वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २३ · ५४ श्लोकाःSarga 23 · 54 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २३ · १ ॥
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् । रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह । ७.२३.१ ॥ ॥

tato jitvā daśagrīvo yamaṁ tridaśapuṅgavam ।
rāvaṇastu raṇaślāghī svasahāyāndadarśa ha ।
7.23.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २ ॥
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् । रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् । ७.२३.२ ॥ ॥

tato rudhirasiktāṅgaṁ prahārairjarjarīkṛtam ।
rāvaṇaṁ rākṣasā dṛṣṭvā hyaṣṭavat samupāgaman ।
7.23.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३ ॥
जयेन वर्धयित्वा मारीचप्रमुखास्ततः । पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु । ७.२३.३ ॥ ॥

jayena vardhayitvā ca mārīcapramukhāstataḥ ।
puṣpakaṁ bhejire sarve sāntvitā rāvaṇena tu ।
7.23.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४ ॥
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् । दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् । ७.२३.४ ॥ ॥

tato rasātalaṁ gacchan praviṣṭaḥ payasāṁ nidhim ।
daityoragagaṇādhyuṣṭaṁ varuṇena surakṣitam ।
7.23.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५ ॥
तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् । कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् । ७.२३.५ ॥ ॥

sa tu bhogavatīṁ gatvā purīṁ vāsukipālitām ।
kṛtvā nāgānvaśe hṛṣṭo yayau maṇimayīṁ purīm ।
7.23.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ६ ॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन् । राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् । ७.२३.६ ॥ ॥

nivātakavacāstatra daityā labdhavarā vasan ।
rākṣasāntānsamāgamya yuddhāya samupāhvayat ।
7.23.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ७ ॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः । नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः । ७.२३.७ ॥ ॥

te tu sarve suvikrāntā daiteyā balaśālinaḥ ।
nānāpraharaṇāstatra prahṛṣṭā yuddhadurmadāḥ ।
7.23.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ८ ॥
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः । अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा । ७.२३.८ ॥ ॥

śūlaistriśūlaiḥ kuliśaiḥ paṭṭiśāsiparaśvadhaiḥ ।
anyonyaṁ bibhiduḥ kruddhā rākṣasā dānavāstathā ।
7.23.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ९ ॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः । चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा । ७.२३.९ ॥ ॥

teṣāṁ tu yudhyamānānāṁ sāgraḥ saṁvatsaro gataḥ ।
na cānyatarayostatra vijayo vā kṣayo 'pi vā ।
7.23.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १० ॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः । आजगाम द्रुतं देवो विमानवरमास्थितः । ७.२३.१० ॥ ॥

tataḥ pitāmahastatra trailokyagatiravyayaḥ ।
ājagāma drutaṁ devo vimānavaramāsthitaḥ ।
7.23.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ११ ॥
निवातकवचानां तु निवार्य रणकर्म तत् । वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् । ७.२३.११ ॥ ॥

nivātakavacānāṁ tu nivārya raṇakarma tat ।
vṛddhaḥ pitāmaho vākyamuvāca viditārthavat ।
7.23.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १२ ॥
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः । भवन्तः क्षयं नेतुमपि सामरदानवैः । ७.२३.१२ ॥ ॥

nahyayaṁ rāvaṇo yuddhe śakyo jetuṁ surāsuraiḥ ।
na bhavantaḥ kṣayaṁ netumapi sāmaradānavaiḥ ।
7.23.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १३ ॥
राक्षसस्य सखित्वं भवद्भिः सह रोचते । अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः । ७.२३.१३ ॥ ॥

rākṣasasya sakhitvaṁ ca bhavadbhiḥ saha rocate ।
avibhaktāśca sarvārthāḥ suhṛdāṁ nātra saṁśayaḥ ।
7.23.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १४ ॥
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः । निवातकवचैः सार्धं प्रीतिमानभवत्तदा । ७.२३.१४ ॥ ॥

tato 'gnisākṣikaṁ sakhyaṁ kṛtavāṁstatra rāvaṇaḥ ।
nivātakavacaiḥ sārdhaṁ prītimānabhavattadā ।
7.23.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १५ ॥
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः । स्वपुरान्निर्विशेषं प्रियं प्राप्तो दशाननः । ७.२३.१५ ॥ ॥

arthatastairyathānyāyaṁ saṁvatsaramathoṣitaḥ ।
svapurānnirviśeṣaṁ ca priyaṁ prāpto daśānanaḥ ।
7.23.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १६ ॥
ततोपधार्य मायानां शतमेकं समाप्तवान् । सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् । ७.२३.१६ ॥ ॥

tatopadhārya māyānāṁ śatamekaṁ samāptavān ।
salilendrapurānveṣī bhramati sma rasātalam ।
7.23.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १७ ॥
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् । गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् । ७.२३.१७ ॥ ॥

tato 'śmanagaraṁ nāma kālakeyairadhiṣṭhitam ।
gatvā tu kālakeyāṁśca hatvā tatra balotkaṭān ।
7.23.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १८ ॥
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा । श्यालं बलवन्तं विद्युज्जिह्वं बलोत्कटम् । जिह्वया संलिहन्तं राक्षसं समरे तथा । ७.२३.१८ ॥ ॥

śūrpaṇakhyāśca bhartāramasinā prācchinattadā ।
śyālaṁ ca balavantaṁ ca vidyujjihvaṁ balotkaṭam ।
jihvayā saṁlihantaṁ ca rākṣasaṁ samare tathā ।
7.23.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · १९ ॥
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् । ७.२३.१९ ॥ ॥

taṁ vijitya muhūrtena jaghne daityāṁścatuḥśatam ।
7.23.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २० ॥
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् । वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः । ७.२३.२० ॥ ॥

tataḥ pāṇḍurameghābhaṁ kailāsamiva bhāsvaram ।
varuṇasyālayaṁ divyamapaśyadrākṣasādhipaḥ ।
7.23.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २१ ॥
क्षरन्तीं पयस्तत्र सुरभिं गामवस्थिताम् । यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः । ७.२३.२१ ॥

kṣarantīṁ ca payastatra surabhiṁ gāmavasthitām ।
yasyāḥ payobhiniṣyandātkṣīrodo nāma sāgaraḥ ।
7.23.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २२ ॥
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् । यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः । ७.२३.२२ ॥ ॥

dadarśa rāvaṇastatra govṛṣendravarāraṇim ।
yasmāccandraḥ prabhavati śītaraśmirniśākaraḥ ।
7.23.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २३ ॥
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा स्वधभोजिनाम् । ७.२३.२३ ॥ ॥

yaṁ samāśritya jīvanti phenapāḥ paramarṣayaḥ ।
amṛtaṁ yatra cotpannaṁ svadhā ca svadhabhojinām ।
7.23.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २४ ॥
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् । ७.२३.२४ ॥ ॥

yāṁ bruvanti narā loke surabhiṁ nāma nāmataḥ ।
pradakṣiṇaṁ tu tāṁ kṛtvā rāvaṇaḥ paramādbhutām ।
7.23.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २५ ॥
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् । ७.२३.२५ ॥ ॥

praviveśa mahāghoraṁ guptaṁ bahuvidhairbalaiḥ ।
tato dhārāśatākīrṇaṁ śāradābhranibhaṁ tadā ।
nityaprahṛṣṭaṁ dadṛśe varuṇasya gṛhottamam ।
7.23.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २६ ॥
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् । ७.२३.२६ ॥ ॥

tato hatvā balādhyakṣānsamare taiśca tāḍitaḥ ।
abravīcca tato yodhānrājā śīghraṁ nivedyatām ।
7.23.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २७ ॥
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः । ७.२३.२७ ॥ ॥

yuddhārthī rāvaṇaḥ prāptastasya yuddhaṁ pradīyatām ।
vada vā na bhayaṁ te 'sti nirjito 'smīti sāñjaliḥ ।
7.23.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २८ ॥
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च । ७.२३.२८ ॥ ॥

etasminnantare kruddhā varuṇasya mahātmanaḥ ।
putrāḥ pautrāśca niṣkrāmangauśca puṣkara eva ca ।
7.23.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · २९ ॥
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः । ७.२३.२९ ॥ ॥

te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ ।
yuṅktvā rathānkāmagamānudyadbhāsvaravarcasaḥ ।
7.23.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३० ॥
ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य धीमतः । ७.२३.३० ॥ ॥

tato yuddhaṁ samabhavaddāruṇaṁ romaharṣaṇam ।
salilendrasya putrāṇāṁ rāvaṇasya ca dhīmataḥ ।
7.23.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३१ ॥
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् । ७.२३.३१ ॥ ॥

amātyaiśca mahāvīryairdaśagrīvasya rakṣasaḥ ।
vāruṇaṁ tadbalaṁ kṛtsnaṁ kṣaṇena vinipātitam ।
7.23.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३२ ॥
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः । ७.२३.३२ ॥ ॥

samīkṣya svabalaṁ saṅkhye varuṇasya sutāstadā ।
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ ।
7.23.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३३ ॥
महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः । ७.२३.३३ ॥ ॥

mahītalagatāste tu rāvaṇaṁ dṛśya puṣpake ।
ākāśamāśu viviśuḥ syandanaiḥ śīghragāmibhiḥ ।
7.23.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३४ ॥
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव । ७.२३.३४ ॥ ॥

mahādāsīttatasteṣāṁ tulyaṁ sthānamavāpya tat ।
ākāśayuddhaṁ tumulaṁ devadānavayoriva ।
7.23.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३५ ॥
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् । ७.२३.३५ ॥ ॥

tataste rāvaṇaṁ yuddhe śaraiḥ pāvakasannibhaiḥ ।
vimukhīkṛtya santuṣṭā vinedurvividhānravān ।
7.23.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३६ ॥
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् । ७.२३.३६ ॥ ॥

tato mahodaraḥ kruddho rājānaṁ dṛśya dharṣitam ।
tyaktvā mṛtyubhayaṁ vīro yuddhakāṅkṣī vyalokayat ।
7.23.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३७ ॥
तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् । ७.२३.३७ ॥ ॥

tena te dāruṇā yuddhe kāmagāḥ pavanopamāḥ ।
mahodareṇa gadayā hatā vai prayayuḥ kṣitim ।
7.23.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३८ ॥
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् । ७.२३.३८ ॥ ॥

teṣāṁ varuṇaputrāṇāṁ hatvā yodhānhayāñchatān ।
mumocāśu mahānādaṁ virathānprekṣya tānsthitān ।
7.23.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ३९ ॥
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले । ७.२३.३९ ॥ ॥

te tu teṣāṁ rathāḥ sāśvāḥ saha sārathibhirhataiḥ ।
mahodareṇa nihatāḥ patitāḥ pṛthivītale ।
7.23.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४० ॥
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः । ७.२३.४० ॥ ॥

te tu tyaktvā rathānputrā varuṇasya mahātmanaḥ ।
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ ।
7.23.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४१ ॥
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् । ७.२३.४१ ॥ ॥

dhanūṁṣi kṛtvā sajjāni vinirbhidya mahodaram ।
rāvaṇaṁ samare kruddhāḥ sahitāḥ samabhidravan ।
7.23.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४२ ॥
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् । ७.२३.४२ ॥ ॥

sāyakaiścāpavibhraṣṭairvajrakalpaiḥ sudāruṇaiḥ ।
dārayanti sma saṅkruddhā meghā iva mahāgirim ।
7.23.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४३ ॥
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् । ७.२३.४३ ॥ ॥

tataḥ kruddho daśagrīvaḥ kālāgniriva nirgataḥ ।
śaravarṣairmahāghoraisteṣāṁ marmasvatāḍayat ।
7.23.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४४ ॥
ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च । ७.२३.४४ ॥ ॥

tatastenaiva sahasā sīdanti sma padātayaḥ ।
musalāni vicitrāṇi tato bhallaśatāni ca ।
7.23.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४५ ॥
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः । ७.२३.४५ ॥ ॥

paṭṭiśāṁścaiva śaktīśca śataghnīstomarāṁstathā ।
pātayāmāsa durdharṣasteṣāmupari viṣṭhitaḥ ।
7.23.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४६ ॥
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः । ७.२३.४६ ॥ ॥

apaviddhāstu te vīrā viniṣpetuḥ padātayaḥ ।
mahāpaṅkamivāsādya kuñjarāṣṣaṣṭihāyanāḥ ।
7.23.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४७ ॥
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा । ७.२३.४७ ॥ ॥

sīdamānānsutāndṛṣṭvā vihvalānsumahaujasaḥ ।
nanāda rāvaṇo harṣānmahānambudharo yathā ।
7.23.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४८ ॥
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः । ७.२३.४८ ॥ ॥

tato rakṣo mahānādānmuktvā hanti sma vāruṇān ।
nānāpraharaṇopetairdhārāpātairivāmbudaḥ ।
7.23.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ४९ ॥
ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः । ७.२३.४९ ॥ ॥

tataste vimukhāḥ sarve patitā dharaṇītale ।
raṇātsvapuruṣaiḥ śīghraṁ gṛhāṇyeva praveśitāḥ ।
7.23.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५० ॥
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् । ७.२३.५० ॥ ॥

tānabravīttato rakṣo varuṇāya nivedyatām ।
7.23.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५१ ॥
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः । ७.२३.५१ ॥ ॥

rāvaṇaṁ tvabravīnmantrī prahasto (prahaso) nāma vāruṇaḥ ।
gataḥ khalu mahārājo brahmalokaṁ jaleśvaraḥ ।
7.23.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५२ ॥
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः । ७.२३.५२ ॥ ॥

gāndharvaṁ varuṇaḥ śrotuṁ yaṁ tvamāhvayase yudhi ।
tatkiṁ tava vṛthā vīra pariśramya gate nṛpe ।
ye tu sannihitā vīrāḥ kumārāste parājitāḥ ।
7.23.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५३ ॥
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् । ७.२३.५३ ॥ ॥

rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ ।
harṣānnādaṁ vimuñcanvai niṣkrānto varuṇālayāt ।
7.23.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २३ · ५४ ॥
आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ । ७.२३.५४ ॥

āgatastu pathā yena tenaiva vinivṛtya saḥ ।
laṅkāmabhimukho rakṣo nabhastalagato yayau ।
7.23.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.