वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २४ · ४२ श्लोकाःSarga 24 · 42 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २४ · १ ॥
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः । ७.२४.१ ॥ ॥

nivartamānaḥ saṁhṛṣṭo rāvaṇassudurātmavān ।
jahre pathi narendrarṣidevagandharvakanyakāḥ ।
7.24.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २ ॥
दर्शनीयां हि रक्षः कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह । ७.२४.२ ॥ ॥

darśanīyāṁ hi rakṣaḥ sa kanyāṁ strīṁ vāpi paśyati ।
hatvā bandhujanaṁ tasyā vimāne tāṁ rurodha ha ।
7.24.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३ ॥
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् । ७.२४.३ ॥ ॥

evaṁ pannagakanyāśca rākṣasāsuramānuṣīḥ ।
yakṣadānavakanyāśca vimāne so 'dhyaropayat ।
7.24.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ४ ॥
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् । ७.२४.४ ॥ ॥

tāśca sarvāḥ samaṁ duḥkhānmumucurbāṣpajaṁ jalam ।
tulyamagnyarciṣāṁ tatra śokāgnibhayasambhavam ।
7.24.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ५ ॥
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः । ७.२४.५ ॥ ॥

tābhiḥ sarvānavadyābhirnadībhiriva sāgaraḥ ।
āpūritaṁ vimānaṁ tadbhayaśokāśivāśrubhiḥ ।
7.24.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ६ ॥
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् । ७.२४.६ ॥ ॥

nāgagandharvakanyāśca maharṣitanayāśca yāḥ ।
daityadānavakanyāśca vimāne śataśo 'rudan ।
7.24.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ७ ॥
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः । ७.२४.७ ॥ ॥

dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ ।
pīnastanyastathā vajravedimadhyasamaprabhāḥ ।
7.24.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ८ ॥
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः । ७.२४.८ ॥ ॥

rathakūbarasaṅkāśaiḥ śroṇideśairmanoharāḥ ।
striyaḥ surāṅganāprakhyā niṣṭaptakanakaprabhāḥ ।
7.24.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ९ ॥
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् । ७.२४.९ ॥ ॥

śokaduḥkhabhayatrastā vihvalāśca sumadhyamāḥ ।
tāsāṁ niśvāsavātena sarvataḥ sampradīpitam ।
7.24.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १० ॥
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः । ७.२४.१० ॥ ॥

agnihotramivābhāti sanniruddhāgnipuṣpakam ।
daśagrīvavaśaṁ prāptāstāstu śokākulāḥ striyaḥ ।
7.24.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ११ ॥
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति । ७.२४.११ ॥ ॥

dīnavakrekṣaṇāḥ śyāmā mṛgyaḥ siṁhavaśā iva ।
kāciccintayatī tatra kiṁ nu māṁ bhakṣayiṣyati ।
7.24.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १२ ॥
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः । ७.२४.१२ ॥ ॥

kāciddadhyau suduḥkhārtā api māṁ mārayedayam ।
iti mātṛpita'nsmṛtvā bharta'nbhrāta'ṁstathaiva ca ।
duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ ।
7.24.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १३ ॥
कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे । ७.२४.१३ । ॥ ॥

kathaṁ nu khalu me putro bhaviṣyati mayā vinā ।
kathaṁ mātā kathaṁ bhrātā nimagnāḥ śokasāgare ।
7.24.13 ।
॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १४ ॥
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् । ७.२४.१४ ॥ ॥

hā kathaṁ nu kariṣyāmi bhartustasmādahaṁ vinā ।
mṛtyo prasādayāmi tvāṁ naya māṁ duḥkhabhāginīm ।
7.24.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १५ ॥
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् । ७.२४.१५ ॥ ॥

kinnu tadduṣkṛtaṁ karma purā dehāntare kṛtam ।
7.24.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १६ ॥
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः । ७.२४.१६ ॥ ॥

evaṁ sma duḥkhitāḥ sarvāḥ patitāḥ śokasāgare ।
na khalvidānīṁ paśyāmo duḥkhasyāsyāntamātmanaḥ ।
7.24.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १७ ॥
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः । ७.२४.१७ ॥ ॥

aho dhiṅmānuṣaṁ lokaṁ nāsti khalvadhamaḥ paraḥ ।
yaddurbalā balavatā bhartāro rāvaṇena naḥ ।
7.24.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १८ ॥
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते । ७.२४.१८ ॥ ॥

sūryeṇodayatā kāle nakṣatrāṇīva nāśitāḥ ।
aho subalavadrakṣo vadhopāyeṣu yujyate ।
7.24.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · १९ ॥
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः । ७.२४.१९ ॥ ॥

aho durvṛttamāsthāya nātmānaṁ vaijugupsate ।
sarvathā sadṛśastāvadvikramo 'sya durātmanaḥ ।
7.24.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २० ॥
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः । ७.२४.२० ॥ ॥

idaṁ tvasadṛśaṁ karma paradārābhimarśanam ।
yasmādeṣa parakyāsu ramate rākṣasādhamaḥ ।
7.24.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २१ ॥
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते । ७.२४.२१ ॥ ॥

tasmādvai strīkṛtenaiva prāpsyate durmatirvadham ।
satībhirvaranārībhirevaṁ vākye 'bhyudīrite ।
7.24.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २२ ॥
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः तु समं हतौजा इव निष्प्रभः । ७.२४.२२ ॥ ॥

nedurdundubhayaḥ khasthāḥ puṣpavṛṣṭiḥ papāta ca ।
śaptaḥ strībhiḥ sa tu samaṁ hataujā iva niṣprabhaḥ ।
7.24.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २३ ॥
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः । ७.२४.२३ ॥ ॥

pativratābhiḥ sādhvībhirbabhūva vimanā iva ।
evaṁ vilapitaṁ tāsāṁ śṛṇvanrākṣasapuṅgavaḥ ।
praviveśa purīṁ laṅkāṁ pūjyamāno niśācaraiḥ ।
7.24.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २४ ॥
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा । ७.२४.२४ ॥ ॥

etasminnantare ghorā rākṣasī kāmarūpiṇī ।
sahasā patitā bhūmau bhaginī rāvaṇasya sā ।
7.24.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २५ ॥
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् । ७.२४.२५ ॥ ॥

tāṁ svasāraṁ samutthāpya rāvaṇaḥ parisāntvayan ।
abravītkimidaṁ bhadre vaktukāmā 'si me drutam ।
7.24.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २६ ॥
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् । ७.२४.२६ ॥ ॥

sā bāṣpapariruddhākṣī raktākṣī vākyamabravīt ।
kṛtā 'smi vidhavā rājaṁstvayā balavatā balāt ।
7.24.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २७ ॥
एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश । ७.२४.२७ ॥ ॥

ete rājaṁstvayā vīrā daityā vinihatā raṇe ।
kālakeyā iti khyātāḥ sahasrāṇi caturdaśa ।
7.24.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २८ ॥
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः । ७.२४.२८ ॥ ॥

prāṇebhyo 'pi garīyānme tatra bhartā mahābalaḥ ।
7.24.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · २९ ॥
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना । ७.२४.२९ ॥ ॥

so 'pi tvayā hatastāta ripuṇā bhrātṛgṛdhnunā ।
tvayā 'smi nihatā rājansvayameva hi bandhunā ।
7.24.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३० ॥
राजन्वैधव्यशब्दं भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । त्वया निहतो युद्धे स्वयमेव लज्जसे । ७.२४.३० ॥ ॥

rājanvaidhavyaśabdaṁ ca bhokṣyāmi tvatkṛte hyaham ।
nanu nāma tvayā rakṣyo jāmātā samareṣvapi ।
sa tvayā nihato yuddhe svayameva na lajjase ।
7.24.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३१ ॥
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः । ७.२४.३१ ॥ ॥

evamukto daśagrīvo bhaginyā krośamānayā ।
abravītsāntvayitvā tāṁ sāmapūrvamidaṁ vacaḥ ।
7.24.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३२ ॥
अलं वत्से रुदित्वा ते भेतव्यं सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः । ७.२४.३२ ॥ ॥

alaṁ vatse ruditvā te na bhetavyaṁ ca sarvaśaḥ ।
dānamānaprasādaistvāṁ toṣayiṣyāmi yatnataḥ ।
7.24.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३३ ॥
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे । ७.२४.३३ ॥ ॥

yuddhapramatto vyākṣipto jayākāṅkṣī kṣipañcharān ।
nāvagacchāmi yuddheṣu svānparānvāpyahaṁ śubhe ।
7.24.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३४ ॥
जामातरं जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः । ७.२४.३४ ॥ ॥

jāmātaraṁ na jāne sma praharanyuddhadurmadaḥ ।
tenāsau nihataḥ saṅkhye mayā bhartā tava svasaḥ ।
7.24.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३५ ॥
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः । ७.२४.३५ ॥ ॥

asminkāle tu yatprāptaṁ tatkariṣyāmi te hitam ।
bhrāturaiśvaryayuktasya kharasya vasa pārśvataḥ ।
7.24.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३६ ॥
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने राक्षसानां महाबलः । ७.२४.३६ ॥ ॥

caturdaśānāṁ bhrātā te sahasrāṇāṁ bhaviṣyati ।
prabhuḥ prayāṇe dāne ca rākṣasānāṁ mahābalaḥ ।
7.24.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३७ ॥
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः । ७.२४.३७ ॥ ॥

tatra mātṛṣvaseyaste bhrātā 'yaṁ vai kharaḥ prabhuḥ ।
bhaviṣyati tavādeśaṁ sadā kurvanniśācaraḥ ।
7.24.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३८ ॥
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः । ७.२४.३८ ॥ ॥

śīghraṁ gacchatvayaṁ vīro daṇḍakānparirakṣitum ।
dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ ।
7.24.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ३९ ॥
तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति । ७.२४.३९ ॥ ॥

tatra te vacanaṁ śūraḥ kariṣyati sadā kharaḥ ।
rakṣasāṁ kāmarūpāṇāṁ prabhureṣa bhaviṣyati ।
7.24.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ४० ॥
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् । ७.२४.४० ॥ ॥

evamuktvā daśagrīvaḥ sainyamasyādideśa ha ।
caturdaśa sahasrāṇi rakṣasāṁ vīryaśālinām ।
7.24.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ४१ ॥
तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः । ७.२४.४१ ॥ ॥

sa taiḥ parivṛtassarvai rākṣasairghoradarśanaiḥ ।
āgacchata kharaḥ śīghraṁ daṇḍakānakutobhayaḥ ।
7.24.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २४ · ४२ ॥
तत्र कारयामास राज्यं निहतकण्टकम् । सा शूर्पणखा तत्र न्यवसद्दण्डकावने । ७.२४.४२ ॥

sa tatra kārayāmāsa rājyaṁ nihatakaṇṭakam ।
sā ca śūrpaṇakhā tatra nyavasaddaṇḍakāvane ।
7.24.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.