वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १७ · ४३ श्लोकाःSarga 17 · 43 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १७ · १ ॥
अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवद्वनमासाद्य परिचक्राम रावणः । ७.१७.१ ॥ ॥

atha rājanmahābāhurvicaransa mahītale ।
himavadvanamāsādya paricakrāma rāvaṇaḥ ।
7.17.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २ ॥
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव । ७.१७.२ ॥ ॥

tatrāpaśyatsa vai kanyāṁ kṛṣṇājinajaṭādharām ।
ārṣeṇa vidhinā yuktāṁ dīpyantīṁ devatāmiva ।
7.17.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३ ॥
दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव । ७.१७.३ ॥ ॥

sa dṛṣṭvā rūpasampannāṁ kanyāṁ tāṁ sumahāvratām ।
kāmamohaparītātmā papraccha prahasanniva ।
7.17.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ४ ॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया । ७.१७.४ । रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् । युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः । ७.१७.५ ॥ ॥

kimidaṁ vartase bhadre viruddhaṁ yauvanasya te ।
nahi yuktā tavaitasya rūpasyaiva pratikriyā ।
7.17.4 ।
rūpaṁ te 'nupamaṁ bhīru kāmonmādakaraṁ nṛṇām ।
na yuktaṁ tapasi sthātuṁ nirgato hyeṣa nirṇayaḥ ।
7.17.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ५ ॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन सम्भुज्यसे भीरु नरः पुण्यभाग्भुवि । ७.१७.६ ॥ ॥

kasyāsi kimidaṁ bhadre kaśca bhartā varānane ।
yena sambhujyase bhīru sa naraḥ puṇyabhāgbhuvi ।
7.17.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ६ ॥
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी । ७.१७.७ ॥ ॥

pṛcchataḥ śaṁsa me sarvaṁ kasya hetoḥ pariśramaḥ ।
evamuktā tu sā kanyā rāvaṇena yaśasvinī ।
7.17.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ७ ॥
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना । कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः । बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः । ७.१७.८ ॥ ॥

abravīdvidhivatkṛtvā tasyātithyaṁ tapodhanā ।
kuśadhvajo mama pitā brahmarṣiramitaprabhaḥ ।
bṛhaspatisutaḥ śrīmānbuddhyā tulyo bṛhaspateḥ ।
7.17.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ८ ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः । सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता । ७.१७.९ ॥ ॥

tasyāhaṁ kurvato nityaṁ vedābhyāsaṁ mahātmanaḥ ।
sambhūya vāṅmayī kanyā nāmnā vedavatī smṛtā ।
7.17.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ९ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः । ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे । ७.१७.१० ॥ ॥

tato devāḥ sagandharvā yakṣarākṣasapannagāḥ ।
te 'pi gatvā hi pitaraṁ varaṇaṁ rocayanti me ।
7.17.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १० ॥
मां पिता तेभ्यो दत्तवान्राक्षसर्षभ । कारणं तद्वदिष्यामि निशाचर निशामय । ७.१७.११ ॥ ॥

na ca māṁ sa pitā tebhyo dattavānrākṣasarṣabha ।
kāraṇaṁ tadvadiṣyāmi niśācara niśāmaya ।
7.17.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ११ ॥
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः । अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता । ७.१७.१२ ॥ ॥

pitustu mama jāmātā viṣṇuḥ kila sureśvaraḥ ।
abhipretastrilokeśastasmānnānyasya me pitā ।
7.17.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १२ ॥
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् । ७.१७.१३ ॥ ॥

dātumicchati tasmai tu tacchrutvā baladarpitaḥ ।
dambhurnāma tato rājā daityānāṁ kupito 'bhavat ।
7.17.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १३ ॥
तेन रात्रौ शयानो मे पिता पापेन हिंसितः । ७.१७.१४ ॥ ॥

tena rātrau śayāno me pitā pāpena hiṁsitaḥ ।
7.17.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १४ ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् । ७.१७.१५ ॥ ॥

tato me jananī dīnā taccharīraṁ piturmama ।
pariṣvajya mahābhāgā praviṣṭā havyavāhanam ।
7.17.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १५ ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समुद्वहे । ७.१७.१६ ॥ ॥

tato manorathaṁ satyaṁ piturnārāyaṇaṁ prati ।
karomīti tamevāhaṁ hṛdayena samudvahe ।
7.17.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १६ ॥
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव । ७.१७.१७ ॥ ॥

iti pratijñāmāruhya carāmi vipulaṁ tapaḥ ।
etatte sarvamākhyātaṁ mayā rākṣasapuṅgava ।
7.17.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १७ ॥
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया । विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन । ७.१७.१८ ॥ ॥

nārāyaṇo mama patirna tvanyaḥ puruṣottamāt ।
āśraye niyamaṁ ghoraṁ nārāyaṇaparīpsayā ।
vijñātastvaṁ hi me rājangaccha paulastyanandana ।
7.17.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १८ ॥
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते । ७.१७.१९ ॥ ॥

jānāmi tapasā sarvaṁ trailokye yaddhi vartate ।
7.17.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · १९ ॥
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः । ७.१७.२० ॥ ॥

so 'bravīdrāvaṇo bhūyastāṁ kanyāṁ sumahāvratām ।
avaruhya vimānāgrātkandarpaśarapīḍitaḥ ।
7.17.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २० ॥
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः । ७.१७.२१ ॥ ॥

avaliptā 'si suśroṇi yasyāste matirīdṛśī ।
vṛddhānāṁ mṛgaśāvākṣi bhrājate puṇyasañcayaḥ ।
7.17.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २१ ॥
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते । ७.१७.२२ ॥ ॥

tvaṁ sarvaṁguṇasampannā nārhase vaktumīdṛśam ।
trailokyasundarī bhīru yauvanaṁ te nivartate ।
7.17.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २२ ॥
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् । ७.१७.२३ ॥ ॥

ahaṁ laṅkāpatirbhadre daśagrīva iti śrutaḥ ।
tasya me bhava bhāryā tvaṁ bhuṅkṣva bhogānyathāsukham ।
7.17.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २३ ॥
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन बलेन ॥ ॥

kaśca tāvadasau yaṁ tvaṁ viṣṇurityabhibhāṣase ।
vīryeṇa tapasā caiva bhogena ca balena ca ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २४ ॥
मया समो भद्रे यं त्वं कामयसे ऽङ्गने । ७.१७.२४ ॥ ॥

na mayā sa samo bhadre yaṁ tvaṁ kāmayase 'ṅgane ।
7.17.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २५ ॥
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् । ७.१७.२५ । ैव भोगेन बलेन ॥ ॥

ityuktavati tasmiṁstu vedavatyatha sā 'bravīt ।
7.17.25 ।
aiva bhogena ca balena ca ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २६ ॥
मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् । ७.१७.२६ ॥ ॥

mā maivamiti sā kanyā tamuvāca niśācaram ।
trailokyādhipati viṣṇuṁ sarvalokanamaskṛtam ।
tvadṛte rākṣasendrānyaḥ ko 'vamanyeta buddhimān ।
7.17.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २७ ॥
एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । ७.१७.२७ ॥ ॥

evamuktastayā tatra vedavatyā niśācaraḥ ।
mūrdhajeṣu tadā kanyāṁ karāgreṇa parāmṛśat ।
7.17.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २८ ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् । असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् । ७.१७.२८ ॥ ॥

tato vedavatī kruddhā keśānhastena sā 'cchinat ।
asirbhūtvā karastasyāḥ keśāṁśchinnāṁstadā 'karot ।
7.17.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · २९ ॥
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय कृतत्वरा । ७.१७.२९ ॥ ॥

sā jvalantīva roṣeṇa dahantīva niśācaram ।
uvācāgniṁ samādhāya maraṇāya kṛtatvarā ।
7.17.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३० ॥
धर्षितायास्त्वयानार्य मे जीवितमिष्यते । रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् । ७.१७.३० ॥ ॥

dharṣitāyāstvayānārya na me jīvitamiṣyate ।
rakṣastasmātpravekṣyāmi paśyataste hutāśanam ।
7.17.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३१ ॥
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः । ७.१७.३१ ॥ ॥

yasmāttu dharṣitā cāhaṁ tvayā pāpātmanā vane ।
tasmāttava vadhārthaṁ hi samutpatsye hyahaṁ punaḥ ।
7.17.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३२ ॥
हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः । शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् । ७.१७.३२ ॥ ॥

na hi śakyaṁ striyā hantuṁ puruṣaḥ pāpaniścaḥ ।
śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet ।
7.17.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३३ ॥
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा । तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता । ७.१७.३३ ॥ ॥

yadi tvasti mayā kiñcitkṛtaṁ dattaṁ hutaṁ tathā ।
tasmāttvayonijā sādhvī bhaveyaṁ dharmiṇaḥ sutā ।
7.17.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३४ ॥
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात दिवो दिव्या पुष्पवृष्टिः समन्ततः । ७.१७.३४ ॥ ॥

evamuktvā praviṣṭā sā jvalitaṁ jātavedasam ।
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ ।
7.17.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३५ ॥
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा । ७.१७.३५ ॥ ॥

punareva samudbhūtā padme padmasamaprabhā ।
tasmādapi punaḥ prāptā pūrvavattena rakṣasā ।
7.17.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३६ ॥
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे । ७.१७.३६ ॥ ॥

kanyāṁ kamalagarbhābhāṁ pragṛhya svagṛhaṁ yayau ।
pragṛhya rāvaṇastvetāṁ darśayāmāsa mantriṇe ।
7.17.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३७ ॥
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते । ७.१७.३७ ॥ ॥

lakṣaṇajño nirīkṣyaiva rāvaṇaṁ caivamabravīt ।
gṛhasthaiṣāṁ hi suśroṇī tvadvadhāyaiva dṛśyate ।
7.17.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३८ ॥
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा । ७.१७.३८ ॥ ॥

etacchrutvā 'rṇave rāma tāṁ pracikṣepa rāvaṇaḥ ।
sā caiva kṣitimāsādya yajñāyatanamadhyagā ।
7.17.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ३९ ॥
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः । ७.१७.३९ ॥ ॥

rājño halamukhotkṛṣṭā punarapyutthitā satī ।
saiṣā janakarājasya prasūtā tanayā prabho ।
tava bhāryā mahābāho viṣṇustvaṁ hi sanātanaḥ ।
7.17.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ४० ॥
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् । ७.१७.४० ॥ ॥

pūrvaṁ krodhāhitaḥ śatruryayā 'sau nihatastathā ।
upāśrayitvā śailabhastava vīryamamānuṣam ।
7.17.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ४१ ॥
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा । ७.१७.४१ ॥ ॥

evameṣā mahābhāgā martyeṣūtpatsyate punaḥ ।
kṣetre halamukhotkṛṣṭe vedyāmagniśikhopamā ।
7.17.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ४२ ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः । ७.१७.४२ ॥ ॥

eṣā vedavatī nāma pūrvamāsītkṛte yuge ।
tretāyugamanuprāpya vadhārthaṁ tasya rakṣasaḥ ।
7.17.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १७ · ४३ ॥
उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते । ७.१७.४३ ॥

utpannā maithilakule janakasya mahātmanaḥ ।
sītotpannā tu sīteti mānuṣaiḥ punarucyate ।
7.17.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.