वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४४ · २१ श्लोकाःSarga 44 · 21 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४४ · १ ॥
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् । ७.४४.१ ॥ ॥

visṛjya tu suhṛdvargaṁ buddhyā niścitya rāghavaḥ ।
samīpe dvāḥsthamāsīnamidaṁ vacanamabravīt ।
7.44.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · २ ॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं महाभागं शत्रुघ्नमपराजितम् । ७.४४.२ ॥ ॥

śīghramānaya saumitriṁ lakṣmaṇaṁ śubhalakṣaṇam ।
bharataṁ ca mahābhāgaṁ śatrughnamaparājitam ।
7.44.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ३ ॥
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः । ७.४४.३ ॥ ॥

rāmasya vacanaṁ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ ।
lakṣmaṇasya gṛhaṁ gatvā praviveśānivāritaḥ ।
7.44.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ४ ॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् । ७.४४.४ ॥ ॥

uvāca sumahātmānaṁ vardhayitvā kṛtāñjaliḥ ।
draṣṭumicchati rājā tvāṁ gamyatāṁ tatra mā ciram ।
7.44.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ५ ॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् । ७.४४.५ ॥ ॥

bāḍhamityeva saumitriḥ śrutvā rāghavaśāsanam ।
prādravadrathamāruhya rāghavasya niveśanam ।
7.44.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ६ ॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः । ७.४४.६ ॥ ॥

prayāntaṁ lakṣmaṇaṁ dṛṣṭvā dvāḥstho bharatamantikāt ।
uvāca bharataṁ tatra vardhayitvā kṛtāñjaliḥ ।
7.44.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ७ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् । ७.४४.७ ॥ ॥

vinayāvanato bhūtvā rājā tvāṁ draṣṭumicchati ।
bharatastu vacaḥśrutvā dvāḥsthādrāmasamīritam ।
7.44.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ८ ॥
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः । ७.४४.८ ॥ ॥

utpapātāsanāttūrṇaṁ padbhyāmeva yayau balī ।
dṛṣṭvā prayāntaṁ bharataṁ tvaramāṇaḥ kṛtāñjaliḥ ।
7.44.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ९ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति । ७.४४.९ ॥ ॥

śatrughnabhavanaṁ gatvā tato vākyamuvāca ha ।
ehyāgaccha raghuśreṣṭha rājā tvāṁ draṣṭumicchati ।
7.44.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १० ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् । ७.४४.१० ॥ ॥

gato hi lakṣmaṇaḥ pūrvaṁ bharataśca mahāyaśāḥ ।
śrutvā tu vacanaṁ tasya śatrughnaḥ paramāsanāt ।
7.44.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · ११ ॥
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् । ७.४४.११ ॥ ॥

śirasā dharaṇīṁ prāpya prayayau yatra rāghavaḥ ।
dvāḥsthastvāgamya rāmāya sarvāneva kṛtāñjaliḥ ।
nivedayāmāsa tadā bhrāta'nsvānsamupasthitān ।
7.44.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १२ ॥
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् । ७.४४.१२ ॥ ॥

kumārānāgatāñchrutvā cintāvyākulitendriyaḥ ।
avāṅmukho dīnamanā dvāḥsthaṁ vacanamabravīt ।
7.44.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १३ ॥
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम । ७.४४.१३ ॥ ॥

praveśaya kumārāṁstvaṁ matsamīpaṁ tvarānvitaḥ ।
eteṣu jīvitaṁ mahyamete prāṇāḥ priyā mama ।
7.44.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १४ ॥
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः । ७.४४.१४ ॥ ॥

ājñaptāstu narendreṇa kumārāḥ śakratejasaḥ ।
prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ ।
7.44.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १५ ॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् । ७.४४.१५ ॥ ॥

te tu dṛṣṭvā mukhaṁ tasya sagrahaṁ śaśinaṁ yathā ।
sandhyāgatamivādityaṁ prabhayā parivarjitam ।
7.44.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १६ ॥
बाष्पपूर्णे नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य तस्य ते । ७.४४.१६ ॥ ॥

bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ ।
hataśobhaṁ yathā padmaṁ mukhaṁ vīkṣya ca tasya te ।
7.44.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १७ ॥
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् । ७.४४.१७ ॥ ॥

tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ ।
tasthuḥ samāhitāḥ sarve rāmastvaśrūṇyavartayat ।
7.44.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १८ ॥
तान्परिष्वज्य बाहुभ्यामुत्थाप्य महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह । ७.४४.१८ ॥ ॥

tānpariṣvajya bāhubhyāmutthāpya ca mahābalaḥ ।
āsaneṣvāsatetyuktvā tato vākyaṁ jagāda ha ।
7.44.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · १९ ॥
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः । ७.४४.१९ ॥ ॥

bhavanto mama sarvasvaṁ bhavanto jīvitaṁ mama ।
bhavadbhiśca kṛtaṁ rājyaṁ pālayāmi nareśvarāḥ ।
7.44.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · २० ॥
भवन्तः कृतशास्त्रार्था बुद्ध्या परिनिष्ठिताः । सम्भूय मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः । ७.४४.२० ॥ ॥

bhavantaḥ kṛtaśāstrārthā buddhyā ca pariniṣṭhitāḥ ।
sambhūya ca madartho 'yamanveṣṭavyo nareśvarāḥ ।
7.44.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४४ · २१ ॥
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति । ७.४४.२१ ॥

tathā vadati kākutsthe avadhānaparāyaṇāḥ ।
udvignamanasaḥ sarve kiṁ nu rājābhidhāsyati ।
7.44.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.