वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १९ · ३२ श्लोकाःSarga 19 · 32 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १९ · १ ॥
अथ जित्वा मरुत्तं प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः । ७.१९.१ ॥ ॥

atha jitvā maruttaṁ sa prayayau rākṣasādhipaḥ ।
nagarāṇi narendrāṇāṁ yuddhakāṅkṣī daśānanaḥ ।
7.19.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २ ॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति । ७.१९.२ ॥ ॥

samāsādya tu rājendrānmahendravaruṇopamān ।
abravīdrākṣasendrastu yuddhaṁ me dīyatāmiti ।
7.19.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ३ ॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते । ७.१९.३ । ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः । ७.१९.४ ॥ ॥

nirjitāḥ smeti vā brūta eṣa me hi suniścayaḥ ।
anyathā kurvatāmevaṁ mokṣo naivopapadyate ।
7.19.3 ।
tatastvabhīravaḥ prājñāḥ pārthivā dharmaniścayāḥ ।
mantrayitvā tato 'nyonyaṁ rājānaḥ sumahābalāḥ ।
nirjitāḥ smetyabhāṣanta jñātvā varabalaṁ ripoḥ ।
7.19.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ४ ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः । ७.१९.५ ॥ ॥

duṣyantaḥ suratho gādhirgayo rājā purūravāḥ ।
ete sarve 'bruvaṁstāta nirjitāḥ smeti pārthivāḥ ।
7.19.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ५ ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः । ७.१९.६ ॥ ॥

athāyodhyāṁ samāsādya rāvaṇo rākṣasādhipaḥ ।
7.19.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ६ ॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । तं पुरुषशार्दूलं पुरन्दरसमं बले । ७.१९.७ ॥ ॥

suguptāmanaraṇyena śakreṇevāmarāvatīm ।
sa taṁ puruṣaśārdūlaṁ purandarasamaṁ bale ।
7.19.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ७ ॥
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् । ७.१९.८ ॥ ॥

prāha rājānamāsādya yuddhaṁ dehīti rāvaṇaḥ ।
nirjito 'smīti vā brūhi tvamevaṁ mama śāsanam ।
7.19.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ८ ॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् । ७.१९.९ ॥ ॥

ayodhyādhipatistasya śrutvā pāpātmano vacaḥ ।
anaraṇyastu saṅkruddho rākṣasendramathābravīt ।
7.19.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ९ ॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् । ७.१९.१० ॥ ॥

dīyate dvandvayuddhaṁ te rākṣasādhipate mayā ।
santiṣṭha kṣipramāyatto bhava caivaṁ bhavāmyaham ।
7.19.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १० ॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् । ७.१९.११ ॥ ॥

atha pūrvaṁ śrutārthena nirjitaṁ sumahadbalam ।
niṣkrāmattannarendrasya balaṁ rakṣovadhodyatam ।
7.19.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ११ ॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां नरोत्तम । ७.१९.१२ ॥ ॥

nāgānāṁ daśasāhasraṁ vājināṁ niyutaṁ tathā ।
rathānāṁ bahusāhasraṁ pattīnāṁ ca narottama ।
7.19.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १२ ॥
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद । ७.१९.१३ ॥ ॥

mahīṁ sañchādya niṣkrāntaṁ sapadātirathaṁ raṇe ।
tataḥ pravṛttaṁ sumahadyuddhaṁ yuddhaviśārada ।
7.19.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १३ ॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः । ७.१९.१४ ॥ ॥

anaraṇyasya nṛpate rākṣasendrasya cādbhutam ।
tadrāvaṇabalaṁ prāpya balaṁ tasya mahīpateḥ ।
7.19.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १४ ॥
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा सुचिरं कालं कृत्वा विक्रममुत्तमम् । ७.१९.१५ ॥ ॥

prāṇaśyata tadā sarvaṁ havyaṁ hutamivānale ।
yuddhvā ca suciraṁ kālaṁ kṛtvā vikramamuttamam ।
7.19.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १५ ॥
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले । ७.१९.१६ ॥ ॥

prajvalantaṁ tamāsādya kṣipramevāvaśeṣitam ।
prāviśatsaṅkulaṁ tatra śalabhā iva pāvakam ।
naśyati sma balaṁ tatra havyaṁ hutamivānale ।
7.19.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १६ ॥
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा । ७.१९.१७ ॥ ॥

so 'paśyattannarendrastu naśyamānaṁ mahābalam ।
mahārṇavaṁ samāsādya vanāpagaśataṁ yathā ।
7.19.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १७ ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः । ७.१९.१८ ॥ ॥

tataḥ śakradhanuḥprakhyaṁ dhanurvisphārayansvayam ।
āsasāda narendrastaṁ rāvaṇaṁ krodhamūrcchitaḥ ।
7.19.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १८ ॥
अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव । ७.१९.१९ ॥ ॥

anaraṇyena te 'mātyā mārīcaśukasāraṇāḥ ।
prahastasahitā bhagnā vyadravanta mṛgā iva ।
7.19.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · १९ ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः । ७.१९.२० ॥ ॥

tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani ।
tasya rākṣasarājasya ikṣvākukulanandanaḥ ।
7.19.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २० ॥
तस्य बाणाः पतन्तस्ते चक्रिरे क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि । ७.१९.२१ ॥ ॥

tasya bāṇāḥ patantaste cakrire na kṣataṁ kvacit ।
vāridhārā ivābhrebhyaḥ patantyo girimūrdhani ।
7.19.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २१ ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि रथान्निपपात ह । ७.१९.२२ ॥ ॥

tato rākṣasarājena kruddhena nṛpatistadā ।
talenābhihato mūrdhni sa rathānnipapāta ha ।
7.19.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २२ ॥
राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा । ७.१९.२३ ॥ ॥

sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ ।
vajradagdha ivāraṇye sālo nipatito yathā ।
7.19.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २३ ॥
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता । ७.१९.२४ ॥ ॥

taṁ prahasyābravīddrakṣa ikṣvākuṁ pṛthivīpatim ।
kimidānīṁ phalaṁ prāptaṁ tvayā māṁ prati yuddhyatā ।
7.19.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २४ ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु शृणोषि बलं मम । ७.१९.२५ ॥ ॥

trailokye nāsti yo dvandvaṁ mama dadyānnarādhipa ।
śaṅke prasakto bhogeṣu na śṛṇoṣi balaṁ mama ।
7.19.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २५ ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः । ७.१९.२६ ॥ ॥

tasyaivaṁ bruvato rājā mandāsurvākyamabravīt ।
kiṁ śakyamiha kartuṁ vai kālo hi duratikramaḥ ।
7.19.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २६ ॥
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् । ७.१९.२७ ॥ ॥

nahyahaṁ nirjito rakṣastvayā cātmapraśaṁsinā ।
kālenaiva vipanno 'haṁ hetubhūtastu me bhavān ।
7.19.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २७ ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः । ७.१९.२८ ॥ ॥

kiṁ tvidānīṁ mayā śakyaṁ kartuṁ prāṇaparikṣaye ।
nahyahaṁ vimukhī rakṣo yudhyamānastvayā hataḥ ।
7.19.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २८ ॥
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ ॥

ikṣvākuparibhāvitvādvaco vakṣyāmi rākṣasa ।
yadi dattaṁ yadi hutaṁ yadi me sukṛtaṁ tapaḥ ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · २९ ॥
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे । ७.१९.२९ ॥ ॥

yadi guptāḥ prajāḥ samyaktadā satyaṁ vaco 'stu me ।
7.19.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ३० ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति । ७.१९.३० ॥ ॥

utpatsyate kule hyasminnikṣvākūṇāṁ mahātmanām ।
rāmo dāśarathirnāma yaste prāṇānhariṣyati ।
7.19.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ३१ ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता । ७.१९.३१ ॥ ॥

tato jaladharodagrastāḍito devadundubhiḥ ।
tasminnudāhṛte śāpe puṣpavṛṣṭiśca khāccyutā ।
7.19.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १९ · ३२ ॥
ततः राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते नृपे तस्मिन्राक्षसः सो ऽपसर्पत । ७.१९.३२ ॥

tataḥ sa rājā rājendra gataḥ sthānaṁ triviṣṭapam ।
svargate ca nṛpe tasminrākṣasaḥ so 'pasarpata ।
7.19.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.