वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३६ · ६३ श्लोकाःSarga 36 · 63 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३६ · १ ॥
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः । ७.३६.१ ॥ ॥

tataḥ pitāmahaṁ dṛṣṭvā vāyuḥ putravadhārditaḥ ।
śiśukaṁ taṁ samādāya uttasthau dhāturagrataḥ ।
7.36.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २ ॥
चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे । ७.३६.२ ॥ ॥

calakuṇḍalamaulisraktapanīyavibhūṣaṇaḥ ।
pādayornyapatadvāyustisropasthāya vedhase ।
7.36.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३ ॥
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् । ७.३६.३ ॥ ॥

taṁ tu vedavidā tena lambābharaṇaśobhinā ।
vāyumutthāpya hastena śiśuṁ taṁ parimṛṣṭavān ।
7.36.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४ ॥
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् । ७.३६.४ ॥ ॥

spṛṣṭamātrastataḥ so 'tha salīlaṁ padmayoninā ।
jalasiktaṁ yathā sasyaṁ punarjīvitamāptavān ।
7.36.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५ ॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा । ७.३६.५ ॥ ॥

prāṇavantamimaṁ dṛṣṭvā prāṇo gandhavaho mudā ।
cacāra sarvabhūteṣu sanniruddhaṁ yathā purā ।
7.36.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ६ ॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः । ७.३६.६ ॥ ॥

marudrodhādvinirmuktāstāḥ prajā muditā 'bhavan ।
śītadāhavinirmuktāḥ padminya iva sāmbujāḥ ।
7.36.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ७ ॥
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया । ७.३६.७ ॥ ॥

tatastriyugmastrikakutऺitradhāmā tridaśārcitaḥ ।
uvāca devatā brahmā mārutapriyakāmyayā ।
7.36.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ८ ॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् । ७.३६.८ ॥ ॥

bho mahendreśavaruṇaprajeśvaradhaneśvarāḥ ।
jānatāmapi vaḥ sarvaṁ vakṣyāmi śrūyatāṁ hitam ।
7.36.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ९ ॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये । ७.३६.९ ॥ ॥

anena śiśunā kāryaṁ kartavyaṁ vo bhaviṣyati ।
tadvadadhvaṁ varānsarve mārutasyāsya tuṣṭaye ।
7.36.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १० ॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् । ७.३६.१० ॥ ॥

tataḥ sahasranayanaḥ prītiyuktaḥ śubhānanaḥ ।
kuśeśayamayīṁ mālāmutkṣipyedaṁ vaco 'bravīt ।
7.36.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ११ ॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति । ७.३६.११ ॥ ॥

matkarotsṛṣṭavajreṇa hanurasya yathā hataḥ ।
nāmnā vai kapiśārdūlo bhavitā hanumāniti ।
7.36.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १२ ॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति । ७.३६.१२ ॥ ॥

ahamasya pradāsyāmi paramaṁ varamadbhutam ।
itaḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati ।
7.36.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १३ ॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् । ७.३६.१३ ॥ ॥

mārtaṇḍastvabravīttatra bhagavāṁstimirāpahaḥ ।
tejaso 'sya madīyasya dadāmi śatikāṁ kalām ।
7.36.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १४ ॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति । ७.३६.१४ ॥ ॥

yadā tu śāstrāṇyadhyetuṁ śaktirasya bhaviṣyati ।
tadāsya śāstraṁ dāsyāmi yena vāggmī bhaviṣyati ।
7.36.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १५ ॥
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि । ७.३६.१५ ॥ ॥

nacāsya bhavitā kaścitsadṛśaḥ śāstradarśane ।
varuṇaśca varaṁ prādānnāsya mṛtyurbhaviṣyati ।
varṣāyutaśatenāpi matpāśādudakādapi ।
7.36.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १६ ॥
यमो दण्डादवध्यत्वमरोगत्वं नित्यशः । वरं ददामि सन्तुष्ट अविषादं संयुगे । ७.३६.१६ ॥ ॥

yamo daṇḍādavadhyatvamarogatvaṁ ca nityaśaḥ ।
varaṁ dadāmi santuṣṭa aviṣādaṁ ca saṁyuge ।
7.36.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १७ ॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः । ७.३६.१७ ॥ ॥

gadeyaṁ māmikā nainaṁ saṁyugeṣu vadhiṣyati ।
ityevaṁ varadaḥ prāha tadā hyekākṣipiṅgalaḥ ।
7.36.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १८ ॥
मत्तो मदायुधानां वध्यो ऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः । ७.३६.१८ ॥ ॥

matto madāyudhānāṁ ca na vadhyo 'yaṁ bhaviṣyati ।
ityevaṁ śaṅkareṇāpi datto 'sya paramo varaḥ ।
7.36.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · १९ ॥
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति । दीर्घायुश्च महात्मा इति ब्रह्माब्रवीद्वचः । ७.३६.१९ ॥ ॥

sarveṣāṁ brahmadaṇḍānāmavadhyo 'yaṁ bhaviṣyati ।
dīrghāyuśca mahātmā ca iti brahmābravīdvacaḥ ।
7.36.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २० ॥
विश्वकर्मा दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः । ७.३६.२० ॥ ॥

viśvakarmā ca dṛṣṭvainaṁ bālasūryopamaṁ śiśum ।
śilpināṁ pravaraḥ prādādvaramasya mahāmatiḥ ।
7.36.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २१ ॥
मत्कृतानि शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति । ७.३६.२१ ॥ ॥

matkṛtāni ca śastrāṇi yāni divyāni saṁyuge ।
tairavadhyatvamāpannaścirajīvī bhaviṣyati ।
7.36.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २२ ॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः । ७.३६.२२ ॥ ॥

tataḥ surāṇāṁ tu varairdṛṣṭvā hyenamalaṅkṛtam ।
caturmukhastuṣṭamanā vāyumāha jagadguruḥ ।
7.36.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २३ ॥
अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः । ७.३६.२३ ॥ ॥

amitrāṇāṁ bhayakaro mitrāṇāmabhayaṅkaraḥ ।
ajeyo bhavitā putrastava māruta mārutiḥ ।
7.36.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २४ ॥
कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति । ७.३६.२४ ॥ ॥

kāmarūpaḥ kāmacārī kāmagaḥ plavatāṁ varaḥ ।
bhavatyavyāhatagatiḥ kīrtimāṁśca bhaviṣyati ।
7.36.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २५ ॥
रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे । ७.३६.२५ ॥ ॥

rāvaṇotsādanārthāni rāmapriyakaraṇi ca ।
romaharṣakarāṇyeṣa kartā karmāṇi saṁyuge ।
7.36.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २६ ॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः । ७.३६.२६ ॥ ॥

evamuktvā tamāmantrya mārutaṁ tvamaraiḥ saha ।
yathāgataṁ yayuḥ sarve pitāmahapurogamāḥ ।
7.36.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २७ ॥
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः । ७.३६.२७ ॥ ॥

so 'pi gandhavahaḥ putraṁ pragṛhya gṛhamānayat ।
añjanāyāstamācakhyau varadattaṁ vinirgataḥ ।
7.36.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २८ ॥
प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः । ७.३६.२८ ॥ ॥

prāpya rāma varāneṣa varadānasamanvitaḥ ।
balenātmani saṁsthena so 'pūryata yathā 'rṇavaḥ ।
7.36.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · २९ ॥
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः । ७.३६.२९ ॥ ॥

tarasā pūryamāṇo 'pi tadā vānarapuṅgavaḥ ।
āśrameṣu maharṣīṇāmaparādhyati nirbhayaḥ ।
7.36.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३० ॥
स्रुग्भाण्डान्यग्निहोत्रं वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् । ७.३६.३० ॥ ॥

srugbhāṇḍānyagnihotraṁ ca valkalājinasañcayān ।
bhagnavicchinnavidhvastānsaṁśāntānāṁ karotyayam ।
7.36.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३१ ॥
एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः । ७.३६.३१ ॥ ॥

evaṁvidhāni karmāṇi prāvartata mahābalaḥ ।
sarveṣāṁ brahmadaṇḍānāmavadhyaḥ śambhunā kṛtaḥ ।
7.36.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३२ ॥
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः । ७.३६.३२ ॥ ॥

jānanta ṛṣayastaṁ vai sahante tasya śaktitaḥ ।
7.36.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३३ ॥
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः । प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः । ७.३६.३३ ॥ ॥

yathā kesariṇā tveṣa vāyunā so 'ñjanāsutaḥ ।
pratiṣiddho 'pi maryādāṁ laṅghayatyeva vānaraḥ ।
7.36.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३४ ॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः । ७.३६.३४ ॥ ॥

tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṁśajāḥ ।
śepurenaṁ raghuśreṣṭha nātikruddhātimanyavaḥ ।
7.36.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३५ ॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् । ७.३६.३५ ॥ ॥

bādhase yatsamāśritya balamasmānplavaṅgama ।
taddīrghakālaṁ vettāsi nāsmākaṁ śāpamohitaḥ ।
yadā te smāryate kīrtistadā te vardhate balam ।
7.36.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३६ ॥
ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् । ७.३६.३६ ॥ ॥

tatassa hṛtatejaujā maharṣivacanaujasā ।
eṣośramāṇi tānyeva mṛdubhāvaṁ gato 'carat ।
7.36.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३७ ॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजा ऽसीत्तेजसा भास्करप्रभः । ७.३६.३७ ॥ ॥

atharkṣarajaso nāma vālisugrīvayoḥ pitā ।
sarvavānararājā ' 'sīttejasā bhāskaraprabhaḥ ।
7.36.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३८ ॥
तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । ऋक्षरजा नाम कालधर्मेण सङ्गतः । ७.३६.३८ ॥ ॥

sa tu rājyaṁ ciraṁ kṛtvā vānarāṇāṁ harīśvaraḥ ।
sa ca ṛkṣarajā nāma kāladharmeṇa saṅgataḥ ।
7.36.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ३९ ॥
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे । ७.३६.३९ ॥ ॥

tasminnastamite cātha mantribhirmantrakovidaiḥ ।
pitrye pade kṛto vālī sugrīvo vālinaḥ pade ।
7.36.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४० ॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा । ७.३६.४० ॥ ॥

sugrīveṇa samaṁ tvasya advaidhaṁ chidravarjitam ।
ābālyaṁ sakhyamabhavadanilasyāgninā yathā ।
7.36.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४१ ॥
एष शापवशादेव वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् । ७.३६.४१ ॥ ॥

eṣa śāpavaśādeva na veda balamātmanaḥ ।
vālisugrīvayorvairaṁ yadā rāma samutthitam ।
7.36.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४२ ॥
ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना । ७.३६.४२ ॥ ॥

na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā ।
7.36.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४३ ॥
देव जानाति ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः । ७.३६.४३ ॥ ॥

deva jānāti na hyeṣa balamātmani mārutiḥ ।
ṛṣiśāpāhṛtabalastadaiṣa kapisattamaḥ ।
7.36.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४४ ॥
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे । ७.३६.४४ ॥ ॥

siṁhaḥ kuñjararuddho vā āsthitaḥ sahito raṇe ।
7.36.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४५ ॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके । ७.३६.४५ ॥ ॥

parākramotsāhamatipratāpasauśīlyamādhuryanayānayaiśca ।
gāmbhīryacāturyasuvīryadhairyairhanūmataḥ ko 'bhyadhiko 'sti loke ।
7.36.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४६ ॥
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः । ७.३६.४६ ॥ ॥

asau punarvyākaraṇaṁ grahīṣyansūryonmukhaḥ praṣṭumanā kapīndraḥ ।
udyadgirerastagiriṁ jagāma granthaṁ mahaddhārayanaprameyaḥ ।
7.36.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४७ ॥
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव । ७.३६.४७ ॥ ॥

sasūtravṛttyarthapadaṁ mahārthaṁ sasaṅgrahaṁ sāddhyati vai kapīndraḥ ।
nahyasya kaścitsadṛśo 'sti śāstre vaiśārade cchandagatau tathaiva ।
7.36.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४८ ॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् । सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् । ७.३६.४८ ॥ ॥

sarvāsu vidyāsu tapovidhāne praspardhate 'yo hi guruṁ surāṇām ।
so 'yaṁ navavyākaraṇārthavettā brahmā bhaviṣyatyapi te prasādāt ।
7.36.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ४९ ॥
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् । ७.३६.४९ ॥ ॥

pravīvivakṣoriva sāgarasya lokāndidhakṣoriva pāvakasyayugakṣaye hyeva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt ।
7.36.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५० ॥
एषेव चान्ये महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः । ७.३६.५० ॥ ॥

eṣeva cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ ।
satāratāreyanalāḥ sarambhāstvatkāraṇādrāma surairhi sṛṣṭāḥ ।
7.36.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५१ ॥
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया । ७.३६.५१ ॥ ॥

tadetkathitaṁ sarvaṁ yanmāṁ tvaṁ paripṛcchasi ।
hanūmato bālabhāve karmaitatkathitaṁ mayā ।
7.36.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५२ ॥
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह । ७.३६.५२ ॥ ॥

śrutvā 'gastyasya kathitaṁ rāmaḥ saumitrireva ca ।
vismayaṁ paramaṁ jagmurvānarā rākṣasaiḥ saha ।
7.36.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५३ ॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् । ७.३६.५३ ॥ ॥

agastyastvabravīdrāmaṁ sarvametachrutaṁ tvayā ।
dṛṣṭaḥ sambhāṣitaścāsi rāma gacchāmahe vayam ।
7.36.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५४ ॥
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् । ७.३६.५४ ॥ ॥

śrutvaitadrāghavo vākyamagastyasyogratejasaḥ ।
prāñjaliḥ praṇataścāpi maharṣimidamabravīt ।
7.36.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५५ ॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः । ७.३६.५५ ॥ ॥

adya me devatā hṛṣṭāḥ pitaraḥ prapitāmahāḥ ।
yuṣmākaṁ darśanādeva nityaṁ tuṣṭāḥ sabāndhavāḥ ।
7.36.55 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५६ ॥
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया । ७.३६.५६ ॥ ॥

vijñāpyaṁ tu mamaitaddhi yadvadāmyāgataspṛhaḥ ।
tadbhavadbhirmama kṛte kartavyamanukampayā ।
7.36.56 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५७ ॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् । ७.३६.५७ ॥ ॥

paurajānapadānsthāpya svakāryeṣvahamāgataḥ ।
kratūneva kariṣyāmi prabhāvādbhavatāṁ satām ।
7.36.57 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५८ ॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः । ७.३६.५८ ॥ ॥

sadasyā mama yajñeṣu bhavanto nityameva tat ।
bhaviṣyatha mahāvīryā mamānugrahakāṅkṣiṇaḥ ।
7.36.58 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ५९ ॥
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः । ७.३६.५९ ॥ ॥

ahaṁ yuṣmānsamāśritya taponirdhūtakalmaṣān ।
anugrahītaḥ pitṛbhirbhaviṣyāmi sunirvṛtaḥ ।
7.36.59 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ६० ॥
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः । ७.३६.६० ॥ ॥

tadāgantavyamaniśaṁ bhavadbhiriha saṅgataiḥ ।
agastyādyāstu tacchrutvā ṛṣayaḥ saṁśitavratāḥ ।
7.36.60 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ६१ ॥
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः । ७.३६.६१ ॥ ॥

evamastviti taṁ coktvā prayātumupacakramuḥ ।
7.36.61 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ६२ ॥
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः । ७.३६.६२ ॥ ॥

evamuktvā gatāḥ sarve ṛṣayaste yathāgatam ।
rāghavaśca tamevārthaṁ cintayāmāsa vismitaḥ ।
7.36.62 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३६ · ६३ ॥
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् । ७.३६.६३ ॥

tato 'staṁ bhāskare yāte visṛjya nṛpavānarān ।
sandhyāmupāsya vidhivattadā naravarottamaḥ ।
pravṛttāyāṁ rajanyāṁ tu so 'ntaḥpuracaro 'bhavat ।
7.36.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.