdhaṁ sumantreṇa ca dhīmatā ।
7.46.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २३ ॥
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् । ७.४६.२३ ॥ ॥

āsasāda viśālākṣī gaṅgāṁ pāpavināśinīm ।
athārdhadivasaṁ gatvā bhāgīrathyā jalāśayam ।
7.46.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २४ ॥
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः । ७.४६.२४ ॥ ॥

nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanaḥ ।
7.46.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २५ ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया । ७.४६.२५ ॥ ॥

sītā tu paramāyattā dṛṣṭvā lakṣmaṇamāturam ।
uvāca vākyaṁ dharmajñā kimidaṁ rudyate tvayā ।
7.46.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २६ ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण । ७.४६.२६ ॥ ॥

jāhnavītīramāsādya cirābhilaṣitaṁ mama ।
harṣakāle kimarthaṁ māṁ viṣādayasi lakṣmaṇa ।
7.46.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २७ ॥
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः । ७.४६.२७ ॥ ॥

nityaṁ tvaṁ rāmapārśveṣu vartase puruṣarṣabha ।
kaccidvinākṛtastena dvirātraṁ śokamāgataḥ ।
7.46.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २८ ॥
ममापि दयितो रामो जीवितादपि लक्ष्मण । चाहमेवं शोचामि मैवं त्वं बालिशो भव । ७.४६.२८ ॥ ॥

mamāpi dayito rāmo jīvitādapi lakṣmaṇa ।
na cāhamevaṁ śocāmi maivaṁ tvaṁ bāliśo bhava ।
7.46.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · २९ ॥
तारयस्व मां गङ्गां दर्शयस्व तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च । ७.४६.२९ ॥ ॥

tārayasva ca māṁ gaṅgāṁ darśayasva ca tāpasān ।
tato munibhyo dāsyāmi vāṁsāsyābharaṇāni ca ।
7.46.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३० ॥
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः । ७.४६.३० ॥ ॥

tataḥ kṛtvā maharṣīṇāṁ yathārhamabhivādanam ।
tatra caikāṁ niśāmuṣya yāsyāmastāṁ purīṁ punaḥ ।
7.46.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३१ ॥
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् । ७.४६.३१ ॥ ॥

mamāpi padmapatrākṣaṁ siṁhoraskaṁ kṛśodaram ।
tvarate hi mano draṣṭuṁ rāmaṁ ramayatāṁ varam ।
7.46.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३२ ॥
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा । ७.४६.३२ ॥ ॥

tasyāstadvacanaṁ śrutvā pramṛjya nayane śubhe ।
nāvikānāhvayāmāsa lakṣmaṇaḥ paravīrahā ।
7.46.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३३ ॥
इयं सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् । ७.४६.३३ ॥ ॥

iyaṁ ca sajjā nauśceti dāśāḥ prāñjalayo 'bruvan ।
7.46.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४६ · ३४ ॥
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः । ७.४६.३४ ॥

titīrṣurlakṣmaṇo gaṅgāṁ śubhāṁ nāvamupāruhat ।
gaṅgāṁ santārayāmāsa lakṣmaṇastāṁ samāhitaḥ ।
7.46.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.