वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३७ · २४ श्लोकाःSarga 37 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३७ · १ ॥
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी । ७.३७.१ ॥ ॥

abhiṣikte tu kākutsthe dharmeṇa viditātmani ।
vyatītā yā niśā pūrvā paurāṇāṁ harṣavardhinī ।
7.37.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २ ॥
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः । वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि । ७.३७.२ ॥ ॥

tasyāṁ rajanyāṁ vyuṣṭāyāṁ prātarnṛpatibodhakāḥ ।
vandinaḥ samupātiṣṭhansaumyā nṛpativeśmani ।
7.37.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ३ ॥
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः । तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः । ७.३७.३ ॥ ॥

te raktakaṇṭhinaḥ sarve kinnarā iva śikṣitāḥ ।
tuṣṭuvurnapatiṁ vīraṁ yathāvat sampraharṣiṇaḥ ।
7.37.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ४ ॥
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन । जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप । ७.३७.४ ॥ ॥

vīra saumya prabudhyasva kausalyāprītivardhana ।
jagaddhi sarvaṁ svapiti tvayi supte narādhipa ।
7.37.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ५ ॥
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव । बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि । ७.३७.५ ॥ ॥

vikramaste yathā viṣṇo rūpaṁ caivāśvinoriva ।
buddhyā bṛhaspatestulyaḥ prajāpatisamo hyasi ।
7.37.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ६ ॥
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः । वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव । ७.३७.६ ॥ ॥

kṣamā te pṛthivītulyā tejasā bhāskaropamaḥ ।
vegaste vāyunā tulyo gāmbhīryamudadheriva ।
7.37.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ७ ॥
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप । ७.३७.७ ॥ ॥

aprakampyo yatā sthāṇuścandre saumyatvamīdṛśam ।
nedṛśāḥ pārthivāḥ pūrvaṁ bhavitāro narādhipa ।
7.37.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ८ ॥
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः । त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ । ७.३७.८ ॥ ॥

yathā tvamatidurdharṣo dharmanityaḥ prajāhitaḥ ।
na tvāṁ jahāti kīrtiśca lakṣmīśca puruṣarṣabha ।
7.37.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ९ ॥
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः । ७.३७.९ ॥ ॥

śrīśca dharmaśca kākutstha tvayi nityaṁ pratiṣṭhitau ।
etāścānyāśca madhurā vandibhiḥ parikīrtitāḥ ।
7.37.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १० ॥
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः । ७.३७.१० ॥ ॥

sūtāśca saṁstavairdivyairbodhayanti sma rāghavam ।
stutibhiḥ stūyamānābhiḥ pratyabudhyata rāghavaḥ ।
7.37.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · ११ ॥
तद्विहाय शयनं पाण्डराच्छादनास्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा । ७.३७.११ ॥ ॥

sa tadvihāya śayanaṁ pāṇḍarācchādanāstṛtam ।
uttasthau nāgaśayanāddharirnārāyaṇo yathā ।
7.37.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १२ ॥
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः । सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः । ७.३७.१२ ॥ ॥

tamutthitaṁ mahātmānaṁ prahvāḥ prāñjalayo narāḥ ।
salilaṁ bhājanaiḥ śubhrairupatasthuḥ sahasraśaḥ ।
7.37.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १३ ॥
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् । ७.३७.१३ ॥ ॥

kṛtodakaśucirbhūtvā kāle hutahutāśanaḥ ।
devāgāraṁ jagāmāśu puṇyamikṣvākusevitam ।
7.37.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १४ ॥
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि । बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः । ७.३७.१४ ॥ ॥

tatra devānpita'nviprānarcayitvā yathāvidhi ।
bāhyakakṣāntaraṁ rāmo nirjagāma janairvṛtaḥ ।
7.37.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १५ ॥
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः । ७.३७.१५ ॥ ॥

upatasthurmahātmāno mantriṇaḥ sapurohitāḥ ।
vasiṣṭhapramukhāḥ sarve dīpyamānā ivāgnayaḥ ।
7.37.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १६ ॥
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः । रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः । ७.३७.१६ ॥ ॥

kṣatriyāśca mahātmāno nānājanapadeśvarāḥ ।
rāmasyopāviśanpārśve śakrasyeva yathā 'marāḥ ।
7.37.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १७ ॥
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् । ७.३७.१७ ॥ ॥

bharato lakṣmaṇaścātra śatrughnaśca mahāyaśāḥ ।
upāsāñcakrire hṛṣṭā vedāstraya ivādhvaram ।
7.37.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १८ ॥
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् । ७.३७.१८ ॥ ॥

yātāḥ prāñjalayo bhūtvā kiṅkarā muditānanāḥ ।
muditā nāma pārśvasthā bahavaḥ samupāviśan ।
7.37.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · १९ ॥
वानराश्च महावीर्या विंशतिः कामरूपिणः । सुग्रीवप्रमुखा राममुपासन्ते महौजसः । ७.३७.१९ ॥ ॥

vānarāśca mahāvīryā viṁśatiḥ kāmarūpiṇaḥ ।
sugrīvapramukhā rāmamupāsante mahaujasaḥ ।
7.37.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २० ॥
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः । उपासते महात्मानं धनेशमिव गुह्यकाः । ७.३७.२० ॥ ॥

vibhīṣaṇaśca rakṣobhiścaturbhiḥ parivāritaḥ ।
upāsate mahātmānaṁ dhaneśamiva guhyakāḥ ।
7.37.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २१ ॥
तथा निगमवृद्धाश्च कुलीना ये मानवाः । शिरसा ऽवन्द्य राजानमुपासन्ते विचक्षणाः । ७.३७.२१ ॥ ॥

tathā nigamavṛddhāśca kulīnā ye ca mānavāḥ ।
śirasā ' 'vandya rājānamupāsante vicakṣaṇāḥ ।
7.37.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २२ ॥
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः । ७.३७.२२ ॥ ॥

tathā parivṛto rājā śrīmadbhirṛṣibhirvṛtaḥ ।
rājabhiśca mahāvīryairvānaraiśca sarākṣasaiḥ ।
7.37.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २३ ॥
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते । अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते । ७.३७.२३ ॥ ॥

yathā deveśvaro nityamṛṣibhiḥ samupāsyate ।
adhikastena rūpeṇa sahasrākṣādvirocate ।
7.37.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३७ · २४ ॥
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः । ७.३७.२४ ॥

teṣāṁ samupaviṣṭānāṁ tāstāḥ sumadhurāḥ kathāḥ ।
kathyante dharmasaṁyuktāḥ purāṇajñairmahātmabhiḥ ।
7.37.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.