वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३८ · ३३ श्लोकाःSarga 38 · 33 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३८ · १ ॥
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च । ७.३८.१ ॥ ॥

evamāste mahābāhurahanyahani rāghavaḥ ।
praśāsatsarvakāryāṇi paurajānapadeṣu ca ।
7.38.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २ ॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह । ७.३८.२ ॥ ॥

tataḥ katipayāhaḥsu vaidehaṁ mithilādhipam ।
rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha ।
7.38.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ३ ॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया । ७.३८.३ ॥ ॥

bhavānhi gatiravyagrā bhavatā pālitā vayam ।
bhavatastejasogreṇa rāvaṇo nihato mayā ।
7.38.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ४ ॥
इक्ष्वाकूणां सर्वेषां मैथिलानां सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः । ७.३८.४ ॥ ॥

ikṣvākūṇāṁ ca sarveṣāṁ maithilānāṁ ca sarvaśaḥ ।
atulāḥ prītayo rājansambandhakapurogamāḥ ।
7.38.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ५ ॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति । ७.३८.५ ॥ ॥

tadbhavānsvapuraṁ yātu ratnānyādāya pārthiva ।
bharataśca sahāyārthaṁ pṛṣṭhataste 'nuyāsyati ।
7.38.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ६ ॥
तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च । ७.३८.६ ॥ ॥

sa tatheti nṛpaḥ kṛtvā rāghavaṁ vākyamabravīt ।
prīto 'smi bhavato rājandarśanena nayena ca ।
7.38.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ७ ॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च । ७.३८.७ ॥ ॥

yānyetāni tu ratnāni madarthaṁ sañcitāni vai ।
duhitre tāni vai rājansarvāṇyeva dadāmi ca ।
7.38.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ८ ॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् । ७.३८.८ ॥ ॥

evamuktvā tu kākutsthaṁ janako hṛṣṭamānasaḥ ।
prayayau mithilāṁ śrīmāṁstamanujñāya rāghavam ।
7.38.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ९ ॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह । ७.३८.९ ॥ ॥

tataḥ prayāte janake kekayaṁ mātulaṁ prabhuḥ ।
rāghavaḥ prāñjalirbhūtvā vākyametaduvāca ha ।
7.38.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १० ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ । ७.३८.१० ॥ ॥

idaṁ rājyamahaṁ caiva bharataśca salakṣmaṇaḥ ।
āyattāstvaṁ hi no rājangatiśca puruṣarṣabha ।
7.38.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ११ ॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव । ७.३८.११ ॥ ॥

rājā hi vṛddhaḥ santāpaṁ tvadarthamupayāsyati ।
tasmādgamanamadyaiva rocate tava pārthiva ।
7.38.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १२ ॥
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च । ७.३८.१२ ॥ ॥

lakṣmaṇenānuyātreṇa pṛṣṭhato 'nugamiṣyate ।
dhanamādāya vipulaṁ ratnāni vividhāni ca ।
7.38.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १३ ॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि धनं चैव त्वय्येवाक्षय्यमस्त्विति । ७.३८.१३ ॥ ॥

yudhājittu tathetyāha gamanaṁ prati rāghavam ।
ratnāni ca dhanaṁ caiva tvayyevākṣayyamastviti ।
7.38.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १४ ॥
प्रदक्षिणं राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् । ७.३८.१४ ॥ ॥

pradakṣiṇaṁ sa rājānaṁ kṛtvā kekayavardhanaḥ ।
rāmeṇa hi kṛtaḥ pūrvamabhivādya pradakṣiṇam ।
7.38.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १५ ॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः । ७.३८.१५ ॥ ॥

lakṣmaṇena sahāyena prayātaḥ kekayeśvaraḥ ।
hate 'sure yathā vṛtre viṣṇunā saha vāsavaḥ ।
7.38.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १६ ॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् । ७.३८.१६ ॥ ॥

taṁ visṛjya tato rāmo vayasyamakutobhayam ।
pratardanaṁ kāśipatiṁ pariṣvajyedamabravīt ।
7.38.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १७ ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह । ७.३८.१७ ॥ ॥

darśitā bhavatā prītirdarśitaṁ sauhṛdaṁ param ।
udyogaśca kṛto rājanbharatena tvayā saha ।
7.38.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १८ ॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् । ७.३८.१८ ॥ ॥

tadbhavānadya kāśeya purīṁ vārāṇasīṁ vraja ।
ramaṇīyāṁ tvayā guptāṁ suprakāśāṁ sutoraṇām ।
7.38.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · १९ ॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् । ७.३८.१९ ॥ ॥

etāvaduktvā cotthāya kākutsthaḥ paramāsanāt ।
paryaṣvajata dharmātmā nirantaramurogatam ।
7.38.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २० ॥
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः । ७.३८.२० ॥ ॥

visarjayāmāsa tadā kausalyānandavardhanaḥ ।
rāghaveṇābhyanujñātaḥ kāśīśo 'pyakutobhayaḥ ।
vārāṇasīṁ yayau tūrṇaṁ rāghaveṇa visarjitaḥ ।
7.38.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २१ ॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् । ७.३८.२१ ॥ ॥

visṛjya taṁ kāśipatiṁ triśataṁ pṛthivīpatīn ।
prahasanrāghavo vākyamuvāca madhurākṣaram ।
7.38.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २२ ॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं भवतां सदा । ७.३८.२२ ॥ ॥

bhavatāṁ prītiravyagrā tejasā parirakṣitā ।
dharmaśca niyato nityaṁ satyaṁ ca bhavatāṁ sadā ।
7.38.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २३ ॥
युष्माकं चानुभावेन तेजसा महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः । ७.३८.२३ ॥ ॥

yuṣmākaṁ cānubhāvena tejasā ca mahātmanām ।
hato durātmā durbuddhī rāvaṇo rākṣasādhamaḥ ।
7.38.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २४ ॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः । ७.३८.२४ ॥ ॥

hetumātramahaṁ tatra bhavatāṁ tejasā hataḥ ।
rāvaṇaḥ sagaṇo yuddhe saputrāmātyabāndhavaḥ ।
7.38.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २५ ॥
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् । ७.३८.२५ ॥ ॥

bhavantaśca samānītā bharatena mahātmanā ।
śrutvā janakarājasya kānanāttanayāṁ hṛtām ।
7.38.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २६ ॥
उद्युक्तानां सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः । ७.३८.२६ ॥ ॥

udyuktānāṁ ca sarveṣāṁ pārthivānāṁ mahātmanām ।
kālo vyatītaḥ sumahāngamanaṁ rocayāmyataḥ ।
7.38.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २७ ॥
प्रत्यूचुस्तं राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः । ७.३८.२७ ॥ ॥

pratyūcustaṁ ca rājāno harṣeṇa mahatā vṛtāḥ ।
diṣṭyāṁ tvaṁ vijayī rāma svarājye 'pi pratiṣṭhitaḥ ।
7.38.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २८ ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा । ७.३८.२८ ॥ ॥

diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ ।
eṣa naḥ paramaḥ kāma eṣā naḥ pītiruttamā ।
7.38.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · २९ ॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् । ७.३८.२९ ॥ ॥

yattvāṁ vijayinaṁ rāma paśyāmo hataśātravam ।
7.38.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ३० ॥
एतत्त्वय्युपपन्नं यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह जानीमः प्रशंसां वक्तुमीदृशीम् । ७.३८.३० ॥ ॥

etattvayyupapannaṁ ca yadasmāṁstvaṁ praśaṁsase ।
praśaṁsārha na jānīmaḥ praśaṁsāṁ vaktumīdṛśīm ।
7.38.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ३१ ॥
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा । ७.३८.३१ ॥ ॥

āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān ।
vartāmahe mahābāho prītyātra mahatā vṛtāḥ ।
bhavecca te mahārāja prītirasmāsu nityadā ।
7.38.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ३२ ॥
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः । ७.३८.३२ ॥ ॥

bāḍhamityeva rājāno harṣeṇa paramānvitāḥ ।
ucuḥ prāñjalayaḥ sarve rāghavaṁ gamanotsukāḥ ।
7.38.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३८ · ३३ ॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् । ७.३८.३३ ॥

pūjitāścaiva rāmeṇa jagmurdeśānsvakānsvakān ।
7.38.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.