वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४५ · २५ श्लोकाःSarga 45 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४५ · १ ॥
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता । ७.४५.१ ॥ ॥

teṣāṁ samupaviṣṭānāṁ sarveṣāṁ dīnacetasām ।
uvāca vākyaṁ kākutstho mukhena pariśuṣyatā ।
7.45.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २ ॥
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा । ७.४५.२ ॥ ॥

sarve śṛṇuta bhadraṁ vo mā kurudhvaṁ mano 'nyathā ।
paurāṇāṁ mama sītāyāṁ yādṛśī vartate kathā ।
7.45.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ३ ॥
पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति । ७.४५.३ ॥ ॥

paurāpavādaḥ sumahāṁstathā janapadasya ca ।
vartate mayi bībhatsā sā me marmāṇi kṛntati ।
7.45.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ४ ॥
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् । ७.४५.४ ॥ ॥

ahaṁ kila kule jāta ikṣvākūṇāṁ mahātmanām ।
sītā 'pi satkule jātā janakānāṁ mahātmanām ।
7.45.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ५ ॥
जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता विध्वंसितो मया । ७.४५.५ ॥ ॥

jānāsi tvaṁ yathā saumya daṇḍake vijane vane ।
rāvaṇena hṛtā sītā sa ca vidhvaṁsito mayā ।
7.45.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ६ ॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् । ७.४५.६ ॥ ॥

tatra me buddhirutpannā janakasya sutāṁ prati ।
atroṣitāmimāṁ sītāmānayeyaṁ kathaṁ purīm ।
7.45.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ७ ॥
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः । ७.४५.७ ॥ ॥

pratyayārthaṁ tataḥ sītā viveśa jvalanaṁ tadā ।
pratyakṣaṁ tava saumitre devānāṁ havyavāhanaḥ ।
apāpāṁ maithilīmāha vāyuścākāśagocaraḥ ।
7.45.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ८ ॥
चन्द्रादित्यौ शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् । ७.४५.८ ॥ ॥

candrādityau ca śaṁsete surāṇāṁ sannidhau purā ।
ṛṣīṇāṁ caiva sarveṣāmapāpāṁ janakātmajām ।
7.45.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ९ ॥
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता । ७.४५.९ ॥ ॥

evaṁ śuddhasamācārā devagandharvasannidhau ।
laṅkādvīpe mahendreṇa mama haste niveśitā ।
7.45.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १० ॥
अन्तरात्मा मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः । ७.४५.१० ॥ ॥

antarātmā ca me vetti sītāṁ śuddhāṁ yaśasvinīm ।
tato gṛhītvā vaidehīmayodhyāmahamāgataḥ ।
7.45.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · ११ ॥
अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च । ७.४५.११ ॥ ॥

ayaṁ tu me mahānvādaḥ śokaśca hṛdi vartate ।
paurāpavādaḥ sumahāṁstathā janapadasya ca ।
7.45.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १२ ॥
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते । ७.४५.१२ ॥ ॥

akīrtiryasya gīyeta loke bhūtasya kasyacit ।
patatyevādhamām̐llokānyāvacchabdaḥ prakīrtyate ।
7.45.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १३ ॥
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् । ७.४५.१३ ॥ ॥

akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate ।
kīrtyarthaṁ tu samārambhaḥ sarveṣāṁ sumahātmanām ।
7.45.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १४ ॥
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् । ७.४५.१४ ॥ ॥

apyahaṁ jīvitaṁ jahyāṁ yuṣmānvā puruṣarṣabhāḥ ।
apavādabhayādbhītaḥ kiṁ punarjanakātmajām ।
7.45.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १५ ॥
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् । ७.४५.१५ ॥ ॥

tasmādbhavantaḥ paśyantu patitaṁ śokasāgare ।
nahi paśyāmyahaṁ bhūtaṁ kiñcidduḥkhamato 'dhikam ।
7.45.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १६ ॥
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज । ७.४५.१६ ॥ ॥

śvastvaṁ prabhāte saumitre sumantrādhiṣṭhitaṁ ratham ।
āruhya sītāmāropya viṣayānte samutsṛja ।
7.45.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १७ ॥
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः । ७.४५.१७ ॥ ॥

gaṅgāyāstu pare pāre vālmīkestu mahātmanaḥ ।
āśramo divyasaṅkāśastamasātīramāśritaḥ ।
7.45.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १८ ॥
तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम । ७.४५.१८ ॥ ॥

tatraināṁ vijane deśe visṛjya raghunandana ।
śīghramāgaccha bhadraṁ te kuruṣva vacanaṁ mama ।
7.45.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · १९ ॥
चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा । ७.४५.१९ ॥ ॥

na cāsmin prativaktavyaḥ sītāṁ prati kathañcana ।
tasmāttvaṁ gaccha saumitre nātra kāryā vicāraṇā ।
7.45.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २० ॥
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च । ७.४५.२० ॥ ॥

aprītirhi parā mahyaṁ tvayetatprativārite ।
śāpitā hi mayā yūyaṁ bhujābhyāṁ jīvitena ca ।
7.45.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २१ ॥
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् । ७.४५.२१ ॥ ॥

ye māṁ vākyāntare brūyuranunetuṁ kathañcana ।
ahitā nāma te nityaṁ madabhīṣṭavighātanāt ।
7.45.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २२ ॥
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम । ७.४५.२२ ॥ ॥

mānayantu bhavanto māṁ yadi macchāsane sthitāḥ ।
ito 'dya nīyatāṁ sītā kuruṣva vacanaṁ mama ।
7.45.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २३ ॥
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् । ७.४५.२३ ॥ ॥

pūrvamukto 'hamanayā gaṅgātīre 'hamāśramān ।
paśyeyamiti tasyāśca kāmaḥ saṁvartyatāmayam ।
7.45.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २४ ॥
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश धर्मात्मा भ्रातृभिः परिवारितः । ७.४५.२४ ॥ ॥

evamuktvā tu kākutstho bāṣpeṇa pihitānanaḥ ।
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ ।
7.45.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४५ · २५ ॥
शोकसंलग्नहृदयो निशश्वास यथा द्विपः । ७.४५.२५ ॥

śokasaṁlagnahṛdayo niśaśvāsa yathā dvipaḥ ।
7.45.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.