वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २१ · ४६ श्लोकाःSarga 21 · 46 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २१ · १ ॥
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति । ७.२१.१ ॥ ॥

evaṁ sañcintya viprendo jagāma laghuvikramaḥ ।
ākhyātuṁ tadyathāvṛttaṁ yamasya sadanaṁ prati ।
7.21.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २ ॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् । ७.२१.२ ॥ ॥

apaśyatsa yamaṁ tatra devamagnipuraskṛtam ।
vidhānamupatiṣṭhantaṁ prāṇino yasya yādṛśam ।
7.21.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३ ॥
तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः । ७.२१.३ ॥ ॥

sa tu dṛṣṭvā yamaḥ prāptaṁ maharṣiṁ tatra nāradam ।
abravītsukhamāsīnamarghyamāvedya dharmataḥ ।
7.21.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४ ॥
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित । ७.२१.४ ॥ ॥

kaccitkṣemaṁ tu devarṣe kacciddharmo na naśyati ।
kimāgamanakṛtyaṁ te devagandharvasevita ।
7.21.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ५ ॥
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं विधीयताम् । ७.२१.५ ॥ ॥

abravīttu tadā vākyaṁ nārado bhagavānṛṣiḥ ।
śrūyatāmabhidhāsyāmi vidhānaṁ ca vidhīyatām ।
7.21.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ६ ॥
एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् । ७.२१.६ ॥ ॥

eṣa nāmno daśagrīvaḥ pitṛrāja niśācaraḥ ।
upayāti vaśaṁ netuṁ vikramaistvāṁ sudurjayam ।
7.21.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ७ ॥
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति । ७.२१.७ ॥ ॥

etena kāraṇenāhaṁ tvarito hyāgataḥ prabho ।
daṇḍapraharaṇasyādya tava kiṁ nu bhaviṣyati ।
7.21.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ८ ॥
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः । ७.२१.८ ॥ ॥

etasminnantare durādaṁśumantamivoditam ।
dadṛśurdīptamāyāntaṁ vimānaṁ tasya rakṣasaḥ ।
7.21.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ९ ॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत । ७.२१.९ ॥ ॥

taṁ deśaṁ prabhayā tasya puṣpakasya mahābalaḥ ।
kṛtvā vitimiraṁ sarvaṁ samīpaṁ so 'bhyavartata ।
7.21.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १० ॥
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् । ७.२१.१० ॥ ॥

so 'paśyatsa mahābāhurdaśagrīvastatastataḥ ।
prāṇinaḥ sukṛtaṁ karma bhuñjānāṁścaiva duṣkṛtam ।
7.21.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ११ ॥
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह । यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः । ७.२१.११ ॥ ॥

apaśyatsainikāṁścāsya yamasyānucaraiḥ saha ।
yamasya puruṣairugrairghorarūpairbhayānakaiḥ ।
7.21.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १२ ॥
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः । क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् । ७.२१.१२ ॥ ॥

dadarśa vadhyamānāṁśca kliśyamānāṁśca dehinaḥ ।
krośataśca mahānādaṁ tīvraniṣṭanatatparān ।
7.21.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १३ ॥
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः । ७.२१.१३ ॥ ॥

kṛmibhirbhakṣyamāṇāṁśca sārameyaiśca dāruṇaiḥ ।
7.21.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १४ ॥
क्षोत्रायासकरा वाचो वदतश्च भयावहाः । सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् । ७.२१.१४ ॥ ॥

kṣotrāyāsakarā vāco vadataśca bhayāvahāḥ ।
santāryamāṇānvaitaraṇīṁ bahuśaḥ śoṇitodakām ।
7.21.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १५ ॥
वालुकासु तप्तासु तप्यमानान्मुहूर्मुहुः । असिपत्रवने चैव भिद्यमानानधार्मिकान् । ७.२१.१५ ॥ ॥

vālukāsu ca taptāsu tapyamānānmuhūrmuhuḥ ।
asipatravane caiva bhidyamānānadhārmikān ।
7.21.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १६ ॥
रौरवे क्षारनद्यां क्षुरधारासु चैव हि । पानीयं याचमानांश्च तृषितान्क्षुधितानपि । ७.२१.१६ ॥ ॥

raurave kṣāranadyāṁ ca kṣuradhārāsu caiva hi ।
pānīyaṁ yācamānāṁśca tṛṣitānkṣudhitānapi ।
7.21.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १७ ॥
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् । मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः । ७.२१.१७ ॥ ॥

śavabhūtānkṛśāndīnānvivarṇānmuktamūrdhajān ।
malapaṅkadharāndīnānrūkṣāṁśca paridhāvataḥ ।
7.21.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १८ ॥
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः । कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः । ७.२१.१८ ॥ ॥

dadarśa rāvaṇo mārge śataśo 'tha sahasraśaḥ ।
kāṁścicca gṛhamukhyeṣu gītavāditraniḥsvanaiḥ ।
pramodamānānadrākṣīdrāvaṇaḥ sukṛtaiḥ svakaiḥ ।
7.21.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · १९ ॥
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः । ७.२१.१९ ॥ ॥

gaurasaṁ gopradātāro hyannaṁ caivānnadāyinaḥ ।
gṛhāṁśca gṛhadātāraḥ svakarmaphalamaśnataḥ ।
7.21.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २० ॥
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् । ७.२१.२० ॥ ॥

suvarṇamaṇimuktābhiḥ pramadābhiralaṅkṛtān ।
7.21.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २१ ॥
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा । ददर्श सुमहाबाहू रावणो राक्षसाधिपः । ७.२१.२१ ॥ ॥

dhārmikānaparāṁstatra dīpyamānānsvatejasā ।
dadarśa sumahābāhū rāvaṇo rākṣasādhipaḥ ।
7.21.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २२ ॥
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः । रावणो मोचयामास विक्रमेण बलाद्बली । ७.२१.२२ ॥ ॥

tatastānbhidyamānāṁśca karmabhirduṣkṛtaiḥ svakaiḥ ।
rāvaṇo mocayāmāsa vikrameṇa balādbalī ।
7.21.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २३ ॥
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् । ७.२१.२३ ॥ ॥

prāṇino mocitāstena daśagrīveṇa rakṣasā ।
sukhamāpurmuhūrtaṁ te hyatarkitamacintitam ।
7.21.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २४ ॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् । ७.२१.२४ ॥ ॥

preteṣu mucyamāneṣu rākṣasena mahīyasā ।
pretagopāḥ susaṅkruddhā rākṣasendramabhidravan ।
7.21.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २५ ॥
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः । धर्मराजस्य योधानां शूराणां सम्प्रधावताम् । ७.२१.२५ ॥ ॥

tato halahalāśabdaḥ sarvadigbhyaḥ samutthitaḥ ।
dharmarājasya yodhānāṁ śūrāṇāṁ sampradhāvatām ।
7.21.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २६ ॥
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः । ७.२१.२६ ॥ ॥

te prāsaiḥ parighaiḥ śūlairmusalaiḥ śaktitomaraiḥ ।
puṣpakaṁ samavarṣanta śūrāḥ śatasahasraśaḥ ।
7.21.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २७ ॥
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव । ७.२१.२७ ॥ ॥

tasyāsanāni prāsādānvedikāstoraṇāni ca ।
puṣpakasya babhañjuste śīghraṁ madhukarā iva ।
7.21.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २८ ॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा । ७.२१.२८ ॥ ॥

devaniṣṭhānabhūtaṁ tadvimānaṁ puṣpakaṁ mṛdhe ।
bhajyamānaṁ tathaivāsīdakṣayaṁ brahmatejasā ।
7.21.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · २९ ॥
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः । शूराणामग्रयातऽणां सहस्राणि शतानि च । ७.२१.२९ ॥ ॥

asaṅkhyā sumahatyāsīttasya senā mahātmanaḥ ।
śūrāṇāmagrayāta'ṇāṁ sahasrāṇi śatāni ca ।
7.21.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३० ॥
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा । ततस्ते सचिवास्तस्य यथाकामं यथाबलम् । अयुध्यन्त महावीराः राजा दशाननः । ७.२१.३० ॥ ॥

tato vṛkṣaiśca śailaiśca prāsādānāṁ śataistathā ।
tataste sacivāstasya yathākāmaṁ yathābalam ।
ayudhyanta mahāvīrāḥ sa ca rājā daśānanaḥ ।
7.21.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३१ ॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः । अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् । ७.२१.३१ ॥ ॥

te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ ।
amātyā rākṣasendrasya cakrurāyodhanaṁ mahat ।
7.21.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३२ ॥
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् । यमस्य महाबाहो रावणस्य मन्त्रिणः । ७.२१.३२ ॥ ॥

anyonyaṁ te mahābhāgā jaghnuḥ praharaṇairbhṛśam ।
yamasya ca mahābāho rāvaṇasya ca mantriṇaḥ ।
7.21.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३३ ॥
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः । तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् । ७.२१.३३ ॥ ॥

amātyāṁstāṁstu santyajya yamayodhā mahābalāḥ ।
tameva cābhyadhāvanta śūlavarṣairdaśānanam ।
7.21.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३४ ॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः । फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः । ७.२१.३४ ॥ ॥

tataḥ śoṇitadigdhāṅgaḥ prahārairjarjarīkṛtaḥ ।
phullāśoka ivābhāti puṣpake rākṣasādhipaḥ ।
7.21.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३५ ॥
तु शूलगदापासाञ्छक्तितोमरसायकान् । मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली । ७.२१.३५ ॥ ॥

sa tu śūlagadāpāsāñchaktitomarasāyakān ।
musalāni śilāvṛkṣānmumocāstrabalādbalī ।
7.21.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३६ ॥
तरूणां शिलानां शस्त्राणां चातिदारुणम् । यमसैन्येषु तद्वर्षं पपात धरणीतले । ७.२१.३६ ॥ ॥

tarūṇāṁ ca śilānāṁ ca śastrāṇāṁ cātidāruṇam ।
yamasainyeṣu tadvarṣaṁ papāta dharaṇītale ।
7.21.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३७ ॥
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च । जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः । ७.२१.३७ ॥ ॥

tāṁstu sarvānvinirbhidya tadastramapahatya ca ।
jaghnuste rākṣasaṁ ghoramekaṁ śatasahasraśaḥ ।
7.21.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३८ ॥
परिवार्य तं सर्वे शैलं मोघोत्करा इव । भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् । ७.२१.३८ ॥ ॥

parivārya ca taṁ sarve śailaṁ moghotkarā iva ।
bhindipālaiśca śūlaiśca nirucchvāsamapothayan ।
7.21.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ३९ ॥
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः । ततः पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत । ७.२१.३९ ॥ ॥

vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ ।
tataḥ sa puṣpakaṁ tyaktvā pṛthivyāmavatiṣṭhata ।
7.21.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४० ॥
ततः कार्मुकी वाणी समरे चाभिवर्तत । लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः । ७.२१.४० ॥ ॥

tataḥ sa kārmukī vāṇī samare cābhivartata ।
labdhasañjño muhūrtena kruddhastasthau yathāntakaḥ ।
7.21.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४१ ॥
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके । तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स । ७.२१.४१ ॥ ॥

tataḥ pāśupataṁ divyamastraṁ sandhāya kārmuke ।
tiṣṭha tiṣṭheti tānuktvā taccāpaṁ vicakarṣa sa ।
7.21.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४२ ॥
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा । ७.२१.४२ ॥ ॥

ākarṇātsa vikṛṣyātha cāpamindrārirāhave ।
mumoca taṁ śaraṁ kruddhastripure śaṅkaro yathā ।
7.21.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४३ ॥
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः । ७.२१.४३ ॥ ॥

tasya rūpaṁ śarasyāsītvidhūmajvālamaṇḍalam ।
vanaṁ dahiṣyato gharme dāvāgneriva mūrcchataḥ ।
7.21.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४४ ॥
ज्वालामाली तु शरः क्रव्यादानुगतो रणे । मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति । ७.२१.४४ ॥ ॥

jvālāmālī sa tu śaraḥ kravyādānugato raṇe ।
mukto gulmāndrumāṁścāpi bhasma kṛtvā pradhāvati ।
7.21.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४५ ॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु । रणे तस्मिन्निपतिता दावदग्धा नगा इव । ७.२१.४५ ॥ ॥

te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu ।
raṇe tasminnipatitā dāvadagdhā nagā iva ।
7.21.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २१ · ४६ ॥
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् । ७.२१.४६ ॥

tatastu sicavaiḥ sārdhaṁ rākṣaso bhīmavikramaḥ ।
nanāda sumahānādaṁ kampayanniva medinīm ।
7.21.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.