वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४२ · ३६ श्लोकाःSarga 42 · 36 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४२ · १ ॥
विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा । ७.४२.१ ॥ ॥

sa visṛjya tato rāmaḥ puṣpakaṁ hemabhūṣitam ।
praviveśa mahābāhuraśokavanikāṁ tadā ।
7.42.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २ ॥
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् । ७.४२.२ ॥ ॥

candanāgurucūtaiśca tuṅgakāleyakairapi ।
devadāruvanaiścāpi samantādupaśobhitām ।
7.42.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३ ॥
चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः । ७.४२.३ ॥ ॥

campakāśokapunnāgamadhūkapanasāsanaiḥ ।
śobhitāṁ pārijātaiśca vidhūmajvalanaprabhaiḥ ।
7.42.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ४ ॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् । ७.४२.४ ॥ ॥

lodhranīpārjunairnāgaiḥ saptaparṇātimuktakaiḥ ।
mandārakadalīgulmalatājālasamāvṛtām ।
7.42.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ५ ॥
प्रियङ्गुभिः कदम्बैश्च तथा वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् । ७.४२.५ ॥ ॥

priyaṅgubhiḥ kadambaiśca tathā ca vakulairapi ।
jambūbhirdāḍimaiścaiva kovidāraiśca śobhitām ।
7.42.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ६ ॥
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः । ७.४२.६ ॥ ॥

sarvadā kusumai ramyaiḥ phalavadbhirmanoramaiḥ ।
divyagandharasopetaistaruṇāṅkurapallavaiḥ ।
7.42.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ७ ॥
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः । ७.४२.७ ॥ ॥

tathaiva tarubhirdivyaiḥ śilpibhiḥ parikalpitaiḥ ।
cārupallavapuṣpāḍhyairmattabhramarasaṅkulaiḥ ।
7.42.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ८ ॥
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः । ७.४२.८ ॥ ॥

kokilairbhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ ।
śobhitāṁ śataśaścitrāṁ cūtavṛkṣāvataṁsakaiḥ ।
7.42.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः । ७.४२.९ ॥ ॥

śātakumbhanibhāḥ kecitkecidagniśikhopamāḥ ।
nīlāñjananibhāścānye bhānti tatratyapādapāḥ ।
7.42.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १० ॥
सुरभीणि पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा । ७.४२.१० ॥ ॥

surabhīṇi ca puṣpāṇi mālyāni vividhāni ca ।
dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā ।
7.42.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ११ ॥
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः । ७.४२.११ ॥ ॥

māṇikyakṛtasopānāḥ sphāṭikāntarakuṭṭimāḥ ।
phullapadmotpalavanāścakravākopaśobhitāḥ ।
7.42.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १२ ॥
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः । ७.४२.१२ ॥ ॥

dātyūhaśukasaṅghuṣṭā haṁsasārasanāditāḥ ।
tarubhiḥ puṣpavadbhiśca tīrajairupaśobhitāḥ ।
7.42.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १३ ॥
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव वनोद्देशे वैडूर्यमणिसन्निभैः । ७.४२.१३ ॥ ॥

prākārairvividhākāraiḥ śobhitāśca śilātalaiḥ ।
tatraiva ca vanoddeśe vaiḍūryamaṇisannibhaiḥ ।
7.42.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १४ ॥
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् । ७.४२.१४ ॥ ॥

śādvalaiḥ paramopetāṁ puṣpitadrumakānanām ।
tatra saṅgharṣajātānāṁ vṛkṣāṇāṁ puṣpaśālinām ।
7.42.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १५ ॥
प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा । तथाभूतं हि रामस्य काननं सन्निवेशनम् । ७.४२.१५ ॥ ॥

prastarāḥ puṣpaśabalā nabhastārāgaṇairiva ।
nandanaṁ hi yathendrasya brāhmaṁ caitrarathaṁ yathā ।
tathābhūtaṁ hi rāmasya kānanaṁ sanniveśanam ।
7.42.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १६ ॥
बह्वासनगृहोपेतां लतागृहसमावृताम् । अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः । ७.४२.१६ ॥ ॥

bahvāsanagṛhopetāṁ latāgṛhasamāvṛtām ।
aśokavanikāṁ sphītāṁ praviśya raghunandanaḥ ।
7.42.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १७ ॥
आसने शुभाकारे पुष्पप्रकरभूषिते । कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह । ७.४२.१७ ॥ ॥

āsane ca śubhākāre puṣpaprakarabhūṣite ।
kuśāstaraṇasaṁstīrṇe rāmaḥ sanniṣasāda ha ।
7.42.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १८ ॥
सीतामादायं हस्तेन मधुमैरेयकं शुचि । पाययामास काकुत्स्थः शचीमिव पुरन्दरः । ७.४२.१८ ॥ ॥

sītāmādāyaṁ hastena madhumaireyakaṁ śuci ।
pāyayāmāsa kākutsthaḥ śacīmiva purandaraḥ ।
7.42.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · १९ ॥
मांसानि समृष्टानि फलानि विविधानि च । रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् । ७.४२.१९ ॥ ॥

māṁsāni ca samṛṣṭāni phalāni vividhāni ca ।
rāmasyābhyavahārārthaṁ kiṅkarāstūrṇamāharan ।
7.42.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २० ॥
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः । बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः । ७.४२.२० ॥ ॥

upānṛtyaṁśca rājānaṁ nṛtyagītaviśāradāḥ ।
bālāśca rūpavatyaśca striyaḥ pānavaśānugāḥ ।
7.42.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २१ ॥
मनोभिरामा रामास्ता रामो रमयतां वरः । रमयामास धर्मात्मा नित्यं परमभूषितः । ७.४२.२१ ॥ ॥

manobhirāmā rāmāstā rāmo ramayatāṁ varaḥ ।
ramayāmāsa dharmātmā nityaṁ paramabhūṣitaḥ ।
7.42.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २२ ॥
तया सीतया सार्धमासीनो विरराज ह । अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा । ७.४२.२२ ॥ ॥

sa tayā sītayā sārdhamāsīno virarāja ha ।
arundhatyā sahāsīno vasiṣṭha iva tejasā ।
7.42.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २३ ॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् । रमयामास वैदेहीमहन्यहनि देववत् । ७.४२.२३ ॥ ॥

evaṁ rāmo mudā yuktaḥ sītāṁ surasutopamām ।
ramayāmāsa vaidehīmahanyahani devavat ।
7.42.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २४ ॥
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् । अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा । ७.४२.२४ ॥ ॥

tathā tayorviharatoḥ sītārāghavayościram ।
atyakrāmacchubhaḥ kālaḥ śaiśiro bhogadaḥ sadā ।
7.42.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २५ ॥
दशवर्षसहस्राणि गतानि सुमहात्मनोः । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः । ७.४२.२५ ॥ ॥

daśavarṣasahasrāṇi gatāni sumahātmanoḥ ।
prāptayorvividhānbhogānatītaḥ śiśirāgamaḥ ।
7.42.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २६ ॥
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् । ७.४२.२६ ॥ ॥

pūrvāhṇe dharmakāryāṇi kṛtvā dharmeṇa dharmavit ।
śeṣaṁ divasabhāgārdhamantaḥpuragato 'bhavat ।
7.42.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २७ ॥
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः । ७.४२.२७ ॥ ॥

sītāpi devakāryāṇi kṛtvā paurvāhṇikāni vai ।
śvaśrūṇāmakarotpūjāṁ sarvāsāmaviśeṣataḥ ।
7.42.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २८ ॥
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची । ७.४२.२८ ॥ ॥

abhyagacchattato rāmaṁ vicitrābharaṇāmbarā ।
triviṣṭape sahasrākṣamupaviṣṭaṁ yathā śacī ।
7.42.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · २९ ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् । ७.४२.२९ ॥ ॥

dṛṣṭvā tu rāghavaḥ patnīṁ kalyāṇena samanvitām ।
praharṣamatulaṁ lebhe sādhu sādhviti cābravīt ।
7.42.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३० ॥
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः । ७.४२.३० ॥ ॥

abravīcca varārohāṁ sītāṁ surasutopamām ।
apatyalābho vaidehi tvayi me samupasthitaḥ ।
7.42.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३१ ॥
किमिच्छसि वरारोहे कामः किं क्रियतां तव । ७.४२.३१ ॥ ॥

kimicchasi varārohe kāmaḥ kiṁ kriyatāṁ tava ।
7.42.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३२ ॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् । तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । ७.४२.३२ ॥ ॥

smitaṁ kṛtvā tu vaidehī rāmaṁ vākyamathābravīt ।
tapovanāni puṇyāni draṣṭumicchāmi rāghava ।
7.42.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३३ ॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् । फलमूलाशिनां देव पादमूलेषु वर्तितुम् । ७.४२.३३ ॥ ॥

gaṅgātīropaviṣṭānāmṛṣīṇāmugratejasām ।
phalamūlāśināṁ deva pādamūleṣu vartitum ।
7.42.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३४ ॥
एष मे परमः कामो यन्मूलफलभोजिनाम् । अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने । ७.४२.३४ ॥ ॥

eṣa me paramaḥ kāmo yanmūlaphalabhojinām ।
apyekarātraṁ kākutstha nivaseyaṁ tapovane ।
7.42.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३५ ॥
तथेति प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् । ७.४२.३५ ॥ ॥

tatheti ca pratijñātaṁ rāmeṇākliṣṭakarmaṇā ।
visrabdhā bhava vaidehi śvo gamiṣyasyasaṁśayam ।
7.42.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४२ · ३६ ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः । ७.४२.३६ ॥

evamuktvā tu kākutstho maithilīṁ janakātmajām ।
madhyakakṣāntaraṁ rāmo nirjagāma suhṛdvṛtaḥ ।
7.42.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.