वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३२ · ७३ श्लोकाःSarga 32 · 73 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३२ · १ ॥
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः । ७.३२.१ ॥ ॥

narmadāpuline yatra rākṣasendraḥ sudāruṇaḥ ।
puṣpopahāraṁ kurute tasmāddeśādadūrataḥ ।
7.32.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २ ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः । ७.३२.२ ॥ ॥

arjuno jayatāṁ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ ।
krīḍate saha nārībhirnarmadātoyamāśritaḥ ।
7.32.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३ ॥
तासां मध्यगतो राजा रराज तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः । ७.३२.३ ॥ ॥

tāsāṁ madhyagato rājā rarāja ca tadārjunaḥ ।
kareṇūnāṁ sahasrasya madhyastha iva kuñjaraḥ ।
7.32.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४ ॥
जिज्ञासुः तु बाहूनां सहस्रस्योत्तमं बलम् । रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः । ७.३२.४ ॥ ॥

jijñāsuḥ sa tu bāhūnāṁ sahasrasyottamaṁ balam ।
rurodha narmadāvegaṁ bāhubhirbahubhirvṛtaḥ ।
7.32.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५ ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति । ७.३२.५ ॥ ॥

kārtavīryabhujāsaktaṁ tajjalaṁ prāpya nirmalam ।
kūlopahāraṁ kurvāṇaṁ pratisrotaḥ pradhāvati ।
7.32.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६ ॥
समीननक्रमकरः सपुष्पकुशसंस्तरः । नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ । ७.३२.६ ॥ ॥

samīnanakramakaraḥ sapuṣpakuśasaṁstaraḥ ।
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau ।
7.32.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ७ ॥
वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणस्य जहार ह । ७.३२.७ ॥ ॥

sa vegaḥ kārtavīryeṇa sampreṣita ivāmbhasaḥ ।
puṣpopahāraṁ sakalaṁ rāvaṇasya jahāra ha ।
7.32.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ८ ॥
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् । ७.३२.८ ॥ ॥

rāvaṇo 'rdhasamāptaṁ tamutsṛjya niyamaṁ tadā ।
narmadāṁ paśyate kāntāṁ pratikūlāṁ yathā priyām ।
7.32.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ९ ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु । ७.३२.९ ॥ ॥

paścimena tu taṁ dṛṣṭvā sāgarodgārasannibham ।
vardhantamambhaso vegaṁ pūrvāmāśāṁ praviśya tu ।
7.32.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १० ॥
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् । ७.३२.१० ॥ ॥

tato 'nubhrāntaśakunāṁ svabhāvoparame sthitām ।
nirvikārāṅganābhāsāmapaśyadrāvaṇo nadīm ।
7.32.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ११ ॥
सव्येतरकराङ्गुल्या सशब्दं दशाननः । वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ । ७.३२.११ ॥ ॥

savyetarakarāṅgulyā saśabdaṁ ca daśānanaḥ ।
vegaprabhāvamanveṣṭuṁ so 'diśacchukasāraṇau ।
7.32.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १२ ॥
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ । ७.३२.१२ ॥ ॥

tau tu rāvaṇasandiṣṭau bhrātarau śukasāraṇau ।
vyomāntaragatau vīrau prasthitau paścimāmukhau ।
7.32.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १३ ॥
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् । ७.३२.१३ ॥ ॥

ardhayojanamātraṁ tu gatvā tau rajanīcarau ।
paśyetāṁ puruṣaṁ toye krīḍantaṁ sahayoṣitam ।
7.32.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १४ ॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् । मदरक्तान्तनयनं मदव्याकुलतेजसम् । ७.३२.१४ ॥ ॥

bṛhatsālapratīkāśaṁ toyavyākulamūrdhajam ।
madaraktāntanayanaṁ madavyākulatejasam ।
7.32.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १५ ॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् । ७.३२.१५ ॥ ॥

nadīṁ bāhusahasreṇa rundhantamarimardanam ।
giriṁ pādasahasreṇa rundhantamiva medinīm ।
7.32.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १६ ॥
बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम् । ७.३२.१६ ॥ ॥

bālānāṁ varanārīṇāṁ sahasreṇa samāvṛtam ।
samadānāṁ kareṇūnāṁ sahasreṇeva kuñjaram ।
7.32.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १७ ॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ । सन्निवृत्तावुपागम्य रावणं तमथोचतुः । ७.३२.१७ ॥ ॥

tamadbhutatamaṁ dṛṣṭvā rākṣasau śukasāraṇau ।
sannivṛttāvupāgamya rāvaṇaṁ tamathocatuḥ ।
7.32.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १८ ॥
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर । नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः । ७.३२.१८ ॥ ॥

bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara ।
narmadāṁ rodhavadruddhvā krīḍāpayati yoṣitaḥ ।
7.32.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · १९ ॥
तेन बाहुसहस्रेण सन्निरुद्धजला नदी । सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः । ७.३२.१९ ॥ ॥

tena bāhusahasreṇa sanniruddhajalā nadī ।
sāgarodgārasaṅkāśānudgārānsṛjate muhuḥ ।
7.32.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २० ॥
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ । रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः । ७.३२.२० ॥ ॥

ityevaṁ bhāṣamāṇau tau niśāmya śukasāraṇau ।
rāvaṇo 'rjuna ityuktvā prayayau yuddhalālasaḥ ।
7.32.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २१ ॥
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे । चण्डः प्रवाति पवनः सनादः सुरजास्तथा । ७.३२.२१ ॥ ॥

arjunābhimukhe tasminrāvaṇe rākṣasādhipe ।
caṇḍaḥ pravāti pavanaḥ sanādaḥ surajāstathā ।
7.32.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २२ ॥
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः । महोदरमहापार्श्वधूम्राक्षशुकसारणैः । ७.३२.२२ ॥ ॥

sakṛdeva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ ।
mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ ।
7.32.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २३ ॥
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः । अदीर्घेणैव कालेन तदा राक्षसो बली । तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः । ७.३२.२३ ॥ ॥

saṁvṛto rākṣasendrastu tatrāgādyatra cārjunaḥ ।
adīrgheṇaiva kālena sa tadā rākṣaso balī ।
taṁ narmadāhradaṁ bhīmamājagāmāñjanaprabhaḥ ।
7.32.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २४ ॥
तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् । नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् । ७.३२.२४ ॥ ॥

sa tatra strīparivṛtaṁ vāśitābhiriva dvipam ।
narendraṁ paśyate rājā rākṣasānāṁ tadārjunam ।
7.32.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २५ ॥
रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः । ७.३२.२५ ॥ ॥

sa roṣādraktanayano rākṣasendro baloddhataḥ ।
7.32.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २६ ॥
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा । अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै । ७.३२.२६ ॥ ॥

ityevamarjunāmātyanāha gambhīrayā girā ।
amātyāḥ kṣipramākhyāta haihayasya nṛpasya vai ।
7.32.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २७ ॥
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः । रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् । ७.३२.२७ ॥ ॥

yuddhārthī samanuprāpto rāvaṇo nāma rākṣasaḥ ।
rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te ।
uttasthuḥ sāyudhāstrāśca rāvaṇaṁ vākyamabruvan ।
7.32.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २८ ॥
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण । ७.३२.२८ ॥

yuddhasya kālo vijñeyaḥ sādhu bhoḥ sādhu rāvaṇa ।
7.32.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · २९ ॥
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते । यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् । स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् । वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् । ७.३२.२९ ॥ ॥

caḥ śrutvā mantriṇo 'thārjunasya te ।
yaḥ kṣībaṁ strīvṛtaṁ caiva yoddhumutsahate nṛpam ।
strīsamakṣaṁ kathaṁ yattadyoddhumutsahase 'rjunam ।
vāśitāmadhyagaṁ mattaṁ śārdūla iva kuñjaram ।
7.32.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३० ॥
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया । युद्धे श्रद्धा यद्यस्ति श्वस्तात समरे ऽर्जुनम् । ७.३२.३० ॥ ॥

kṣamasvādya daśagrīva coṣyatāṁ rajanī tvayā ।
yuddhe śraddhā ca yadyasti śvastāta samare 'rjunam ।
7.32.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३१ ॥
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता । निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि । ७.३२.३१ ॥ ॥

yadyadyāsti matiryoddhuṁ yuddhatṛṣṇāsamāvṛtā ।
nihatyāsmāṁstato yuddhamarjunenopayāsyasi ।
7.32.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३२ ॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु । सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः । ७.३२.३२ ॥ ॥

tataste rāvaṇāmātyairamātyāḥ pārthivasya tu ।
sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ ।
7.32.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३३ ॥
ततो हलहलाशब्दो नर्मदातीर आबभौ । अर्जुनस्यानुयातऽणां रावणस्य मन्त्रिणाम् । ७.३२.३३ ॥ ॥

tato halahalāśabdo narmadātīra ābabhau ।
arjunasyānuyāta'ṇāṁ rāvaṇasya ca mantriṇām ।
7.32.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३४ ॥
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः । सरावणानर्दयन्तः समन्तात्समभिद्रुताः । ७.३२.३४ ॥ ॥

iṣubhistomaraiḥ śūlaistriśūlairvajrakarṣaṇaiḥ ।
sarāvaṇānardayantaḥ samantātsamabhidrutāḥ ।
7.32.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३५ ॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः । सनक्रमीनमकरसमुद्रस्येव निःस्वनः । ७.३२.३५ ॥ ॥

haihayādhipayodhānāṁ vega āsītsudāruṇaḥ ।
sanakramīnamakarasamudrasyeva niḥsvanaḥ ।
7.32.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३६ ॥
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः । कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा । ७.३२.३६ ॥ ॥

rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ ।
kārtavīryabalaṁ kruddhā nirdahanti sma tejasā ।
7.32.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३७ ॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः । क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः । ७.३२.३७ ॥ ॥

arjunāya tu tatkarma rāvaṇasya samantriṇaḥ ।
krīḍamānāya kathitaṁ puruṣairdvārarakṣibhiḥ ।
7.32.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३८ ॥
श्रुत्वा भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः । उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः । ७.३२.३८ ॥ ॥

śrutvā na bhetavyamiti strījanaṁ taṁ tato 'rjunaḥ ।
uttatāra jalāttasmādgaṅgātoyādivāñjanaḥ ।
7.32.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ३९ ॥
क्रोधदूषितनेत्रस्तु ततो ऽर्जुनपावकः । प्रजज्वाल महाघोरो युगान्त इव पावकः । ७.३२.३९ ॥ ॥

krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ ।
prajajvāla mahāghoro yugānta iva pāvakaḥ ।
7.32.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४० ॥
तूर्णतरमादाय वरहेमाङ्गदो गदाम् । अभिदुद्राव रक्षांसि तमांसीव दिवाकरः । ७.३२.४० ॥ ॥

sa tūrṇataramādāya varahemāṅgado gadām ।
abhidudrāva rakṣāṁsi tamāṁsīva divākaraḥ ।
7.32.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४१ ॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम् । गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः । ७.३२.४१ ॥ ॥

bāhuvikṣepakaraṇāṁ samudyamya mahāgadām ।
gāruḍaṁ vegamāsthāya cāpapātaiva so 'rjunaḥ ।
7.32.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४२ ॥
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः । स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः । ७.३२.४२ ॥ ॥

tasya mārgaṁ samāruddhya vindhyo 'rkasyeva parvataḥ ।
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ ।
7.32.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४३ ॥
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः । प्रहस्तः प्रेषयन्क्रुद्धो ररास यथाम्बुदः । ७.३२.४३ ॥ ॥

tato 'sya musalaṁ ghoraṁ lohabaddhaṁ mahoddhataḥ ।
prahastaḥ preṣayankruddho rarāsa ca yathāmbudaḥ ।
7.32.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४४ ॥
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः । प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव । ७.३२.४४ ॥ ॥

tasyāgre musalasyāgniraśokāpīḍasannibhaḥ ।
prahastakaramuktasya babhūva pradahanniva ।
7.32.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४५ ॥
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः । निपुणं वञ्चयामास सगदो ऽगदविक्रमः । ७.३२.४५ ॥ ॥

athāyāntaṁ tu musalaṁ kārtavīryastadārjunaḥ ।
nipuṇaṁ vañcayāmāsa sagado 'gadavikramaḥ ।
7.32.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४६ ॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः । भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् । ७.३२.४६ ॥ ॥

tatastamabhidudrāva prahastaṁ haihayādhipaḥ ।
bhrāmayāno gadāṁ gurvīṁ pañcabāhuśatocchrayām ।
7.32.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४७ ॥
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा । निपपात स्थितः शैलो वज्रिवज्रहतो यथा । ७.३२.४७ ॥ ॥

tathā hato 'tivegena prahasto gadayā tadā ।
nipapāta sthitaḥ śailo vajrivajrahato yathā ।
7.32.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४८ ॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः । समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् । ७.३२.४८ ॥ ॥

prahastaṁ patitaṁ dṛṣṭvā mārīcaśukasāraṇāḥ ।
samahodaradhūmrākṣā hyapasṛṣṭā raṇājirāt ।
7.32.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ४९ ॥
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते । रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् । ७.३२.४९ ॥ ॥

apakrānteṣvamātyeṣu prahaste vai nipātite ।
rāvaṇo 'bhyadravattūrṇamarjunaṁ nṛpasattamam ।
7.32.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५० ॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् । नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् । ७.३२.५० ॥ ॥

sahasrabāhostadyuddhaṁ viṁśadbāhośca dāruṇam ।
nṛparākṣasayostatra cārabdhaṁ romaharṣaṇam ।
7.32.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५१ ॥
सागराविव संरब्धौ चलन्मूलाविवाचलौ । तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ । ७.३२.५१ ॥ ॥

sāgarāviva saṁrabdhau calanmūlāvivācalau ।
tejoyuktāvivādityau pradahantāvivānalau ।
7.32.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५२ ॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ । मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ । ७.३२.५२ ॥ ॥

baloddhatau yathā nāgau vāśitārthe yathā vṛṣau ।
meghāviva vinardantau siṁhāviva balotkaṭau ।
7.32.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५३ ॥
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ । परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् । ७.३२.५३ ॥ ॥

rudrakālāviva kruddhau tadā tau rākṣasārjunau ।
parasparaṁ gadābhyāṁ tau tāḍayāmāsaturbhṛśam ।
7.32.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५४ ॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे । गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ । ७.३२.५४ ॥ ॥

vajraprahārānacalā yathā ghorānviṣehire ।
gadāprahārāṁstau tatra sehāte nararākṣasau ।
7.32.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५५ ॥
यथा शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः । तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः । ७.३२.५५ ॥ ॥

yathā ' śaniravebhyastu jāyate 'tha pratiśrutiḥ ।
tathā tayorgadāpothairdiśaḥ sarvāḥ pratiśrutāḥ ।
7.32.55 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५६ ॥
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि । काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा । ७.३२.५६ ॥ ॥

arjunasya gadā sā tu pātyamānā 'hitorasi ।
kāñcanābhaṁ nabhaścakre vidyutsaudāminī yathā ।
7.32.56 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५७ ॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः । अर्जुनोरसि निर्भाति गदोल्केव महागिरौ । ७.३२.५७ ॥ ॥

tathaiva rāvaṇenāpi pātyamānā muhurmuhuḥ ।
arjunorasi nirbhāti gadolkeva mahāgirau ।
7.32.57 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५८ ॥
नार्जुनः खेदमायाति राक्षसगणेश्वरः । इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः । ७.३२.५८ ॥ ॥

nārjunaḥ khedamāyāti na rākṣasagaṇeśvaraḥ ।
idamāsīttayoryuddhaṁ yathā pūrvaṁ balīndrayoḥ ।
7.32.58 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ५९ ॥
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ । परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ । ७.३२.५९ ॥ ॥

śṛṅgairiva vṛṣāyudhyandantāgrairiva kuñjarau ।
parasparaṁ tau nighnantau nararākṣasasattamau ।
7.32.59 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६० ॥
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा । स्तनयोरन्तरे मुक्ता रावणस्य महोरसि । ७.३२.६० ॥ ॥

tato 'rjunena kruddhena sarvaprāṇena sā gadā ।
stanayorantare muktā rāvaṇasya mahorasi ।
7.32.60 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६१ ॥
वरदानकृतत्राणे सा गदा रावणोरसि । दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ । ७.३२.६१ ॥ ॥

varadānakṛtatrāṇe sā gadā rāvaṇorasi ।
durbaleva yathāvegaṁ dvidhābhūtvā 'patatkṣitau ।
7.32.61 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६२ ॥
त्वर्जुनप्रमुक्तेन गदापातेन रावणः । अपासर्पद्धनुर्मात्रं निषसाद निष्टनन् । ७.३२.६२ ॥ ॥

sa tvarjunapramuktena gadāpātena rāvaṇaḥ ।
apāsarpaddhanurmātraṁ niṣasāda ca niṣṭanan ।
7.32.62 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६३ ॥
विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः । सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् । ७.३२.६३ ॥ ॥

sa vihvalaṁ tadālakṣya daśagrīvaṁ tato 'rjunaḥ ।
sahasotpatya jagrāha garutmāniva pannagam ।
7.32.63 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६४ ॥
तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा । ७.३२.६४ ॥ ॥

sa tu bāhusahasreṇa balādgṛhya daśānanam ।
babandha balavānrājā baliṁ nārāyaṇo yathā ।
7.32.64 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६५ ॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः । साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि । ७.३२.६५ ॥ ॥

badhyamāne daśagrīve siddhacāraṇadevatāḥ ।
sādhvītivādinaḥ puṣpaiḥ kirantyarjunamūrdhani ।
7.32.65 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६६ ॥
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् । ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः । ७.३२.६६ ॥ ॥

vyāghro mṛgamivādāya mṛgarāḍiva dantinam ।
nanāda haihayo rājā harṣādambudavanmuhuḥ ।
7.32.66 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६७ ॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् । सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् । ७.३२.६७ ॥ ॥

prahastastu samāśvasto dṛṣṭvā baddhaṁ daśānanam ।
saha tai rākṣasaiḥ kruddhaścābhidudrāva pārthivam ।
7.32.67 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६८ ॥
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ । उद्भूत आतपापाये पयोदानामिवाम्बुधौ । ७.३२.६८ ॥ ॥

naktañcarāṇāṁ vegastu teṣāmāpatatāṁ babhau ।
udbhūta ātapāpāye payodānāmivāmbudhau ।
7.32.68 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ६९ ॥
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् । मुसलानि सशूलानि सोत्ससर्ज तदार्जुने । ७.३२.६९ ॥ ॥

muñca muñceti bhāṣantastiṣṭhatiṣṭheti cāsakṛt ।
musalāni saśūlāni sotsasarja tadārjune ।
7.32.69 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ७० ॥
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः । आयुधान्यमरारीणां जग्राहारिनिषूदनः । ७.३२.७० ॥ ॥

aprāptānyeva tānyāśu asambhrāntastadārjunaḥ ।
āyudhānyamarārīṇāṁ jagrāhāriniṣūdanaḥ ।
7.32.70 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ७१ ॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः । भित्त्वा विद्रावयामास वायुरम्बुधरानिव । ७.३२.७१ ॥ ॥

tatastaireva rakṣāṁsi durdharaiḥ pravarāyudhaiḥ ।
bhittvā vidrāvayāmāsa vāyurambudharāniva ।
7.32.71 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ७२ ॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा । रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः । ७.३२.७२ ॥ ॥

rākṣasāṁstrāsayitvā tu kārtavīryo 'rjunastadā ।
rāvaṇaṁ gṛhya nagaraṁ praviveśa suhṛdvṛtaḥ ।
7.32.72 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३२ · ७३ ॥
कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः । तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः । ७.३२.७३ ॥

sa kīryamāṇaḥ kusumākṣatotkarairdvijaiḥ sapauraiḥ puruhūtasannibhaḥ ।
tadā 'rjunaḥ sampraviveśa tāṁ purīṁ baliṁ nigṛhyeva sahasralocanaḥ ।
7.32.73 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.