वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३९ · ३० श्लोकाःSarga 39 · 30 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३९ · १ ॥
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् । ७.३९.१ ॥ ॥

te prayātā mahātmānaḥ pārthivāste prahṛṣṭavat ।
gajavājisahasraughaiḥ kampayanto vasundharām ।
7.39.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २ ॥
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः । ७.३९.२ ॥ ॥

akṣauhiṇyo hi tatrāsanrāghavārthe samudyatāḥ ।
bharatasyājñayā 'nekāḥ prahṛṣṭā balavāhanāḥ ।
7.39.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ३ ॥
ऊचुस्ते महीपाला बलदर्पसमन्विताः । रामरावणं युद्धे पश्यामः पुरतः स्थितम् । ७.३९.३ ॥ ॥

ūcuste ca mahīpālā baladarpasamanvitāḥ ।
na rāmarāvaṇaṁ yuddhe paśyāmaḥ purataḥ sthitam ।
7.39.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ४ ॥
भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः । ७.३९.४ ॥ ॥

bharatena vayaṁ paścātsamānītā nirarthakam ।
hatā hi rākṣasāḥ kṣipraṁ pārthivaiḥ syurna saṁśayaḥ ।
7.39.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ५ ॥
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारेसमुद्रस्य युध्येम विगतज्वराः । ७.३९.५ ॥ ॥

rāmasya bāhuvīryeṇa rakṣitā lakṣmaṇasya ca ।
sukhaṁ pāresamudrasya yudhyema vigatajvarāḥ ।
7.39.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ६ ॥
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः । ७.३९.६ ॥ ॥

etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ ।
kathayantaḥ svarājyāni jagmurharṣasamanvitāḥ ।
7.39.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ७ ॥
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि वसुमन्ति च । ७.३९.७ ॥ ॥

svāni rājyāni mukhyāni ṛddhāni muditāni ca ।
samṛddhadhanadhānyāni pūrṇāni vasumanti ca ।
7.39.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ८ ॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान् नृपा ददुः । ७.३९.८ ॥ ॥

yathāpurāṇi te gatvā ratnāni vividhānyatha ।
rāmasya priyakāmārthamupahārān nṛpā daduḥ ।
7.39.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ९ ॥
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् । चन्दनानि मुख्यानि दिव्यान्याभरणानि च । ७.३९.९ ॥ ॥

aśvānyānāni ratnāni hastinaśca madotkaṭān ।
candanāni ca mukhyāni divyānyābharaṇāni ca ।
7.39.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १० ॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः । अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः । ७.३९.१० ॥ ॥

maṇimuktāpravālāṁstu dāsyo rūpasamanvitāḥ ।
ajāvikāṁśca vividhān rathāṁstu vividhāndaduḥ ।
7.39.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ११ ॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः । आदाय तानि रत्नानि स्वां पुरीं पुनरागताः । ७.३९.११ ॥ ॥

bharato lakṣmaṇaścaiva śatrughnaśca mahābalāḥ ।
ādāya tāni ratnāni svāṁ purīṁ punarāgatāḥ ।
7.39.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १२ ॥
आगम्य पुरीं रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् । ७.३९.१२ ॥ ॥

āgamya ca purīṁ ramyāmayodhyāṁ puruṣarṣabhāḥ ।
tāni ratnāni citrāṇi rāmāya samupāharan ।
7.39.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १३ ॥
प्रतिगृह्य तत्सर्वं रामः प्रीतिसमन्वितः । सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे । ७.३९.१३ ॥ ॥

pratigṛhya ca tatsarvaṁ rāmaḥ prītisamanvitaḥ ।
sugrīvāya dadau rājñe mahātmā kṛtakarmaṇe ।
7.39.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १४ ॥
बिभीषणाय ददौ तथान्येभ्यो ऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् । ७.३९.१४ ॥ ॥

bibhīṣaṇāya ca dadau tathānyebhyo 'pi rāghavaḥ ।
rākṣasebhyaḥ kapibhyaśca yairvṛto jayamāptavān ।
7.39.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १५ ॥
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः । ७.३९.१५ ॥ ॥

te sarve rāmadattāni ratnāni kapirākṣasāḥ ।
śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ ।
7.39.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १६ ॥
हनूमन्तं नृपतिरिक्ष्वाकूणां महारथः । अङ्गदं महाबाहुमङ्कमारोप्य वीर्यवान् । ७.३९.१६ ॥ ॥

hanūmantaṁ ca nṛpatirikṣvākūṇāṁ mahārathaḥ ।
aṅgadaṁ ca mahābāhumaṅkamāropya vīryavān ।
7.39.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १७ ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः । ७.३९.१७ ॥ ॥

rāmaḥ kamalapatrākṣaḥ sugrīvamidamabravīt ।
aṅgadaste suputro 'yaṁ mantrī cāpyanilātmajaḥ ।
7.39.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १८ ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ । अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर । ७.३९.१८ ॥ ॥

sugrīvamantrite yuktau mama cāpi hite ratau ।
arhato vividhāṁ pūjāṁ tvatkṛte vai harīśvara ।
7.39.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · १९ ॥
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः । बबन्ध महार्हाणि तदाङ्गदहनूमतोः । ७.३९.१९ ॥ ॥

ityuktvā vyavamucyāṅgādbhūṣaṇāni mahāyaśāḥ ।
sa babandha mahārhāṇi tadāṅgadahanūmatoḥ ।
7.39.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २० ॥
आभाष्य महावीर्यान्राघवो यूथपर्षभान् । नीलं नलं केसरिणं कुमुदं गन्धमादनम् । ७.३९.२० ॥ ॥

ābhāṣya ca mahāvīryānrāghavo yūthaparṣabhān ।
nīlaṁ nalaṁ kesariṇaṁ kumudaṁ gandhamādanam ।
7.39.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २१ ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च । जाम्बवन्तं गवाक्षं विनतं धूम्रमेव च । ७.३९.२१ ॥ ॥

suṣeṇaṁ panasaṁ vīraṁ maindaṁ dvividameva ca ।
jāmbavantaṁ gavākṣaṁ ca vinataṁ dhūmrameva ca ।
7.39.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २२ ॥
वलीमुखं प्रजङ्घं सन्नादं महाबलम् । दरीमुखं दधिमुखमिन्द्रजानुं यूथपम् । ७.३९.२२ ॥ ॥

valīmukhaṁ prajaṅghaṁ ca sannādaṁ ca mahābalam ।
darīmukhaṁ dadhimukhamindrajānuṁ ca yūthapam ।
7.39.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २३ ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा । ७.३९.२३ ॥ ॥

madhuraṁ ślakṣṇayā vācā netrābhyāmāpibanniva ।
suhṛdo me bhavantaśca śarīraṁ bhrātarastathā ।
7.39.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २४ ॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः । धन्यो राजा सुग्रीवो भवद्भिः सुहृदां वरैः । ७.३९.२४ ॥ ॥

yuṣmābhiruddhṛtaścāhaṁ vyasanātkānanaukasaḥ ।
dhanyo rājā ca sugrīvo bhavadbhiḥ suhṛdāṁ varaiḥ ।
7.39.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २५ ॥
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि महार्हाणि सस्वजे नरर्षभः । ७.३९.२५ ॥ ॥

evamuktvā dadau tebhyo bhūṣaṇāni yathārhataḥ ।
vajrāṇi ca mahārhāṇi sasvaje ca nararṣabhaḥ ।
7.39.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २६ ॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि सुमृष्टानि मूलानि फलानि च । ७.३९.२६ ॥ ॥

te pibantaḥ sugandhīni madhūni madhupiṅgalāḥ ।
māṁsāni ca sumṛṣṭāni mūlāni ca phalāni ca ।
7.39.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २७ ॥
एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या मेनिरे । ७.३९.२७ ॥ ॥

evaṁ teṣāṁ nivasatāṁ māsaḥ sāgro yayau tadā ।
muhūrtamiva te sarve rāmabhaktyā ca menire ।
7.39.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २८ ॥
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः । ७.३९.२८ ॥ ॥

rāmo 'pi reme taiḥ sārdhaṁ vānaraiḥ kāmarūpibhiḥ ।
rākṣasaiśca mahāvīryairṛkṣaiścaiva mahābalaiḥ ।
7.39.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · २९ ॥
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां सर्वशः । ७.३९.२९ ॥ ॥

evaṁ teṣāṁ yayau māso dvitīyaḥ śiśiraḥ sukham ।
vānarāṇāṁ prahṛṣṭānāṁ rākṣasānāṁ ca sarvaśaḥ ।
7.39.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३९ · ३० ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ । ७.३९.३० ॥

ikṣvākunagare ramye parāṁ prītimupāsatām ।
rāmasya prītikaraṇaiḥ kālasteṣāṁ sukhaṁ yayau ।
7.39.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.