वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३४ · ४६ श्लोकाःSarga 34 · 46 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३४ · १ ॥
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः । चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः । ७.३४.१ ॥ ॥

arjunena vimuktastu rāvaṇo rākṣasādhipaḥ ।
cacāra pṛthivīṁ sarvāmanirviṇṇastathā kṛtaḥ ।
7.34.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २ ॥
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् । रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः । ७.३४.२ ॥ ॥

rākṣasaṁ vā manuṣyaṁ vā śṛṇute 'yaṁ balādhikam ।
rāvaṇastaṁ samāsādya yuddhe hvayati darpitaḥ ।
7.34.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३ ॥
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् । ७.३४.३ ॥ ॥

tataḥ kadācitkiṣkindhāṁ nagarīṁ vālipālitām ।
gatvā hvayati yuddhāya vālinaṁ hemamālinam ।
7.34.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४ ॥
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् । ७.३४.४ ॥ ॥

tatastu vānarāmātyastārastārāpitā prabhuḥ ।
uvāca vānaro vākyaṁ yuddhaprepsumupāgatam ।
7.34.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ५ ॥
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् । को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः । ७.३४.५ ॥ ॥

rākṣasenda gato vālī yaste pratibalo bhavet ।
ko 'nyaḥ pramukhataḥ sthātuṁ tava śaktaḥ plavaṅgamaḥ ।
7.34.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ६ ॥
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् । ७.३४.६ ॥ ॥

caturbhyo 'pi samudrebhyaḥ sandhyāmanvāsya rāvaṇa ।
imaṁ muhūrtamāyāti vālī tiṣṭha muhūrtakam ।
7.34.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ७ ॥
एतानस्थिचयान्पश्य एते शङ्खपाण्डुराः । युद्धार्थिनामिमे राजन्वानराधिपतेजसा । ७.३४.७ ॥ ॥

etānasthicayānpaśya ya ete śaṅkhapāṇḍurāḥ ।
yuddhārthināmime rājanvānarādhipatejasā ।
7.34.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ८ ॥
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् । ७.३४.८ ॥ ॥

yadvā 'mṛtarasaḥ pītastvayā rāvaṇa rākṣasa ।
tadā vālinamāsādya tadantaṁ tava jīvitam ।
7.34.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ९ ॥
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत । इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति । ७.३४.९ ॥ ॥

paśyedānīṁ jagaccitramimaṁ viśravasaḥ suta ।
idaṁ muhūrtaṁ tiṣṭhasva durlabhaṁ te bhaviṣyati ।
7.34.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १० ॥
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् । ७.३४.१० ॥ ॥

athavā tvarase martuṁ gaccha dakṣiṇasāgaram ।
vālinaṁ drakṣyase tatra bhūmisthamiva pāvakam ।
7.34.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ११ ॥
तु तारं विनिर्भर्त्स्य रावणो लोकरावणः । पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् । ७.३४.११ ॥ ॥

sa tu tāraṁ vinirbhartsya rāvaṇo lokarāvaṇaḥ ।
puṣpakaṁ tatsamāruhya prayayau dakṣiṇārṇavam ।
7.34.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १२ ॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् । ७.३४.१२ ॥ ॥

tatra hemagiriprakhyaṁ taruṇārkanibhānanam ।
rāvaṇo vālinaṁ dṛṣṭvā sandhyopāsanatatparam ।
7.34.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १३ ॥
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः । ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् । ७.३४.१३ ॥ ॥

puṣpakādavaruhyātha rāvaṇo 'ñjanasannibhaḥ ।
grahītuṁ vālinaṁ tūrṇaṁ niḥśabdapadamāvrajat ।
7.34.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १४ ॥
यदृच्छया तदा दृष्टो वालिनापि रावणः । पापाभिप्रायवान् दृष्ट्वा चकार तु सम्भ्रमम् । ७.३४.१४ ॥ ॥

yadṛcchayā tadā dṛṣṭo vālināpi sa rāvaṇaḥ ।
pāpābhiprāyavān dṛṣṭvā cakāra na tu sambhramam ।
7.34.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १५ ॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । चिन्तयति तं वाली रावणं पापनिश्चयम् । ७.३४.१५ ॥ ॥

śaśamālakṣya siṁho vā pannagaṁ garuḍo yathā ।
na cintayati taṁ vālī rāvaṇaṁ pāpaniścayam ।
7.34.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १६ ॥
जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् । ७.३४.१६ ॥ ॥

jighṛkṣamāṇamāyāntaṁ rāvaṇaṁ pāpacetasam ।
kakṣāvalambinaṁ kṛtvā gamiṣye trīnmahārṇavān ।
7.34.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १७ ॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् । ७.३४.१७ ॥ ॥

drakṣyantyariṁ mamāṅkasthaṁ sraṁsadūrukarāmbaram ।
lambamānaṁ daśagrīvaṁ garuḍasyeva pannagam ।
7.34.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १८ ॥
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव । ७.३४.१८ ॥ ॥

ityevaṁ matimāsthāya vālī karṇamupāśritaḥ ।
japanvai naigamānmantrāṁstasthau parvatarāḍiva ।
7.34.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · १९ ॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ । ७.३४.१९ ॥ ॥

tāvanyonyaṁ jighṛkṣantau harirākṣasapārthivau ।
prayatnavantau tatkarma īhaturbaladarpitau ।
7.34.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २० ॥
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः । ७.३४.२० ॥ ॥

hastagrāhaṁ tu taṁ matvā pādaśabdena rāvaṇam ।
parāṅmukho 'pi jagrāha vālī sarpamivāṇḍajaḥ ।
7.34.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २१ ॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् । ७.३४.२१ ॥ ॥

grahītukāmaṁ taṁ gṛhya rakṣasāmīśvaraṁ hariḥ ।
khamutpapāta vegena kṛtvā kakṣāvalambinam ।
7.34.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २२ ॥
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा । ७.३४.२२ ॥ ॥

taṁ cāpīḍayamānaṁ tu vitudantaṁ nakhairmuhuḥ ।
jahāra rāvaṇaṁ vālī pavanastoyadaṁ yathā ।
7.34.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २३ ॥
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः । ७.३४.२३ ॥ ॥

atha te rākṣasāmātyā hriyamāṇaṁ daśānanam ।
mumokṣayiṣavo vāliṁ ravamāṇā abhidrutāḥ ।
7.34.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २४ ॥
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् । ७.३४.२४ ॥ ॥

anvīyamānastairvālī bhrājate 'mbaramadhyagaḥ ।
anvīyamāno meghaughairambarastha ivāṁśumān ।
7.34.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २५ ॥
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः । ७.३४.२५ ॥ ॥

te 'śaknuvantaḥ samprāptuṁ vālinaṁ rākṣasottamāḥ ।
tasya bāhūruvegena pariśrāntā vyavasthitāḥ ।
7.34.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २६ ॥
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् । ७.३४.२६ ॥ ॥

vālimārgādapākrāmanparvatendro hi gacchataḥ ।
kiṁ punarjīvitaprepsurbibhradvai māṁsaśoṇitam ।
7.34.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २७ ॥
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत । ७.३४.२७ ॥ ॥

apakṣigaṇasampātānvānarendro mahājavaḥ ।
kramaśaḥ sāgarānsarvānsandhyākālamavandata ।
7.34.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २८ ॥
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः । ७.३४.२८ ॥ ॥

sabhājyamāno bhūtaistu khaicaraiḥ khaicarottamaḥ ।
paścimaṁ sāgaraṁ vālī hyājagāma sarāvaṇaḥ ।
7.34.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · २९ ॥
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् । ७.३४.२९ ॥ ॥

tasminsandhyāmupāsitvā snātvā japtvā ca vānaraḥ ।
uttaraṁ sāgaraṁ prāyādvahamāno daśānanam ।
7.34.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३० ॥
बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा । ७.३४.३० ॥ ॥

bahuyojanasāhasraṁ vahamāno mahāhariḥ ।
vāyuvacca manovacca jagāma saha śatruṇā ।
7.34.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३१ ॥
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै महोदधिम् । ७.३४.३१ ॥ ॥

uttare sāgare sandhyāmupāsitvā daśānanam ।
vahamāno 'gamadvālī pūrvaṁ vai sa mahodadhim ।
7.34.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३२ ॥
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् । ७.३४.३२ ॥ ॥

tatrāpi sandhyāmanvāsya vāsaviḥ saharīśvaraḥ ।
kiṣkindhāmabhito gṛhya rāvaṇaṁ punarāgamat ।
7.34.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३३ ॥
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् । ७.३४.३३ ॥ ॥

caturṣvapi samudreṣu sandhyāmanvāsya vānaraḥ ।
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat ।
7.34.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३४ ॥
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः । ७.३४.३४ ॥ ॥

rāvaṇaṁ tu mumocātha svakakṣātkapisattamaḥ ।
kutastvamiti covāca prahasanrāvaṇaṁ muhuḥ ।
7.34.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३५ ॥
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् । ७.३४.३५ ॥ ॥

vismayaṁ tu mahadgatvā śramalolanirīkṣaṇaḥ ।
rākṣasendro harīndraṁ tamidaṁ vacanamabravīt ।
7.34.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३६ ॥
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः चाद्यासादितस्त्वया । ७.३४.३६ ॥ ॥

vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ ।
yuddhepsuriha samprāptaḥ sa cādyāsāditastvayā ।
7.34.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३७ ॥
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् । ७.३४.३७ ॥ ॥

aho balamaho vīryamaho gāmbhīryameva ca ।
yenāhaṁ paśuvadgṛhya bhrāmitaścaturo 'rṇavān ।
7.34.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३८ ॥
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति । ७.३४.३८ ॥ ॥

evamaśrāntavadvīra śīghrameva mahārṇavān ।
māṁ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati ।
7.34.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ३९ ॥
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र संशयः । ७.३४.३९ ॥ ॥

trayāṇāmeva bhūtānāṁ gatireṣā plavaṅgama ।
manonilasuparṇānāṁ tava cātra na saṁśayaḥ ।
7.34.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४० ॥
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः । ७.३४.४० ॥ ॥

so 'haṁ dṛṣṭabalastubhyamicchāmi haripuṅgava ।
tvayā saha ciraṁ sakhyaṁ susnigdhaṁ pāvakāgrataḥ ।
7.34.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४१ ॥
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर । ७.३४.४१ ॥ ॥

dārāḥ putrāḥ puraṁ rāṣṭraṁ bhogācchādanabhojanam ।
sarvamevāvibhaktaṁ nau bhaviṣyati harīśvara ।
7.34.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४२ ॥
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् । ७.३४.४२ ॥ ॥

tataḥ prajvālayitvāgniṁ tāvubhau harīrākṣasau ।
bhrātṛtvamupasampannau pariṣvajya parasparam ।
7.34.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४३ ॥
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव । ७.३४.४३ ॥ ॥

anyonyaṁ lambitakarau tatastau harirākṣasau ।
kiṣkindhāṁ viśaturhṛṣṭau siṁhau giriguhāmiva ।
7.34.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४४ ॥
तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः । ७.३४.४४ ॥ ॥

sa tatra māsamuṣitaḥ sugrīva iva rāvaṇaḥ ।
amātyairāgatairnītastrailokyotsādanārthibhiḥ ।
7.34.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४५ ॥
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ । ७.३४.४५ ॥ ॥

evametatpurāvṛttaṁ vālinā rāvaṇaḥ prabho ।
dharṣitaśca kṛtaścāpi bhrātā pāvakasannidhau ।
7.34.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३४ · ४६ ॥
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा । ७.३४.४६ ॥

balamapratimaṁ rāma vālino 'bhavaduttamam ।
so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā ।
7.34.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.