वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १८ · ३६ श्लोकाःSarga 18 · 36 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १८ · १ ॥
प्रविष्टायां हुताशं तु वेदवत्यां रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् । ७.१८.१ ॥ ॥

praviṣṭāyāṁ hutāśaṁ tu vedavatyāṁ sa rāvaṇaḥ ।
puṣpakaṁ tu samāruhya paricakrāma medinīm ।
7.18.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २ ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श तु रावणः । ७.१८.२ ॥ ॥

tato maruttaṁ nṛpatiṁ yajantaṁ saha daivataiḥ ।
uśīrabījamāsādya dadarśa sa tu rāvaṇaḥ ।
7.18.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३ ॥
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः । ७.१८.३ ॥ ॥

saṁvarto nāma brahmarṣiḥ sākṣādbhrātā bṛhaspateḥ ।
yājayāmāsa dharmajñaḥ sarvairdevagaṇairvṛtaḥ ।
7.18.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ४ ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः । ७.१८.४ ॥ ॥

dṛṣṭvā devāstu tadrakṣo varadānena durjayam ।
tiryagyoniṁ samāviṣṭāstasya darśanabhīravaḥ ।
7.18.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ५ ॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् । ७.१८.५ ॥ ॥

indro mayūraḥ saṁvṛtto dharmarājastu vāyasaḥ ।
kṛkalāso dhanādhyakṣo haṁsaśca varuṇo 'bhavat ।
7.18.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ६ ॥
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः । ७.१८.६ ॥ ॥

anyeṣvapi gateṣvevaṁ deveṣvariniṣūdana ।
rāvaṇaḥ prāviśadyajñaṁ sārameya ivāśuciḥ ।
7.18.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ७ ॥
तं राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद । ७.१८.७ ॥ ॥

taṁ ca rājānamāsādya rāvaṇo rākṣasādhipaḥ ।
prāha yuddhaṁ prayaccheti nirjito 'smīti vā vada ।
7.18.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ८ ॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् । ७.१८.८ ॥ ॥

tato marutto nṛpatiḥ ko bhavānityuvāca tam ।
apahāsaṁ tato muktvā rāvaṇo vākyamabravīt ।
7.18.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ९ ॥
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् । ७.१८.९ ॥ ॥

akutūhalabhāvena prīto 'smi tava pārthiva ।
dhanadasyānujaṁ yo māṁ nāvagacchasi rāvaṇam ।
7.18.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १० ॥
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः नृपस्तं रावणमथाब्रवीत् । ७.१८.१० ॥ ॥

triṣu lokeṣu ko 'nyo 'sti yo na jānāti me balam ।
bhrātaraṁ yena nirjitya vimānamidamāhṛtam ।
tato maruttaḥ sa nṛpastaṁ rāvaṇamathābravīt ।
7.18.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ११ ॥
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते । ७.१८.११ ॥ ॥

dhanyaḥ khalu bhavānyena jyeṣṭho bhrātā raṇe jitaḥ ।
na tvayā sadṛśaḥ ślādhyastriṣu lokeṣu vidyate ।
7.18.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १२ ॥
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् । ७.१८.१२ ॥ ॥

nādharmasahitaṁ ślādhyaṁ tallokaṁ pratisaṁhitam ।
karma daurātmyakaṁ kṛtvā ślāghyase bhrātṛnirjayāt ।
7.18.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १३ ॥
त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि मया भाषसे यादृशं स्वयम् । ७.१८.१३ ॥ ॥

ka tvaṁ prākkevalaṁ dharmaṁ caritvā labdhavānvaram ।
śrūtapūrvaṁ hi na mayā bhāṣase yādṛśaṁ svayam ।
7.18.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १४ ॥
तिष्ठेदानीं मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् । ७.१८.१४ ॥ ॥

tiṣṭhedānīṁ na me jīvanpratiyāsyasi durmate ।
adya tvāṁ niśitairbāṇaiḥ preṣayāmi yamakṣayam ।
7.18.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १५ ॥
ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् । ७.१८.१५ ॥ ॥

tataḥ śarāsanaṁ gṛhya sāyakāṁśca narādhipaḥ ।
raṇāya niryayau kruddhaḥ saṁvarto mārgamāvṛṇot ।
7.18.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १६ ॥
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो ते क्षमः । ७.१८.१६ ॥ ॥

so 'bravītsnehasaṁyuktaṁ maruttaṁ taṁ mahānṛṣiḥ ।
śrotavyaṁ yadi madvākyaṁ samprahāro na te kṣamaḥ ।
7.18.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १७ ॥
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् । ७.१८.१७ ॥ ॥

māheśvaramidaṁ satramasamāptaṁ kulaṁ dahet ।
7.18.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १८ ॥
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः । ७.१८.१८ ॥ ॥

dīkṣitasya kuto yuddhaṁ krodhitvaṁ dīkṣite kutaḥ ।
saṁśayaśca jaye nityaṁ rākṣasaśca sudurjayaḥ ।
7.18.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · १९ ॥
निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् । ७.१८.१९ ॥ ॥

sa nivṛtto gurorvākyānmaruttaḥ pṛthivīpatiḥ ।
visṛjya saśaraṁ cāpaṁ svastho makhamukho 'bhavat ।
7.18.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २० ॥
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् । ७.१८.२० ॥ ॥

tatastaṁ nirjitaṁ matvā ghoṣayāmāsa vai śukaḥ ।
rāvaṇo jayatītyuccairharṣānnādaṁ vimuktavān ।
7.18.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २१ ॥
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् । ७.१८.२१ ॥ ॥

tānbhakṣayitvā tatrasthānmaharṣīnyajñamāgatān ।
vitṛpto rudhiraisteṣāṁ punaḥ samprayayau mahīm ।
7.18.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २२ ॥
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् । ७.१८.२२ ॥ ॥

rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ ।
tataḥ svāṁ yonimāsādya tāni sattvāni cābruvan ।
7.18.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २३ ॥
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि ते भयम् । ७.१८.२३ ॥ ॥

harṣāttadābravīdindro mayūraṁ nīlabarhiṇam ।
prīto 'smi tava dharmajña bhujaṅgāddhi na te bhayam ।
7.18.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २४ ॥
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः । ७.१८.२४ ॥ ॥

idaṁ netrasahasraṁ tu yattvadbarhe bhaviṣyati ।
varṣamāṇe mayi mudaṁ prāpsyase prītilakṣaṇām ।
evamindro varaṁ prādānmayūrasya sureśvaraḥ ।
7.18.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २५ ॥
नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः । ७.१८.२५ ॥ ॥

nīlāḥ kila purā barhā mayūrāṇāṁ narādhipa ।
surādhipādvaraṁ prāpya gatāḥ sarve 'pi barhiṇaḥ ।
7.18.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २६ ॥
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु । ७.१८.२६ ॥ ॥

dharmarājo 'bravīdrāma prāgvaṁśe vāyasaṁ sthitam ।
pakṣiṁstavāsmi suprītaḥ prītasya vacanaṁ śṛṇu ।
7.18.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २७ ॥
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते ते प्रभविष्यन्ति मयि प्रीते संशयः । ७.१८.२७ ॥ ॥

yathānye vividhai rogai; pīḍyante prāṇino mayā ।
te na te prabhaviṣyanti mayi prīte na saṁśayaḥ ।
7.18.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २८ ॥
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां वधिष्यन्ति नरास्तावद्भविष्यसि । ७.१८.२८ ॥ ॥

mṛtyutaste bhayaṁ nāsti varānmama vihaṅgama ।
yāvattvāṁ na vadhiṣyanti narāstāvadbhaviṣyasi ।
7.18.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · २९ ॥
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः । ७.१८.२९ ॥ ॥

ete madviṣayasthā vai mānavāḥ kṣudbhayārditāḥ ।
tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ ।
7.18.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३० ॥
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर । ७.१८.३० ॥ ॥

varuṇastvabravīddhaṁsaṁ gaṅgātoyavihāriṇam ।
śrūyatāṁ prītisaṁyuktaṁ vacaḥ patraratheśvara ।
7.18.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३१ ॥
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः । ७.१८.३१ ॥ ॥

varṇo manoharaḥ saumyaścandramaṇḍalasannibhaḥ ।
bhaviṣyati tavodagraḥ śuddhaphenasamaprabhaḥ ।
7.18.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३२ ॥
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् । ७.१८.३२ ॥ ॥

maccharīraṁ samāsādya kānto nityaṁ bhaviṣyasi ।
prāpsyase cātulāṁ prītimetanme prītilakṣaṇam ।
7.18.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३३ ॥
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः । ७.१८.३३ ॥ ॥

haṁsānāṁ hi purā rāma nīlavarṇaḥ sapāṇḍuraḥ ।
pakṣā nīlāgrasaṁvītāḥ kroḍāḥ śaṣpāgranirmalāḥ ।
7.18.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३४ ॥
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् । ७.१८.३४ ॥ ॥

athābravīdvaiśravaṇaḥ kṛkalāsaṁ girau sthitam ।
hairaṇyaṁ samprayacchāmi varṇaṁ prītastavāpyaham ।
7.18.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३५ ॥
सद्रव्यं शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति । ७.१८.३५ ॥ ॥

sadravyaṁ ca śiro nityaṁ bhaviṣyati tavākṣayam ।
eṣa kāñcanako varṇo matprītyā te bhaviṣyati ।
7.18.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १८ · ३६ ॥
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः । ७.१८.३६ ॥

evaṁ dattvā varāṁstebhyastasminyajñotsave surāḥ ।
nivṛttāḥ saha rājñā te punaḥ svabhavanaṁ gatāḥ ।
7.18.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.