वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३० · ५५ श्लोकाःSarga 30 · 55 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३० · १ ॥
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा । ७.३०.१ ॥ ॥

jite mahendre 'tibale rāvaṇasya sutena vai ।
prajāpatiṁ puraskṛtya yayurlaṅkāṁ surāstadā ।
7.30.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २ ॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः । ७.३०.२ ॥ ॥

tatra rāvaṇamāsādya putrabhrātṛbhirāvṛtam ।
abravīdgagane tiṣṭhansāmapūrvaṁ prajāpatiḥ ।
7.30.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३ ॥
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा । ७.३०.३ ॥ ॥

vatsa rāvaṇa tuṣṭo 'smi putrasya tava saṁyuge ।
aho 'sya vikramaudāryaṁ tava tulyo 'dhiko 'pi vā ।
7.30.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४ ॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै । ७.३०.४ ॥ ॥

jitaṁ hi bhavatā sarvaṁ trailokyaṁ svena tejasā ।
kṛtā pratijñā saphalā prīto 'smi svasutena vai ।
7.30.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५ ॥
अयं पुत्रो ऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति । ७.३०.५ ॥ ॥

ayaṁ ca putro 'tibalastava rāvaṇa vīryavān ।
jagatīndrajidityeva parikhyāto bhaviṣyati ।
7.30.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ६ ॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे । ७.३०.६ ॥ ॥

balavāndurjayaścaiva bhaviṣyatyeva rākṣasaḥ ।
yaṁ samāśritya te rājansthāpitāstridaśā vaśe ।
7.30.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ७ ॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः । ७.३०.७ ॥ ॥

tanmucyatāṁ mahābāho mahendraḥ pākaśāsanaḥ ।
kiñcāsya mokṣaṇārthāya prayacchantu divaukasaḥ ।
7.30.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ८ ॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः । अमरत्वमहं देव वृणे यद्येष मुच्यते । ७.३०.८ ॥ ॥

athābravīnmahātejā indrajitsamitiñjayaḥ ।
amaratvamahaṁ deva vṛṇe yadyeṣa mucyate ।
7.30.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ९ ॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् । ७.३०.९ ॥ ॥

catuṣpadāṁ khecarāṇāmanyeṣāṁ vā mahaujasām ।
vṛkṣagulmakṣupalatātṛṇopalamahībhṛtām ।
7.30.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १० ॥
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति । अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् । ७.३०.१० ॥ ॥

sarve 'pi jantavo 'nyonyaṁ bhetavye sati bibhyati ।
ato 'tra loke sarveṣāṁ sarvasmācca bhavedbhayam ।
7.30.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ११ ॥
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि । चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् । ७.३०.११ ॥ ॥

tato 'bravīnmahātejā meghanādaṁ prajāpatiḥ ।
nāsti sarvāmaratvaṁ hi kasyacitprāṇino bhuvi ।
catuṣpadaḥ pakṣiṇaśca bhūtānāṁ vā mahaujasām ।
7.30.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १२ ॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् । ७.३०.१२ ॥ ॥

śrutvā pitāmahenoktamindrajitprabhuṇāvyayam ।
7.30.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १३ ॥
्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे । ७.३०.१३ ॥ ॥

vaṁ hi kasyacitprāṇino bhuvi ।
athābravītsa tatrasthaṁ meghanādo mahābalaḥ ।
śrūyatāṁ vā bhavetsiddhiḥ śatakratuvimokṣaṇe ।
7.30.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १४ ॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं शत्रुनिर्जयकाङ्क्षिणः । ७.३०.१४ ॥ ॥

mameṣṭaṁ nityaśo harvyairmantraiḥ sampūjya pāvakam ।
saṅgrāmamavatarttuṁ ca śatrunirjayakāṅkṣiṇaḥ ।
7.30.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १५ ॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः । ७.३०.१५ ॥ ॥

aśvayukto ratho mahyamuttiṣṭhettu vibhāvasoḥ ।
tatsthasyāmaratā syānme eṣa me niścayo varaḥ ।
7.30.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १६ ॥
तस्मिन्यद्यसमाप्ते जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् । ७.३०.१६ ॥ ॥

tasminyadyasamāpte ca japyahome vibhāvasau ।
yudhyeyaṁ deva saṅgrāme tadā me syādvināśanam ।
7.30.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १७ ॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् । ७.३०.१७ ॥ ॥

sarvo hi tapasā deva vṛṇotyamaratāṁ pumān ।
vikrameṇa mayā tvetadamaratvaṁ pravartitam ।
7.30.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १८ ॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः । ७.३०.१८ ॥ ॥

evamastviti taṁ cāha vākyaṁ devaḥ pitāmahaḥ ।
muktaścendrajitā śakro gatāśca tridivaṁ surāḥ ।
7.30.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · १९ ॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः । ७.३०.१९ ॥ ॥

etasminnantare rāma dīno bhraṣṭāmbaradyutiḥ ।
indraścintāparītātmā dhyānatatparatāṁ gataḥ ।
7.30.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २० ॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् । ७.३०.२० ॥ ॥

taṁ tu dṛṣṭvā tathābhūtaṁ prāha devaḥ prajāpatiḥ ।
śatakrato kimu purā karoti sma suduṣkṛtam ।
7.30.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २१ ॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः । ७.३०.२१ ॥ ॥

amarendra mayā bahvyaḥ prajāḥ sṛṣṭāstathā prabho ।
ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ ।
7.30.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २२ ॥
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् । ७.३०.२२ ॥ ॥

tāsāṁ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā ।
tato 'hamekāgramanāstāḥ prajāḥ paricintayam ।
7.30.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २३ ॥
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् । ७.३०.२३ ॥ ॥

so 'haṁ tāsāṁ viśeṣārthaṁ striyamekāṁ vinirmame ।
yadyatprajānāṁ pratyaṅgaṁ viśiṣṭaṁ tattaduddhṛtam ।
7.30.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २४ ॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् । ७.३०.२४ ॥ ॥

tato mayā rūpaguṇairahalyā strī vinirmitā ।
halaṁ nāmeha vairūpaṁ halyaṁ tatprabhavaṁ bhavet ।
7.30.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २५ ॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् । ७.३०.२५ ॥ ॥

yasmānna vidyate halyaṁ tenāhalyeti viśrutā ।
ahalyeti mayā śakra tasyā nāma pravartitam ।
7.30.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २६ ॥
निर्मितायां देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् । ७.३०.२६ ॥ ॥

nirmitāyāṁ ca devendra tasyāṁ nāryāṁ surarṣabha ।
bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat ।
7.30.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २७ ॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर । ७.३०.२७ ॥ ॥

tvaṁ tu śakra tadā nārīṁ jānīṣe manasā prabho ।
sthānādhikatayā patnī mamaiṣeti purandara ।
7.30.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २८ ॥
सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता ह । ७.३०.२८ ॥ ॥

sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ ।
nyastā bahūni varṣāṇi tena niryātitā ca ha ।
7.30.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · २९ ॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं पत्न्यर्थं स्पर्शिता तदा । ७.३०.२९ ॥ ॥

tatastasya parijñāya mahāsthairyaṁ mahāmuneḥ ।
jñātvā tapasi siddhiṁ ca patnyarthaṁ sparśitā tadā ।
7.30.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३० ॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव । ७.३०.३० ॥ ॥

saṅkruddhastvaṁ hi dharmātman gatvā tasyāśramaṁ muneḥ ।
dṛṣṭavāṁśca tadā tāṁ strīṁ dīptāmagniśikhāmiva ।
7.30.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३१ ॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं तदा तेन ह्याश्रमे परमर्षिणा । ७.३०.३१ ॥ ॥

sā tvayā dharṣitā śakra kāmārtena samanyunā ।
dṛṣṭastvaṁ ca tadā tena hyāśrame paramarṣiṇā ।
7.30.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३२ ॥
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् । ७.३०.३२ ॥ ॥

tataḥ kruddhena tenā 'si śaptaḥ paramatejasā ।
gato 'si yena devendra daśābhāgaviparyayam ।
7.30.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३३ ॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि । ७.३०.३३ ॥ ॥

yasmānme dharṣitā patnī tvayā vāsava nirbhayam ।
tasmāttvaṁ samare rājañchatruhastaṁ gamiṣyasi ।
7.30.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३४ ॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति संशयः । ७.३०.३४ ॥ ॥

ayaṁ tu bhāvo durbuddhe yastvayeha pravartitaḥ ।
mānuṣeṣvapi lokeṣu bhaviṣyati na saṁśayaḥ ।
7.30.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३५ ॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । ते स्थावरं स्थानं भविष्यति संशयः । ७.३०.३५ ॥ ॥

tatrārdhaṁ tasya yaḥ kartā tvayyardhaṁ nipatiṣyati ।
na ca te sthāvaraṁ sthānaṁ bhaviṣyati na saṁśayaḥ ।
7.30.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३६ ॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् । ७.३०.३६ ॥ ॥

yaśca yaśca surendraḥ syāddhruvaḥ sa na bhaviṣyati ।
eṣa śāpo mayā mukta ityasau tvāṁ tadā 'bravīt ।
7.30.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३७ ॥
तां तु भार्यां निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः । ७.३०.३७ ॥ ॥

tāṁ tu bhāryāṁ sa nirbhartsya so 'bravītsumahātapāḥ ।
durvinīte vinidhvaṁsa mamāśramasamīpataḥ ।
7.30.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३८ ॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके त्वमेका भविष्यति । ७.३०.३८ ॥ ॥

rūpayauvanasampannā yasmāttvamanavasthitā ।
tasmādrūpavatī loke na tvamekā bhaviṣyati ।
7.30.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ३९ ॥
रूपं ते प्रजाः सर्वा गमिष्यन्ति संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः । ७.३०.३९ ॥ ॥

rūpaṁ ca te prajāḥ sarvā gamiṣyanti na saṁśayaḥ ।
yattadekaṁ samāśritya vibhramo 'yamupasthitaḥ ।
7.30.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४० ॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा । ७.३०.४० ॥ ॥

tadāprabhṛti bhūyiṣṭhaṁ prajā rūpasamanvitāḥ ।
sā taṁ prasādayāmāsa maharṣiṁ gautamaṁ tadā ।
7.30.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४१ ॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि । ७.३०.४१ ॥ ॥

ajñānāddharṣitā vipra tvadrūpeṇa divaukasā ।
na kāmakārādviprarṣe prasādaṁ kartumarhasi ।
7.30.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४२ ॥
अहल्यया त्वेवमुक्तः प्रत्युवाच गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः । ७.३०.४२ ॥ ॥

ahalyayā tvevamuktaḥ pratyuvāca sa gautamaḥ ।
utpatsyati mahātejā ikṣvākūṇāṁ mahārathaḥ ।
7.30.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४३ ॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि । ७.३०.४३ ॥ ॥

rāmo nāma śruto loke vanaṁ cāpyupayāsyati ।
brāhmaṇārthe mahābāhurviṣṇurmānuṣavigrahaḥ ।
taṁ drakṣyasi yadā bhadre tataḥ pūtā bhaviṣyasi ।
7.30.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४४ ॥
हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं कृत्वा वै मत्समीपं गमिष्यसि । ७.३०.४४ ॥ ॥

sa hi pāvayituṁ śaktastvayā yadduṣkṛtaṁ kṛtam ।
tasyātithyaṁ ca kṛtvā vai matsamīpaṁ gamiṣyasi ।
7.30.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४५ ॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा विप्रर्षिराजगाम स्वमाश्रमम् । ७.३०.४५ ॥ ॥

vatsyasi tvaṁ mayā sārdhaṁ tadā hi varavarṇini ।
evamuktvā sa viprarṣirājagāma svamāśramam ।
7.30.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४६ ॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् । ७.३०.४६ ॥ ॥

tapaścācāra sumahatsā patnī brahmavādinaḥ ।
śāpotsargāddhi tasyedaṁ muneḥ sarvamupasthitam ।
7.30.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४७ ॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव । ७.३०.४७ ॥ ॥

tatsmara tvaṁ mahābāho duṣkṛtaṁ yattvayā kṛtam ।
tena tvaṁ grahaṇaṁ śatroryāto nānyena vāsava ।
7.30.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४८ ॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः । ७.३०.४८ ॥ ॥

śīghraṁ vai yaja yajñaṁ tvaṁ vaiṣṇavaṁ susamāhitaḥ ।
pāvitastena yajñena yāsyase tridivaṁ tataḥ ।
7.30.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ४९ ॥
पुत्रश्च तव देवेन्द्र विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ । ७.३०.४९ ॥ ॥

putraśca tava devendra na vinaṣṭo mahāraṇe ।
nītaḥ sannihitaścaiva āryakeṇa mahodadhau ।
7.30.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५० ॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् । ७.३०.५० ॥ ॥

etacchrutvā mahendrastu yajñamiṣṭvā ca vaiṣṇavam ।
punastridivamākrāmadanvaśāsacca devarāṭ ।
7.30.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५१ ॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः । ७.३०.५१ ॥ ॥

etadindrajito nāma balaṁ yatkīrtitaṁ mayā ।
nirjitastena devendraḥ prāṇino 'nye tu kiṁ punaḥ ।
7.30.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५२ ॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा । ७.३०.५२ ॥ ॥

āścaryamiti rāmaśca lakṣmaṇaścābravīttadā ।
agastyavacanaṁ śrutvā vānarā rākṣasāstadā ।
7.30.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५३ ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् । ७.३०.५३ ॥ ॥

vibhīṣaṇastu rāmasya pārśvastho vākyamabravīt ।
āścaryaṁ smārito 'smyadya yattaddṛṣṭaṁ purātanam ।
7.30.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५४ ॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं मे । ७.३०.५४ ॥ ॥

agastyaṁ tvabravīdrāmaḥ satyametacchrutaṁ ca me ।
7.30.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३० · ५५ ॥
एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः । ७.३०.५५ ॥

evaṁ rāma samudbhūto rāvaṇo lokakaṇṭakaḥ ।
saputro yena saṅgrāme jitaḥ śakraḥ sureśvaraḥ ।
7.30.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.