वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४३ · २३ श्लोकाःSarga 43 · 23 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४३ · १ ॥
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः । ७.४३.१ ॥ ॥

tatropaviṣṭaṁ rājānamupāsante vicakṣaṇāḥ ।
kathānāṁ bahurūpāṇāṁ hāsyakārāḥ samantataḥ ।
7.43.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · २ ॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः । ७.४३.२ ॥ ॥

vijayo madhumattaśca kāśyapo maṅgalaḥ kuṭaḥ ।
surājaḥ kāliyo bhadro dantavakraḥ sumāgadhaḥ ।
7.43.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ३ ॥
एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः । ७.४३.३ ॥ ॥

ete kathā bahuvidhāḥ parihāsasamanvitāḥ ।
kathayanti sma saṁhṛṣṭā rāghavasya mahātmanaḥ ।
7.43.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ४ ॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च । ७.४३.४ ॥ ॥

tataḥ kathāyāṁ kasyāñcidrāghavaḥ samabhāṣata ।
kāḥ kathā nagare bhadra vartante viṣayeṣu ca ।
7.43.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ५ ॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं सीतां समाश्रित्य भरतं किं लक्ष्मणम् । ७.४३.५ ॥ ॥

māmāśritāni kānyāhuḥ paurajānapadā janāḥ ।
kiṁ ca sītāṁ samāśritya bharataṁ kiṁ ca lakṣmaṇam ।
7.43.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ६ ॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां राजानो वरे राज्ये व्रजन्ति च । ७.४३.६ ॥ ॥

kiṁ nu śatrughnamuddiśya kaikayīṁ kiṁ nu mātaram ।
vaktavyatāṁ ca rājāno vare rājye vrajanti ca ।
7.43.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ७ ॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् । ७.४३.७ ॥ ॥

evamukte tu rāmeṇa bhadraḥ prāñjalirabravīt ।
sthitāḥ kathā śubhāḥ rājanvartante puravāsinām ।
7.43.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ८ ॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ । ७.४३.८ ॥ ॥

amuṁ tu vijayaṁ saumya daśagrīvavadhārjitam ।
bhūyiṣṭhaṁ svapure pauraiḥ kathyante puruṣarṣabha ।
7.43.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ९ ॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः । ७.४३.९ ॥ ॥

evamuktastu bhadreṇa rāghavo vākyamabravīt ।
kathayasva yathātattvaṁ sarvaṁ niravaśeṣataḥ ।
7.43.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १० ॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च । ७.४३.१० ॥ ॥

śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ ।
śrutvedānīṁ śubhaṁ kuryāṁ nakuryāmaśubhāni ca ।
7.43.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · ११ ॥
कथयस्व विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च । ७.४३.११ ॥ ॥

kathayasva ca visrabdho nirbhayaṁ vigatajvaraḥ ।
kathayanti yathā paurāḥ pāpā janapadeṣu ca ।
7.43.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १२ ॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः । ७.४३.१२ ॥ ॥

rāghaveṇaivamuktastu bhadraḥ suruciraṁ vacaḥ ।
pratyuvāca mahābāhuṁ prāñjaliḥ susamāhitaḥ ।
7.43.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १३ ॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च । ७.४३.१३ ॥ ॥

śṛṇu rājanyathā paurāḥ kathayanti śubhāśubham ।
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca ।
7.43.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १४ ॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः । ७.४३.१४ ॥ ॥

duṣkaraṁ kṛtavānrāmaḥ samudre setubandhanam ।
aśrutaṁ pūrvakaiḥ kaiściddevairapi sadānavaiḥ ।
7.43.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १५ ॥
रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः । ७.४३.१५ ॥ ॥

rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ ।
vānarāśca vaśaṁ nītā ṛkṣāśca saha rākṣasaiḥ ।
7.43.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १६ ॥
हत्वा रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् । ७.४३.१६ ॥ ॥

hatvā ca rāvaṇaṁ saṅkhye sītāmāhṛtya rāghavaḥ ।
amarṣaṁ pṛṣṭhataḥ kṛtvā svaveśma punarānayat ।
7.43.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १७ ॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् । ७.४३.१७ ॥ ॥

kīdṛśaṁ hṛdaye tasya sītāsambhogajaṁ sukham ।
aṅkamāropya tu purā rāvaṇena balāddhṛtām ।
7.43.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १८ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो कुत्सते । ७.४३.१८ ॥ ॥

laṅkāmapi purā nītāmaśokavanikāṁ gatām ।
rakṣasāṁ vaśamāpannāṁ kathaṁ rāmo na kutsate ।
7.43.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · १९ ॥
अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते । ७.४३.१९ ॥ ॥

asmākamapi dāreṣu sahanīyaṁ bhaviṣyati ।
yathā hi kurute rājā prajā tamanuvartate ।
7.43.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · २० ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु सर्वेषु राजञ्जनपदेषु च । ७.४३.२० ॥ ॥

evaṁ bahuvidhā vāco vadanti puravāsinaḥ ।
nagareṣu ca sarveṣu rājañjanapadeṣu ca ।
7.43.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · २१ ॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् । ७.४३.२१ ॥ ॥

tasyaivaṁ bhāṣitaṁ śrutvā rāghavaḥ paramārtavat ।
uvāca suhṛdaḥ sarvānkathametadbravītha mām ।
7.43.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · २२ ॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः । ७.४३.२२ ॥ ॥

sarve tu śirasā bhūmāvabhivādya praṇamya ca ।
pratyūcū rāghavaṁ dīnamevametanna saṁśayaḥ ।
7.43.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४३ · २३ ॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः । ७.४३.२३ ॥

śrutvā tu vākyaṁ kākutsthaḥ sarveṣāṁ samudīritam ।
visarjayāmāsa tadā vayasyāñchatrusūdanaḥ ।
7.43.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.