वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २६ · ६१ श्लोकाःSarga 26 · 61 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २६ · १ ॥
तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् । ७.२६.१ ॥ ॥

sa tu tatra daśagrīvaḥ saha sainyena vīryavān ।
astaṁ prāpte dinakare nivāsaṁ samarocayat ।
7.26.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २ ॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् । ७.२६.२ ॥ ॥

udite vimale candre tulyaparvatavarcasi ।
prasuptaṁ sumahatsainyaṁ nānāpraharaṇāyudham ।
7.26.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३ ॥
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् । ७.२६.३ ॥ ॥

rāvaṇastu mahāvīryo niṣaṇṇaḥ śailamūrdhani ।
sa dadarśa guṇāṁstatra candrapādapaśobhitān ।
7.26.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४ ॥
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि । ७.२६.४ ॥ ॥

karṇikāravanairdīptaiḥ kadambagahanaistathā ।
padminībhiśca phullābhirmandākinyā jalairapi ।
7.26.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५ ॥
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा । ७.२६.५ ॥ ॥

campakāśokapunnāgamandāratarubhistathā ।
cūtapāṭalalodhraiśca priyaṅgvarjunaketakaiḥ ।
tagarairnārikailaiśca priyālapanasaistathā ।
7.26.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ६ ॥
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः । ७.२६.६ ॥ ॥

āragvadhaistamālaiśca priyālavakulairapi ।
etairanyaiśca tarubhirudbhāsitavanāntare ।
kinnarā madanenārtā raktā madhurakaṇṭhinaḥ ।
7.26.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ७ ॥
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् । ७.२६.७ ॥ ॥

samaṁ samprajaguryatra manastuṣṭivivardhanam ।
7.26.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ८ ॥
भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै । ७.२६.८ ॥ ॥

bhirudbhāsitavanāntare ।
vidyādharā madakṣībā madaraktāntalocanāḥ ।
yoṣidbhiḥ saha saṅkrāntāścikrīḍurjahṛṣuśca vai ।
7.26.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ९ ॥
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये । ७.२६.९ ॥ ॥

ghaṇṭānāmiva sannādaḥ śuśruve madhurasvaraḥ ।
apsarogaṇasaṅghānāṁ gāyatāṁ dhanadālaye ।
7.26.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १० ॥
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः । ७.२६.१० ॥ ॥

puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ ।
śailaṁ taṁ vāsayantīva madhumādhavagandhinaḥ ।
7.26.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ११ ॥
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः । ७.२६.११ ॥ ॥

madhupuṣparajaḥpṛktaṁ gandhamādāya puṣkalam ।
pravavau vardhayankāmaṁ rāvaṇasya sukho 'nilaḥ ।
7.26.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १२ ॥
गेयात्पुष्पसमृद्ध्या शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां चन्द्रस्योदयनेन च । ७.२६.१२ ॥ ॥

geyātpuṣpasamṛddhyā ca śaityādvāyorgirerguṇāt ।
pravṛttāyāṁ rajanyāṁ ca candrasyodayanena ca ।
7.26.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १३ ॥
रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत । ७.२६.१३ ॥ ॥

rāvaṇastu mahāvīryaḥ kāmasya vaśamāgataḥ ।
viniḥśvasya viniḥśvasya śaśinaṁ samavaikṣata ।
7.26.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १४ ॥
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता । ७.२६.१४ ॥ ॥

etasminnantare tatra divyābharaṇabhūṣitā ।
sarvāpsarovarā rambhā divyapuṣpavibhūṣitā ।
7.26.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १५ ॥
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना । ७.२६.१५ ॥ ॥

divyacandanaliptāṅgī mandārakṛtamūrdhajā ।
divyotsavakṛtārambhā pūrṇacandranibhānanā ।
7.26.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १६ ॥
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् । ७.२६.१६ ॥ ॥

cakṣurmanoharaṁ pīnaṁ mekhalādāmabhūṣitam ।
samudvahantī jaghanaṁ ratiprābhṛtamuttamam ।
7.26.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १७ ॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः । ७.२६.१७ ॥ ॥

kṛtairviśeṣakairārdraiḥ ṣaḍartukusumodbhavaiḥ ।
7.26.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १८ ॥
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता । ७.२६.१८ ॥ ॥

babhāvanyatameva śrīkāntidyutimatihriyām ।
nīlaṁ satoyameghābhaṁ vastraṁ samavakuṇṭhitā ।
7.26.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · १९ ॥
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता । ७.२६.१९ ॥ ॥

yasyā vaktraṁ śaśinibhaṁ bhruvau cāpanibhe śubhe ।
ūrū karikarākārau karau pallavakomalau ।
sainyamadhyena gacchantī rāvaṇenopavīkṣitā ।
7.26.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २० ॥
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत । ७.२६.२० ॥ ॥

tāṁ samutthāya gacchantīṁ kāmabāṇavaśaṁ gataḥ ।
kare gṛhītvā lajjantīṁ smayamāno 'bhyabhāṣata ।
7.26.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २१ ॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते । ७.२६.२१ ॥ ॥

kva gacchasi varārohe kāṁ siddhiṁ bhajase svayam ।
kasyābhyudayakālo 'yaṁ yastvāṁ samupabhokṣyate ।
7.26.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २२ ॥
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति । ७.२६.२२ ॥ ॥

tvadānanarasasyādya padmotpalasugandhinaḥ ।
sudhāmṛtarasasyeva ko 'dya tṛptiṁ gamiṣyati ।
7.26.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २३ ॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ । ७.२६.२३ ॥ ॥

svarṇakumbhanibhau pīnau śubhau bhīru nirantarau ।
kasyorasthalasaṁsparśaṁ dāsyataste kucāvimau ।
7.26.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २४ ॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् । ७.२६.२४ ॥ ॥

suvarṇacakrapratimaṁ svarṇadāmacitaṁ pṛthu ।
adhyārohati kaste 'dya jaghanaṁ svargarūpiṇam ।
7.26.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २५ ॥
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ । मामतीत्य हि यं त्वं यासि भीरु शोभनम् । ७.२६.२५ ॥ ॥

madviśiṣṭaḥ pumānko 'dya śakro viṣṇurathāśvinau ।
māmatītya hi yaṁ ca tvaṁ yāsi bhīru na śobhanam ।
7.26.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २६ ॥
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् । ७.२६.२६ ॥ ॥

viśrama tvaṁ pṛthuśroṇi śilātalamidaṁ śubham ।
7.26.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २७ ॥
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते । ७.२६.२७ ॥ ॥

trailokye yaḥ prabhuścaiva madanyo naiva vidyate ।
7.26.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २८ ॥
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः । भर्तुर्भर्ता विधाता त्रैलोक्यस्य भजस्व माम् । ७.२६.२८ ॥ ॥

tadevaṁ prāñjaliḥ prahvo yācate tvāṁ daśānanaḥ ।
bharturbhartā vidhātā ca trailokyasya bhajasva mām ।
7.26.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · २९ ॥
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः । प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः । ७.२६.२९ ॥ ॥

evamuktā 'bravīdrambhā vepamānā kṛtāñjaliḥ ।
prasīda nārhase vaktumīdṛśaṁ tvaṁ hi me guruḥ ।
7.26.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३० ॥
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते । ७.२६.३० ॥ ॥

anyebhyo hi tvayā rakṣyā prāpnuyāṁ dharṣaṇaṁ yadi ।
taddharmataḥ snuṣā te 'haṁ tattvameva bravīmi te ।
7.26.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३१ ॥
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा । ७.२६.३१ ॥ ॥

athābravīddaśagrīvaścaraṇādhomukhīṁ sthitām ।
romaharṣamanuprāptāṁ dṛṣṭamātreṇa tāṁ tadā ।
7.26.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३२ ॥
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् । ७.२६.३२ ॥ ॥

sutasya yadi me bhāryā tatastvaṁ hi snuṣā bhaveḥ ।
bāḍhamityeva sā rambhā prāha rāvaṇamuttaram ।
7.26.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३३ ॥
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् । ७.२६.३३ ॥ ॥

dharmataste sutasyāhaṁ bhāryā rākṣasapuṅgava ।
putraḥ priyataraḥ prāṇairbhrāturvaiśravaṇasya te ।
vikhyātastriṣu lokeṣu nalakūbara ityayam ।
7.26.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३४ ॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या वसुधासमः । ७.२६.३४ ॥ ॥

dharmato yo bhavedvipraḥ kṣatriyo vīryato bhavet ।
krodhādyaśca bhavedagniḥ kṣāntyā ca vasudhāsamaḥ ।
7.26.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३५ ॥
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् । ७.२६.३५ ॥ ॥

tasyāsmi kṛtasaṅketā lokapālasutasya vai ।
tamuddiśya tu me sarvaṁ vibhūṣaṇamidaṁ kṛtam ।
7.26.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३६ ॥
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति । ७.२६.३६ ॥ ॥

tathā tasya hi nānyasya bhāvo māṁ prati tiṣṭhati ।
7.26.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३७ ॥
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम । ७.२६.३७ ॥ ॥

tena satyena māṁ rājanmoktumarhasyarindama ।
7.26.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३८ ॥
हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् । ७.२६.३८ ॥ ॥

sa hi tiṣṭhati dharmātmā māṁ pratīkṣya samutsukaḥ ।
tatra vighnaṁ sutasyeha kartuṁ nārhasi muñca mām ।
7.26.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ३९ ॥
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते । ७.२६.३९ ॥ ॥

sadbhirācaritaṁ mārgaṁ gaccha rākṣasupuṅgava ।
mānanīyo mama tvaṁ hi pālanīyā tathā 'smi te ।
7.26.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४० ॥
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता । ७.२६.४० ॥ ॥

evamukto daśagrīvaḥ pratyuvāca vinītavat ।
snuṣā 'smi yadavocastvamekapatnīṣvayaṁ kramaḥ ।
devalokasthitiriyaṁ surāṇāṁ śāśvatī matā ।
7.26.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४१ ॥
पतिरप्सरसां नास्ति चैकस्त्रीपरिग्रहः । ७.२६.४१ ॥ ॥

patirapsarasāṁ nāsti na caikastrīparigrahaḥ ।
7.26.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४२ ॥
स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा तां रक्षो निवेश्य शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे । ७.२६.४२ ॥ ॥

smi yadavocastvamekapatnīṣvayaṁ kramaḥ ।
evamuktvā sa tāṁ rakṣo niveśya ca śilātale ।
kāmabhogābhisaṁsakto maithunāyopacakrame ।
7.26.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४३ ॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता । ७.२६.४३ ॥ ॥

sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā ।
gajendrākrīḍamathitā nadīvākulatāṁ gatā ।
7.26.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४४ ॥
लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी । ७.२६.४४ ॥ ॥

lulitākulakeśāntā karavepitapallavā ।
pavanenāvadhūteva latā kusumaśālinī ।
7.26.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४५ ॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह । ७.२६.४५ ॥ ॥

sā vepamānā lajjantī bhītā karakṛtāñjaliḥ ।
nalakūbaramāsādya pādayornipapāta ha ।
7.26.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४६ ॥
तदवस्थां तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे । ७.२६.४६ ॥ ॥

tadavasthāṁ ca tāṁ dṛṣṭvā mahātmā nalakūbaraḥ ।
abravītkimidaṁ bhadre pādayoḥ patitā 'si me ।
7.26.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४७ ॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे । ७.२६.४७ ॥ ॥

sā vai niḥśvasamānā tu vepamānā kṛtāñjaliḥ ।
tasmai sarvaṁ yathātattvamākhyātumupacakrame ।
7.26.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४८ ॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता । ७.२६.४८ ॥ ॥

eṣa deva daśagrīvaḥ prāpto gantuṁ triviṣṭapam ।
tena sainyasahāyena niśeyaṁ pariṇāmitā ।
7.26.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ४९ ॥
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा । ७.२६.४९ ॥ ॥

āyantī tena dṛṣṭā 'smi tvatsakāśamarindama ।
gṛhītā tena pṛṣṭā 'smi kasya tvamiti rakṣasā ।
7.26.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५० ॥
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम । ७.२६.५० ॥ ॥

mayā tu sarvaṁ yatsatyaṁ tasmai sarvaṁ niveditam ।
kāmamohābhibhūtātmā nāśrauṣīttadvaco mama ।
7.26.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५१ ॥
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता । ७.२६.५१ ॥ ॥

yācyamāno mayā deva snuṣā te 'hamiti prabho ।
tatsarvaṁ pṛṣṭhataḥ kṛtvā balāttenāsmi dharṣitā ।
7.26.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५२ ॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च । ७.२६.५२ ॥ ॥

evaṁ tvamaparādhaṁ me kṣantumarhasi suvrata ।
na hi tulyaṁ balaṁ saumya striyāśca puruṣasya ca ।
7.26.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५३ ॥
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह । ७.२६.५३ ॥ ॥

etachutvā tu saṅkruddhastadā vaiśravaṇātmajaḥ ।
dharṣaṇāṁ tāṁ parāṁ śrutvā dhyānaṁ sampraviveśa ha ।
7.26.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५४ ॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना । ७.२६.५४ ॥ ॥

tasya tatkarma vijñāya tadā vaiśravaṇātmajaḥ ।
muhūrtātkrodhatāmrākṣastoyaṁ jagrāha pāṇinā ।
7.26.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५५ ॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् । ७.२६.५५ ॥ ॥

gṛhītvā salilaṁ sarvamupaspṛśya yathāvidhi ।
utsasarja yathā śāpaṁ rākṣasendrāya dāruṇam ।
7.26.55 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५६ ॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति । ७.२६.५६ ॥ ॥

akāmā tena yasmāttvaṁ balādbhadre pradharṣitā ।
tasmātsa yuvatīmanyāṁ nākāmāmupayāsyati ।
7.26.56 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५७ ॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा । ७.२६.५७ ॥ ॥

yadā hyakāmāṁ kāmārto dharṣayiṣyati yoṣitam ।
mūrdhā tu saptadhā tasya śakalībhavitā tadā ।
7.26.57 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५८ ॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः । ७.२६.५८ ॥ ॥

tasminnudāhṛte śāpe jvalitāgnisamaprabhe ।
devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā ।
pitāmahamukhāścaiva sarve devāḥ praharṣitāḥ ।
7.26.58 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ५९ ॥
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् । ७.२६.५९ ॥ ॥

jñātvā lokagatiṁ sarvāṁ tasya mṛtyuṁ ca rakṣasaḥ ।
ṛṣayaḥ pitaraścaiva prītimāpuranuttamām ।
7.26.59 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ६० ॥
श्रुत्वा तु दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् । ७.२६.६० ॥ ॥

śrutvā tu sa daśagrīvastaṁ śāpaṁ romaharṣaṇam ।
nārīṣu maithune bhāvaṁ nākāmāsvabhyarocayat ।
7.26.60 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २६ · ६१ ॥
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् । ७.२६.६१ ॥

tena nītāḥ striyaḥ prītimāpuḥ sarvāḥ pativratāḥ ।
nalakūbaranirmuktaṁ śāpaṁ śrutvā manaḥpriyam ।
7.26.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.