वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २५ · ५२ श्लोकाःSarga 25 · 52 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २५ · १ ॥
तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् । ७.२५.१ ॥ ॥

sa tu dattvā daśagrīvo vanaṁ ghoraṁ svarasya tat ।
bhaginīṁ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat ।
7.25.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २ ॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः । ७.२५.२ ॥ ॥

tato nikumbhilā nāma laṅkopavanamuttamam ।
tadrākṣasendro balavānpraviveśa sahānugaḥ ।
7.25.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३ ॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव । ७.२५.३ ॥ ॥

tato yūpaśatākīrṇaṁ saumyacaityopaśobhitam ।
dadarśa viṣṭhitaṁ yajñaṁ śriyā samprajvalanniva ।
7.25.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४ ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् । ७.२५.४ ॥ ॥

tataḥ kṛṣṇājinadharaṁ kamaṇḍaluśikhādhvajam ।
dadarśa svasutaṁ tatra meghanādaṁ bhayāvaham ।
7.25.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ५ ॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः । ७.२५.५ ॥ ॥

taṁ samāsādya laṅkeśaḥ pariṣvajvātha bāhubhiḥ ।
abravītkimidaṁ vatsa vartase brūhi tattvataḥ ।
7.25.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ६ ॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः । ७.२५.६ ॥ ॥

uśanā tvabravīttatra yajñasampatsamṛddhaye ।
rāvaṇaṁ rākṣasaśreṣṭhaṁ dvijaśreṣṭho mahātapāḥ ।
7.25.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ७ ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः । ७.२५.७ ॥ ॥

ahamākhyāmi te rājañchrūyatāṁ sarvameva tat ।
yajñāste sapta putreṇa prāptāssubahuvistarāḥ ।
7.25.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ८ ॥
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा । ७.२५.८ ॥ ॥

agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ ।
rājasūyastathā yajño gomedho vaiṣvavastathā ।
7.25.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ९ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह । ७.२५.९ ॥ ॥

māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe ।
varāṁste labdhavānputraḥ sākṣātpaśupateriha ।
7.25.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १० ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां तामसीं नाम यया सम्पद्यते तमः । ७.२५.१० ॥ ॥

kāmagaṁ syandanaṁ divyamantarikṣacaraṁ dhruvam ।
māyāṁ ca tāmasīṁ nāma yayā sampadyate tamaḥ ।
7.25.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ११ ॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः । ७.२५.११ ॥ ॥

etayā kila saṅgrāme māyayā rākṣaseśvara ।
prayuktayā gatiḥ śakyā nahi jñātuṁ surāsuraiḥ ।
7.25.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १२ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं बलवद्राजञ्छत्रुविध्वंसनं रणे । ७.२५.१२ ॥ ॥

akṣayāviṣudhī bāṇaiścāpaṁ cāpi sudurjayam ।
astraṁ ca balavadrājañchatruvidhvaṁsanaṁ raṇe ।
7.25.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १३ ॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ त्वां दिदृक्षुस्स्थितो ह्यहम् । ७.२५.१३ ॥ ॥

etānsarvānvarāṁllabdhvā putraste 'yaṁ daśānana ।
adya yajñasamāptau ca tvāṁ didṛkṣussthito hyaham ।
7.25.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १४ ॥
ततो ऽब्रवीदृशग्रीवो शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः । ७.२५.१४ ॥ ॥

tato 'bravīdṛśagrīvo na śobhanamidaṁ kṛtam ।
pūjitāḥ śatravo yasmāddravyairindrapurogamāḥ ।
7.25.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १५ ॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति । ७.२५.१५ ॥ ॥

ehīdānīṁ kṛtaṁ viddhi sukṛtaṁ tanna saṁśayaḥ ।
āgaccha saumya gacchāmaḥ svameva bhavanaṁ prati ।
7.25.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १६ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः । ७.२५.१६ ॥ ॥

tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ ।
striyo 'vatārayāmāsa sarvāstā bāṣpagadgadāḥ ।
7.25.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १७ ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् । ७.२५.१७ ॥ ॥

lakṣiṇyo ratnabhūtāśca devadānavarakṣasām ।
tasya tāsu matiṁ jñātvā dharmatmā vākyamabravīt ।
7.25.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १८ ॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे । ७.२५.१८ ॥ ॥

īdṛśaistvaṁ samācārairyaśorthakulanāśanaiḥ ।
dharṣaṇaṁ jñātināṁ jñātvā svamatena viceṣṭase ।
7.25.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · १९ ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता । ७.२५.१९ ॥ ॥

jñātīṁstāndharṣayitvemāstvayā ' 'nītā varāṅganāḥ ।
tvāmatikramya madhunā rājankumbhīnasī hṛtā ।
7.25.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २० ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽख्यातो मधुरित्येव नामतः । ७.२५.२० ॥ ॥

rāvaṇastvabravīdvākyaṁ nāvagacchāmi kiṁ tvidam ।
ko 'yaṁ yastu tvayā ' 'khyāto madhurityeva nāmataḥ ।
7.25.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २१ ॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् । ७.२५.२१ ॥ ॥

vibhīṣaṇastu saṅkruddho bhrātaraṁ vākyamabravīt ।
śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam ।
7.25.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २२ ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः । ७.२५.२२ ॥ ॥

mātāmahasya yo bhrātā jyeṣṭho bhrātā sumālinaḥ ।
mālyavāniti vikhyāto vṛddhaḥ prājño niśācaraḥ ।
7.25.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २३ ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् । ७.२५.२३ ॥ ॥

pitā jyeṣṭho jananyā no hyasmākaṁ cāryako 'bhavat ।
tasya kumbhīnasī nāma duhiturduhitā 'bhavat ।
7.25.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २४ ॥
मातृष्वसुरथास्माकं सा कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा । ७.२५.२४ ॥ ॥

mātṛṣvasurathāsmākaṁ sā ca kanyā 'nalodbhavā ।
bhavatyasmākamevaiṣā bhrātṛṇāṁ dharmataḥ svasā ।
7.25.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २५ ॥
सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते । ७.२५.२५ ॥ ॥

sā hṛtā, madhunā rājanrākṣasena balīyasā ।
yajñapravṛtte putre tu mayi cāntarjaloṣite ।
7.25.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २६ ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् । ७.२५.२६ ॥ ॥

kumbhakarṇe mahārāja nidrāmanubhavatyatha ।
nihatya rākṣasaśreṣṭhānamātyāniha sammatān ।
7.25.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २७ ॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो सः । ७.२५.२७ ॥ ॥

dharṣayitvā hṛtā sā tu suptāpyantaḥpure tava ।
śrutvā 'pi tanmahārāja kṣāntameva hato na saḥ ।
7.25.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २८ ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते । ७.२५.२८ ॥ ॥

yasmādavaśyaṁ dātavyā kanyā bhartre hi bhrātṛbhiḥ ।
tadetatkarmaṇo hyasya phalaṁ pāpasya durmate ।
7.25.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · २९ ॥
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः । ७.२५.२९ ॥ ॥

asminnevābhisamprāptaṁ loke viditamastu te ।
vibhīṣaṇavacaḥ śrutvā rākṣasendraḥ sa rāvaṇaḥ ।
daurātmyenātmanoddhūtastaptāmbha iva sāgaraḥ ।
7.25.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३० ॥
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः । ७.२५.३० ॥ ॥

tato 'bravīdṛśagrīvaḥ kruddhaḥ saṁraktalocanaḥ ।
kalpyatāṁ me rathaḥ śīghraṁ śūrāḥ sajjībhavantu naḥ ।
7.25.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३१ ॥
भ्राता मे कुम्भकर्णश्च ये मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः । ७.२५.३१ ॥ ॥

bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ ।
vāhanānyadhirohantu nānāpraharaṇāyudhāḥ ।
7.25.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३२ ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः । ७.२५.३२ ॥ ॥

adya taṁ samare hatvā madhuṁ rāvaṇanirbhayam ।
suralokaṁ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ ।
7.25.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३३ ॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् । ७.२५.३३ ॥ ॥

akṣauhiṇīsahasrāṇi catvāryagryāṇi rakṣasām ।
nānāpraharaṇānyāśu niryayuryuddhakāṅkṣiṇām ।
7.25.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३४ ॥
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः । ७.२५.३४ ॥ ॥

indrajittvagrataḥ (agrataḥ) sainyātsainikānparigṛhya ca ।
jagāma rāvaṇo madhye kumbhakarṇaśca pṛṣṭhataḥ ।
7.25.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३५ ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति । ७.२५.३५ ॥ ॥

vibhīṣaṇaśca dharmātmā laṅkāyāṁ dharmāmācarat ।
śoṣāḥ sarve mahābhāgā yayurmadhupuraṁ prati ।
7.25.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३६ ॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽकाशं निरन्तरम् । ७.२५.३६ ॥ ॥

kharairuṣṭrairhayairdīptaiḥ śiṁśumārairmahoragaiḥ ।
rākṣasāḥ prayayuḥ sarve kṛtvā ' 'kāśaṁ nirantaram ।
7.25.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३७ ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः । ७.२५.३७ ॥ ॥

daityāśca śataśastatra kṛtavairāśca daivataiḥ ।
rāvaṇaṁ prekṣya gacchantamanvagacchanhi pṛṣṭhataḥ ।
7.25.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३८ ॥
तु गत्वा मधुपुरं प्रविश्य दशाननः । ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् । ७.२५.३८ ॥ ॥

sa tu gatvā madhupuraṁ praviśya ca daśānanaḥ ।
na dadarśa madhuṁ tatra bhaginīṁ tatra dṛṣṭavān ।
7.25.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ३९ ॥
सा प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता । ७.२५.३९ ॥ ॥

sā ca prahvāñjalirbhūtvā śirasā caraṇau gatā ।
7.25.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४० ॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास भेतव्यमिति ब्रुवन् । ७.२५.४० ॥ ॥

tasya rākṣasarājasya trastā kumbhīnasī tadā ।
tāṁ samutthāpayāmāsa na bhetavyamiti bruvan ।
7.25.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४१ ॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं ममेहाद्य हन्तुर्महसि मानद । ७.२५.४१ ॥ ॥

rāvaṇo rākṣasaśreṣṭhaḥ kiṁ cāpi karavāṇi te ।
sābravīdyadi me rājanprasannastvaṁ mahābhuja ।
bhartāraṁ na mamehādya hanturmahasi mānada ।
7.25.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४२ ॥
हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् । ७.२५.४२ ॥ ॥

na hīdṛśaṁ bhayaṁ kiñcitkulastrīṇāmihocyate ।
bhayānāmapi sarveṣāṁ vaidhavyaṁ vyasanaṁ mahat ।
7.25.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४३ ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज भेतव्यमिति स्वयम् । ७.२५.४३ ॥ ॥

satyavāgbhava rājendra māmavekṣasva yācatīm ।
tvayāpyuktaṁ mahārāja na bhetavyamiti svayam ।
7.25.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४४ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् । ७.२५.४४ ॥ ॥

rāvaṇastvabravīddhṛṣṭaḥ svasāraṁ tatra saṁsthitām ।
kva cāsau tava bhartā vai mama śīghraṁ nivedyatām ।
7.25.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४५ ॥
सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् । ७.२५.४५ ॥ ॥

saha tena gamiṣyāmi suralokaṁ jayāvahe ।
tava kāruṇyasauhārdānnivṛtto 'smi madhorvadhāt ।
7.25.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४६ ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः । ७.२५.४६ ॥ ॥

ityuktā sā samutthāpya prasuptaṁ taṁ niśācaram ।
abravītsamprahṛṣṭeva rākṣasī sā patiṁ vacaḥ ।
7.25.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४७ ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च । ७.२५.४७ ॥ ॥

eṣa prāpto daśagrīvo mama bhrātā mahābalaḥ ।
suralokajayākāṅkṣī sāhāyye tvāṁ vṛṇoti ca ।
7.25.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४८ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् । ७.२५.४८ ॥ ॥

tadasya tvaṁ sahāyārthaṁ sabandhurgaccha rākṣasa ।
snigdhasya bhajamānasya yuktamarthāya kalpitum ।
7.25.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ४९ ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः । ७.२५.४९ ॥ ॥

tasyāstadvacanaṁ śrutvā tathetyāha madhurvacaḥ ।
7.25.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ५० ॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् । ७.२५.५० ॥ ॥

dadarśa rākṣasaśreṣṭhaṁ yathānyāyamupetya saḥ ।
pūjayamāsa dharmeṇa rāvaṇaṁ rākṣasādhipam ।
7.25.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ५१ ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे । ७.२५.५१ ॥ ॥

prāpya pūjāṁ daśagrīvo madhuveśmāni vīryavān ।
tatra caikāṁ niśāmuṣya gamanāyopacakrame ।
7.25.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २५ · ५२ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् । ७.२५.५२ ॥

tataḥ kailāsamāsādya śailaṁ vaiśravaṇālayam ।
rākṣasendro mahendrābhaḥ senāmupaniveśayat ।
7.25.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.