वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३५ · ६५ श्लोकाःSarga 35 · 65 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३५ · १ ॥
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् । ७.३५.१ ॥ ॥

apṛcchata tadā rāmo dakṣiṇāśāśramaṁ munim ।
prāñjalirvinayopeta idamāha vaco 'rthavat ।
7.35.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २ ॥
अतुलं बलमेतद्वै वालिनो रावणस्य च । त्वेताभ्यां हनुमता समं त्विति मतिर्मम । ७.३५.२ ॥ ॥

atulaṁ balametadvai vālino rāvaṇasya ca ।
na tvetābhyāṁ hanumatā samaṁ tviti matirmama ।
7.35.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३ ॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः । ७.३५.३ ॥ ॥

śauryaṁ dākṣyaṁ balaṁ dhairyaṁ prājñatā nayasādhanam ।
vikramaśca prabhāvaśca hanūmati kṛtālayāḥ ।
7.35.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४ ॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः । ७.३५.४ ॥ ॥

dṛṣṭvaiva sāgaraṁ vīkṣya sīdantīṁ kapivāhinīm ।
samāśvāsya mahābāhuryojanānāṁ śataṁ plutaḥ ।
7.35.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५ ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा । ७.३५.५ ॥ ॥

dharṣayitvā purīṁ laṅkāṁ rāvaṇāntaḥpuraṁ tadā ।
dṛṣṭvā sambhāṣitā cāpi sītā hyāśvāsitā tathā ।
7.35.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६ ॥
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः । ७.३५.६ ॥ ॥

senāgragā mantrisutāḥ kiṅkarā rāvaṇātmajaḥ ।
ete hanumatā tatra hyekena vitipātitāḥ ।
7.35.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ७ ॥
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी । ७.३५.७ ॥ ॥

bhūyo bandhādvimuktena bhāṣayitvā daśānanam ।
laṅkā bhasmīkṛtā yena pāvakeneva medinī ।
7.35.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ८ ॥
कालस्य शक्रस्य विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः । ७.३५.८ ॥ ॥

na kālasya na śakrasya na viṣṇorvittapasya ca ।
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ ।
7.35.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ९ ॥
एतस्य बाहुवीर्येण लङ्का सीता लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः । ७.३५.९ ॥ ॥

etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ ।
prāptā mayā jayaścaiva rājyaṁ mitrāṇi bāndhavāḥ ।
7.35.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १० ॥
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् । ७.३५.१० ॥ ॥

hanūmānyadi me naḥ syādvānarādhipateḥ sakhā ।
pravṛttimapi ko vettuṁ jānakyāḥ śaktimānbhavet ।
7.35.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ११ ॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने दग्धो वीरुधो यथा । ७.३५.११ ॥ ॥

kimarthaṁ vālyanenaiva sugrīvapriyakāmyayā ।
tadā vaire samutpanne na dagdho vīrudho yathā ।
7.35.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १२ ॥
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् । ७.३५.१२ ॥ ॥

nahi veditavānmanye hanūmānātmano balam ।
yaddṛṣṭavāñjīviteṣṭaṁ kliśyantaṁ vānarādhipam ।
7.35.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १३ ॥
एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित । ७.३५.१३ ॥ ॥

etanme bhagavansarvaṁ hanūmati mahāmatau ।
vistareṇa yathātattvaṁ kathayāmarapūjita ।
7.35.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १४ ॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् । ७.३५.१४ ॥ ॥

rāghavasya vacaḥ śrutvā hetuyuktamṛṣistadā ।
hanūmataḥ samakṣaṁ tamidaṁ vacanamabravīt ।
7.35.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १५ ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । बले विद्यते तुल्यो गतौ मतौ परः । ७.३५.१५ ॥ ॥

satyametadraghuśreṣṭha yadbravīṣi hanūmataḥ ।
na bale vidyate tulyo na gatau na matau paraḥ ।
7.35.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १६ ॥
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । वेत्ता हि बलं येन बली सन्निरिमर्दनः । ७.३५.१६ ॥ ॥

amoghaśāpaiḥ śaptastu datto 'sya munibhiḥ purā ।
na vettā hi balaṁ yena balī sannirimardanaḥ ।
7.35.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १७ ॥
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽस्यते । ७.३५.१७ ॥ ॥

bālye 'pyetena yatkarma kṛtaṁ rāma mahābala ।
tanna varṇayituṁ śakyamiti bālatayā ' 'syate ।
7.35.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १८ ॥
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् । ७.३५.१८ ॥ ॥

yadi vā 'sti tvabhiprāyastacchrotuṁ tava rāghava ।
samādhāya matiṁ rāma niśāmaya vadāmyaham ।
7.35.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · १९ ॥
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता । ७.३५.१९ ॥ ॥

sūryadattavarasvarṇaḥ sumerurnāma parvataḥ ।
yatra rājyaṁ praśāstyasya kesarī nāma vai pitā ।
7.35.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २० ॥
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् । ७.३५.२० ॥ ॥

tasya bhāryā babhūvaiṣā hyañjaneti pariśrutā ।
janayāmāsa tasyāṁ vai vāyurātmajamuttamam ।
7.35.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २१ ॥
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा । ७.३५.२१ ॥ ॥

śāliśūkanibhābhāsaṁ prāsūtāmuṁ tadā 'ñjanā ।
phalānyāhartukāmā vai niṣkrāntā gahanecarā ।
7.35.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २२ ॥
एष मातुर्वियोगाच्च क्षुधया भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा । ७.३५.२२ ॥ ॥

eṣa māturviyogācca kṣudhayā ca bhṛśārditaḥ ।
ruroda śiśuratyarthaṁ śiśuḥ śaravaṇe yathā ।
7.35.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २३ ॥
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति । ७.३५.२३ ॥ ॥

tadodyantaṁ vivasvantaṁ japāpuṣpotkaropamam ।
dadarśa phalalobhācca hyutpapāta raviṁ prati ।
7.35.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २४ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः । ७.३५.२४ ॥ ॥

bālārkābhimukho bālo bālārka iva mūrtimān ।
grahītukāmo bālārkaṁ plavate 'mbaramadhyagaḥ ।
7.35.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २५ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् । ७.३५.२५ ॥ ॥

etasminplavamāne tu śiśubhāve hanūmati ।
devadānavayakṣāṇāṁ vismayaḥ sumahānabhūt ।
7.35.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २६ ॥
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् । ७.३५.२६ ॥ ॥

nāpyevaṁ vegavānvāyurgaruḍo vā manastathā ।
yathā 'yaṁ vāyuputrastu kramate 'mbaramuttamam ।
7.35.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २७ ॥
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति । ७.३५.२७ ॥ ॥

yadi tāvacchiśorasya tvīdṛśo gativikramaḥ ।
yauvanaṁ balamāsādya kathaṁ vego bhaviṣyati ।
7.35.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २८ ॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः । ७.३५.२८ ॥ ॥

tamanuplavate vāyuḥ plavantaṁ putramātmanaḥ ।
sūryadāhabhayādrakṣaṁstuṣāracayaśītalaḥ ।
7.35.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · २९ ॥
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः । ७.३५.२९ ॥ ॥

bahuyojanasāhasraṁ kramatyeṣa gatombaram ।
piturbalācca bālyācca bhāskarābhyāśamāgataḥ ।
7.35.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३० ॥
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं ददाह सः । ७.३५.३० ॥ ॥

śiśureṣa tvadoṣajña iti matvā divākaraḥ ।
kāryaṁ cātra samāyattamityevaṁ na dadāha saḥ ।
7.35.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३१ ॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् । ७.३५.३१ ॥ ॥

yameva divasaṁ hyeṣa grahītuṁ bhāskaraṁ plutaḥ ।
tameva divasaṁ rāhurjighṛkṣati divākaram ।
7.35.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३२ ॥
अनेन परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः । ७.३५.३२ ॥ ॥

anena sa parāmṛṣṭo rāma sūryarathopari ।
apakrāntastatastrasto rāhuścandrārkamardanaḥ ।
7.35.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३३ ॥
इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् । ७.३५.३३ ॥ ॥

sa indrabhavanaṁ gatvā saroṣaḥ siṁhikāsutaḥ ।
abravīdbhrukuṭiṁ kṛtvā devaṁ devagaṇairvṛtam ।
7.35.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३४ ॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् । ७.३५.३४ ॥ ॥

bubhukṣāpanayaṁ dattvā candrārkau mama vāsava ।
kimidaṁ tattvayā dattamanyasya balavṛtrahan ।
7.35.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३५ ॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् । ७.३५.३५ ॥ ॥

adyāhaṁ parvakāle tu jighṛkṣuḥ sūryamāgataḥ ।
athānyo rāhurāsādya jagrāha sahasā ravim ।
7.35.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३६ ॥
राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् । ७.३५.३६ ॥ ॥

sa rāhorvacanaṁ śrutvā vāsavaḥ sambhramānvitaḥ ।
utpapātāsanaṁ hitvā codvahankāñcanīṁ srajam ।
7.35.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३७ ॥
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् । ७.३५.३७ ॥ ॥

tataḥ kailāsakūṭābhaṁ caturdantaṁ madasravam ।
śṛṅgāradhāriṇaṁ prāṁśuṁ svarṇaghaṇṭāṭṭahāsinam ।
7.35.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३८ ॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता । ७.३५.३८ ॥ ॥

indraḥ karīndramāruhya rāhuṁ kṛtvā puraḥsaram ।
prāyādyatrābhavatsūryaḥ sahānena hanūmatā ।
7.35.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ३९ ॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन वै दृष्टः प्रधावञ्छैलकूटवत् । ७.३५.३९ ॥ ॥

athātirabhasenāgādrāhurutsṛjya vāsavam ।
anena ca sa vai dṛṣṭaḥ pradhāvañchailakūṭavat ।
7.35.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४० ॥
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् । ७.३५.४० ॥ ॥

tataḥ sūryaṁ samutsṛjya rāhuṁ phalamavekṣya ca ।
utpapāta punarvyoma grahītuṁ siṁhikāsutam ।
7.35.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४१ ॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः । ७.३५.४१ ॥ ॥

utsṛjyārkamimaṁ rāma pradhāvantaṁ plavaṅgamam ।
avekṣyaivaṁ parāvṛttya mukhaśeṣaḥ parāṅmukhaḥ ।
7.35.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४२ ॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत । ७.३५.४२ ॥ ॥

indramāśaṁsamānastu trātāraṁ siṁhikāsutaḥ ।
indra indreti saṁtrāsānmuhurmahurabhāṣata ।
7.35.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४३ ॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये । ७.३५.४३ ॥ ॥

rāhorvikrośamānasya prāgevālakṣitaṁ svaram ।
śrutvendrovāca mā bhaiṣīrahamenaṁ niṣūdaye ।
7.35.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४४ ॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः । ७.३५.४४ ॥ ॥

airāvataṁ tato dṛṣṭvā mahattadidamityapi ।
phalaṁ matvā hastirājamabhidudrāva mārutiḥ ।
7.35.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४५ ॥
तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् । ७.३५.४५ ॥ ॥

tathāsya dhāvato rūpamairāvatajighṛkṣayā ।
muhūrtamabhavadghoramindrāgnyoriva bhāsvaram ।
7.35.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४६ ॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् । ७.३५.४६ ॥ ॥

evamādhāvamānaṁ tu nātikruddhaḥ śacīpatiḥ ।
hastāntādatimuktena kuliśenābhyatāḍayat ।
7.35.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४७ ॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत । ७.३५.४७ ॥ ॥

tato girau papātaiṣa indravajrābhitāḍitaḥ ।
patamānasya caitasya vāmo hanurabhajyata ।
7.35.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४८ ॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः । ७.३५.४८ ॥ ॥

tasmiṁstu patite bāle vajratāḍanavihvale ।
cukrodhendrāya pavanaḥ prajānāmahitāya saḥ ।
7.35.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ४९ ॥
प्रचारं तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः । ७.३५.४९ ॥ ॥

pracāraṁ sa tu saṅgṛhya prajāsvantargataḥ prabhuḥ ।
guhāṁ praviṣṭaḥ svasutaṁ śiśumādāya mārutaḥ ।
7.35.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५० ॥
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः । ७.३५.५० ॥ ॥

viṇmūtrāśayamāvṛtya prajānāṁ paramārtikṛt ।
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ ।
7.35.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५१ ॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे । ७.३५.५१ ॥ ॥

vāyuprakopādbhūtāni nirucchvāsāni sarvataḥ ।
sandhibhirbhidyamānaiśca kāṣṭhabhūtāni jajñire ।
7.35.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५२ ॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् । ७.३५.५२ ॥ ॥

niḥsvādhyāyavaṣaṭkāraṁ niṣkriyaṁ dharmavarjitam ।
vāyuprakopātऺtrailokyaṁ nirayasthamivābhavat ।
7.35.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५३ ॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया । ७.३५.५३ ॥ ॥

tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ ।
prajāpatiṁ samādhāvanduḥkhitāśca sukhecchayā ।
7.35.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५४ ॥
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः । ७.३५.५४ ॥ ॥

ūcuḥ prāñjalayo devā mahodaranibhodarāḥ ।
tvayā nu bhagavansṛṣṭāḥ prajānātha caturvidhāḥ ।
7.35.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५५ ॥
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम । ७.३५.५५ ॥ ॥

tvayā datto 'yamasmākamāyuṣaḥ pavanaḥ patiḥ ।
so 'smānprāṇeśvaro bhūtvā kasmādeṣo 'dya sattama ।
7.35.55 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५६ ॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् । ७.३५.५६ ॥ ॥

rurodha duḥkhaṁ janayannantaḥpura iva striyaḥ ।
tasmāttvāṁ śaraṇaṁ prāptā vāyunohatā vayam ।
7.35.56 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५७ ॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत । ७.३५.५७ ॥ ॥

etatprajānāṁ śrutvā tu prajānāthaḥ prajāpatiḥ ।
kāraṇāditi coktvāsau prajāḥ punarabhāṣata ।
7.35.57 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५८ ॥
यस्मिंश्च कारणे वायुश्चुक्रोध रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् । ७.३५.५८ ॥ ॥

yasmiṁśca kāraṇe vāyuścukrodha ca rurodha ca ।
prajāḥ śṛṇudhvaṁ tatsarvaṁ śrotavyaṁ cātmanaḥ kṣamam ।
7.35.58 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ५९ ॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः कुपितो ऽनिलः । ७.३५.५९ ॥ ॥

putrastasyāmareśena indreṇādya nipātitaḥ ।
rāhorvacanamāsthāya tataḥ sa kupito 'nilaḥ ।
7.35.59 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६० ॥
अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः । ७.३५.६० ॥ ॥

aśarīraḥ śarīreṣu vāyuścarati pālayan ।
śarīraṁ hi vinā vāyuṁ samatāṁ yāti dārubhiḥ ।
7.35.60 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६१ ॥
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं सुखं विन्दते जगत् । ७.३५.६१ ॥ ॥

vāyuḥ prāṇaḥ sukhaṁ vāyurvāyuḥ sarvamidaṁ jagat ।
vāyunā samparityaktaṁ na sukhaṁ vindate jagat ।
7.35.61 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६२ ॥
अद्यैव परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः । ७.३५.६२ ॥ ॥

adyaiva ca parityaktaṁ vāyunā jagadāyuṣā ।
adyaiva te nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ ।
7.35.62 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६३ ॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः । ७.३५.६३ ॥ ॥

tadyāmastatra yatrāste māruto rukprado hi naḥ ।
mā vināśaṁ gamiṣyāma aprasādyāditeḥ sutāḥ ।
7.35.63 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६४ ॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः । ७.३५.६४ ॥ ॥

tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṅgaguhyakaiḥ ।
jagāma tatrāsyati yatra mārutaḥ sutaṁ surendrābhihataṁ pragṛhya saḥ ।
7.35.64 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३५ · ६५ ॥
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः । ७.३५.६५ ॥

tato 'rkavaiśvānarakāñcanaprabhaṁ sutaṁ tadotsaṅgagataṁ sadāgateḥ ।
caturmukho vīkṣya kṛpāmathākarotsadevagandharvarṣiyakṣarākṣasaiḥ ।
7.35.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.