वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३१ · ४३ श्लोकाःSarga 31 · 43 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३१ · १ ॥
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् । ७.३१.१ ॥ ॥

tato rāmo mahātejā vismayātpunareva hi ।
uvāca praṇato vākyamagastyamṛṣisattamam ।
7.31.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २ ॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम । ७.३१.२ ॥ ॥

bhagavanrākṣasaḥ krūro yadāprabhṛti medinīm ।
paryaṭatkiṁ tadā lokāḥ śūnyā āsandvijottama ।
7.31.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३ ॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र प्राप्तो रावणो राक्षसेश्वरः । ७.३१.३ ॥ ॥

rājā vā rājamātro vā kiṁ tadā nātra kaścana ।
dharṣaṇaṁ yatra na prāpto rāvaṇo rākṣaseśvaraḥ ।
7.31.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ४ ॥
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः । ७.३१.४ ॥ ॥

utāho hatavīryāste babhūvuḥ pṛthivīkṣitaḥ ।
bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ ।
7.31.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ५ ॥
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् । ७.३१.५ ॥ ॥

rāghavasya vacaḥ śrutvā hyagastyo bhagavānṛṣiḥ ।
uvāca rāmaṁ prahasanpitāmaha iveśvaram ।
7.31.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ६ ॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते । ७.३१.६ ॥ ॥

ityevaṁ bādhamānastu pārthivānpārthivarṣabha ।
cacāra rāvaṇo rāma pṛthivīṁ pṛthivīpate ।
7.31.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ७ ॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः । ७.३१.७ ॥ ॥

tato māhiṣmatīṁ nāma purīṁ svargapurīprabhām ।
samprāpto yatra sānnidhyaṁ sadāsīdvasuretasaḥ ।
7.31.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ८ ॥
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा । ७.३१.८ ॥ ॥

tulya āsīnnṛpastasya prabhāvādvasuretasaḥ ।
arjuno nāma yatrāgniḥ śarakuṇḍeśayaḥ sadā ।
7.31.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ९ ॥
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः । ७.३१.९ ॥ ॥

tameva divasaṁ so 'tha haihayādhipatirbalī ।
arjuno narmadāṁ rantuṁ gataḥ strībhiḥ saheśvaraḥ ।
7.31.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १० ॥
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत । ७.३१.१० ॥ ॥

tameva divasaṁ so 'tha rāvaṇastatra āgataḥ ।
rāvaṇo rākṣasendrastu tasyāmātyānapṛcchata ।
7.31.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ११ ॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् । ७.३१.११ ॥ ॥

kvārjuno nṛpatiḥ śīghraṁ samyagākhyātumarhatha ।
rāvaṇo 'hamanuprāpto yuddhepsurnṛvareṇa ha ।
mamāgamanamapyagre yuṣmābhiḥ sannivedyatām ।
7.31.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १२ ॥
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः । अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः । ७.३१.१२ ॥ ॥

ityevaṁ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ ।
abruvanrākṣasapatimasānnidhyaṁ mahīpateḥ ।
7.31.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १३ ॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् । ७.३१.१३ ॥ ॥

śrutvā viśravasaḥ putraḥ paurāṇāmarjunaṁ gatam ।
apasṛtyāgato vindhyaṁ himavatsannibhaṁ girim ।
7.31.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १४ ॥
तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् । अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् । ७.३१.१४ ॥ ॥

sa tamabhramivāviṣṭamudbhrantamiva medinīm ।
apaśyadrāvaṇo vindhyamālikhantamivāmbaram ।
7.31.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १५ ॥
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् । ७.३१.१५ ॥ ॥

sahasraśikharopetaṁ siṁhādhyuṣitakandaram ।
prapātapatitaistoyaiḥ sāṭṭahāsamivāmbudhim ।
7.31.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १६ ॥
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः । स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् । ७.३१.१६ ॥ ॥

devadānavagandharvaiḥ sāpsarogaṇakinnaraiḥ ।
svastrībhiḥ krīḍamānaiśca svargabhūtaṁ mahocchrayam ।
7.31.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १७ ॥
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् । फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् । ७.३१.१७ ॥ ॥

nadībhiḥ syandamānābhiḥ sphaṭikapratimaṁ jalam ।
phaṇābhiścalajihvābhiranantamiva viṣṭhitam ।
7.31.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १८ ॥
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ । ७.३१.१८ ॥ ॥

utkrāmantaṁ darīvantaṁ himavatsannibhaṁ girim ।
paśyamānastato vindhyaṁ rāvaṇo narmadāṁ yayau ।
7.31.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · १९ ॥
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् । ७.३१.१९ ॥ ॥

calopalajalāṁ puṇyāṁ paścimodadhigāminīm ।
7.31.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २० ॥
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् । ७.३१.२० ॥ ॥

mahiṣaiḥ sṛmaraiḥ siṁhaiḥ śārdūlarkṣagajottamaiḥ ।
uṣṇābhitaptaistṛṣitaiḥ saṅkṣobhitajalāśayām ।
7.31.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २१ ॥
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः । सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् । ७.३१.२१ ॥ ॥

cakravākaiḥ sakāraṇḍaiḥ sahaṁsajalakukkuṭaiḥ ।
sārasaiśca sadā mattaiḥ sukūjadbhiḥ samāvṛtām ।
7.31.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २२ ॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् । ७.३१.२२ ॥ ॥

phulladrumakṛtottaṁsāṁ cakravākayugastanīm ।
vistīrṇapulinaśroṇīṁ haṁsāvalisumekhalām ।
7.31.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २३ ॥
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् । पुष्पकादवरुह्याशु नर्मदां सरितां वराम् । ७.३१.२३ ॥ ॥

puṣpareṇvanuliptāṅgīṁ jalaphenāmalāṁśukām ।
jalāvagāhasaṁsparśāṁ phullotpalaśubhekṣaṇām ।
puṣpakādavaruhyāśu narmadāṁ saritāṁ varām ।
7.31.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २४ ॥
इष्टामिव वरां नारीमवगाह्य दशाननः । तस्याः पुलिने रम्ये नानामुनिनिषेविते । ७.३१.२४ ॥ ॥

iṣṭāmiva varāṁ nārīmavagāhya daśānanaḥ ।
sa tasyāḥ puline ramye nānāmuniniṣevite ।
7.31.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २५ ॥
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः । प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः । ७.३१.२५ ॥ ॥

upopaviṣṭaiḥ sacivaiḥ sārdhaṁ rākṣasapuṅgavaḥ ।
prakhyāya narmadāṁ so 'tha gaṅgeyamiti rāvaṇaḥ ।
7.31.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २६ ॥
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः । उवाच सचिवांस्तत्र सलीलं शुकसारणौ । ७.३१.२६ ॥ ॥

narmadādarśajaṁ harṣamāptavān rākṣasādhipaḥ ।
uvāca sacivāṁstatra salīlaṁ śukasāraṇau ।
7.31.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २७ ॥
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः । ७.३१.२७ ॥ ॥

eṣa raśmisahasreṇa jagatkṛtvaiva kāñcanam ।
tīkṣṇatāpakaraḥ sūryo nabhaso 'rdhaṁ samāśritaḥ ।
7.31.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २८ ॥
मामासीनं विदित्वैव चन्द्रायति दिवाकरः । ७.३१.२८ ॥ ॥

māmāsīnaṁ viditvaiva candrāyati divākaraḥ ।
7.31.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · २९ ॥
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः । मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः । ७.३१.२९ ॥ ॥

narmadājalaśītaśca sugandhiḥ śramanāśanaḥ ।
madbhayādanilo 'pyatra vātyeṣa susamāhitaḥ ।
7.31.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३० ॥
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी । नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता । ७.३१.३० ॥ ॥

iyaṁ vāpi saricchreṣṭhā narmadā narmavardhinī ।
nakramīnavihaṅgormiḥ sabhayevāṅganā sthitā ।
7.31.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३१ ॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः । ७.३१.३१ ॥ ॥

tadbhavantaḥ kṣatāḥ śastrairnṛpairindrasamairyudhi ।
candanasya raseneva rudhireṇa samukṣitāḥ ।
7.31.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३२ ॥
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् । महापद्ममुखा मत्ता गङ्गामिव गहागजाः । अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ । ७.३१.३२ ॥ ॥

te yūyamavagāhadhvaṁ narmadāṁ śarmadāṁ śubhām ।
mahāpadmamukhā mattā gaṅgāmiva gahāgajāḥ ।
asyāṁ snātvā mahānadyāṁ pāpmānaṁ vipramokṣyatha ।
7.31.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३३ ॥
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः । ७.३१.३३ ॥ ॥

ahamapyadya puline śaradindusamaprabhe ।
puṣpopahāraṁ śanakaiḥ kariṣyāmi kapardinaḥ ।
7.31.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३४ ॥
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे । ७.३१.३४ ॥ ॥

rāvaṇenaivamuktāstu prahastaśukasāraṇāḥ ।
samahodaradhūmrākṣā narmadāṁ vijagāhire ।
7.31.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३५ ॥
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः । ७.३१.३५ ॥ ॥

rākṣasendragajaistaistu kṣobhitā narmadā nadī ।
vāmanāñjanapadmādyairgaṅgā iva mahāgajaiḥ ।
7.31.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३६ ॥
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु । ७.३१.३६ ॥ ॥

tataste rākṣasāḥ snātvā narmadāyāṁ mahābalāḥ ।
uttīrya puṣpāṇyājahrurbalyarthaṁ rāvaṇasya tu ।
7.31.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३७ ॥
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः । ७.३१.३७ ॥ ॥

narmadāpuline hṛdye śubhrābhrasadṛśaprabhe ।
rākṣasaistu muhūrtena kṛtaḥ puṣpamayo giriḥ ।
7.31.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३८ ॥
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः । ७.३१.३८ ॥ ॥

puṣpeṣūpahṛteṣvevaṁ rāvaṇo rākṣaseśvaraḥ ।
avatīrṇo nadīṁ snātuṁ gaṅgāmiva mahāgajaḥ ।
7.31.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ३९ ॥
तत्र स्नात्वा विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार रावणः । ७.३१.३९ ॥ ॥

tatra snātvā ca vidhivajjaptvā japyamanuttamam ।
narmadāsalilāttasmāduttatāra sa rāvaṇaḥ ।
7.31.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ४० ॥
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः । ७.३१.४० ॥ ॥

tataḥ klinnāmbaraṁ tyaktvā śuklavastrasamāvṛtam ।
rāvaṇaṁ prāñjaliṁ yāntamanvayuḥ sarvarākṣasāḥ ।
7.31.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ४१ ॥
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते । ७.३१.४१ ॥ ॥

tadgatīvaśamāpannā mūrtimanta ivācalāḥ ।
yatra yatra ca yāti sma rāvaṇo rākṣaseśvaraḥ ।
jāmbūnadamayaṁ liṅgaṁ tatra tatra sma nīyate ।
7.31.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ४२ ॥
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः । ७.३१.४२ ॥ ॥

vālukāvedimadhye tu talliṅgaṁ sthāpya rāvaṇaḥ ।
arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ ।
7.31.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३१ · ४३ ॥
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः । ७.३१.४३ ॥

tataḥ satāmārtiharaṁ paraṁ varaṁ varapradaṁ candramayūkhabhūṣaṇam ।
samarcayitvā sa niśācaro jagau prasārya hastānpraṇanarta cāgrataḥ ।
7.31.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.