वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १६ · ५० श्लोकाःSarga 16 · 50 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १६ · १ ॥
जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् । ७.१६.१ ॥ ॥

sa jitvā dhanadaṁ rāma bhrātaraṁ rākṣasādhipaḥ ।
mahāsenaprasūtiṁ tadyayau śaravaṇaṁ mahat ।
7.16.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २ ॥
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् । ७.१६.२ ॥ ॥

athāpaśyadṛśagrīvo raukmaṁ śaravaṇaṁ mahat ।
gabhastijālasaṁvītaṁ dvitīyamiva bhāskaram ।
7.16.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३ ॥
पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा । ७.१६.३ ॥ ॥

sa parvataṁ samāruhya kañcidramyavanāntaram ।
apaśyat puṣpakaṁ tatra rāmaviṣṭambhitaṁ tadā ।
7.16.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४ ॥
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः । ७.१६.४ ॥ ॥

viṣṭabdhaṁ puṣpakaṁ dṛṣṭvā hyagamaṁ kāmāgaṁ kṛtam ।
acintayadrākṣasendraḥ sacivaistaiḥ samāvṛtaḥ ।
7.16.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ५ ॥
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् । ७.१६.५ ॥ ॥

kinnimittaṁ cecchayā me nedaṁ gacchati puṣpakam ।
parvatasyopariṣṭhasya karmedaṁ kasyacidbhavet ।
7.16.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ६ ॥
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति । ७.१६.६ ॥ ॥

tato 'bravīttadā rāma mārīco buddhikovidaḥ ।
nedaṁ niṣkāraṇaṁ rājanpuṣpakaṁ yanna gacchati ।
7.16.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ७ ॥
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् । ७.१६.७ ॥ ॥

athavā puṣpakamidaṁ dhanadānnānyavāhanam ।
ato niṣpandamabhavaddhanādhyakṣavinākṛtam ।
7.16.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ८ ॥
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली । ७.१६.८ ॥ ॥

iti vākyāntare tasya karālaḥ kṛṣṇapiṅgalaḥ ।
vāmano vikaṭo muṇḍī nandī prahvabhujo balī ।
7.16.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ९ ॥
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः । ७.१६.९ ॥ ॥

tataḥ pārśvamupāgamya bhavasyānucaro 'bravīt ।
nandīśvaro vacaścedaṁ rākṣasendramaśaṅkitaḥ ।
7.16.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १० ॥
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् । ७.१६.१० ॥ ॥

nivartasva daśagrīva śaile krīḍati śaṅkaraḥ ।
suparṇanāgayakṣāṇāṁ devagandharvarakṣasām ।
7.16.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ११ ॥
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः । ७.१६.११ ॥ ॥

sarveṣāmeva bhūtānāmagamyaḥ parvataḥ kṛtaḥ ।
iti nandivacaḥ śrutvā krodhātkampitakuṇḍalaḥ ।
7.16.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १२ ॥
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः । ७.१६.१२ ॥ ॥

roṣāttu tāmranayanaḥ puṣpakādavaruhya saḥ ।
ko 'yaṁ śaṅkara ityuktvā śailamūlamupāgataḥ ।
7.16.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १३ ॥
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् । ७.१६.१३ ॥ ॥

so 'paśyannandinaṁ tatra devasyādūrataḥ sthitam ।
dīptaṁ śūlamavaṣṭabhya dvitīyamiva śaṅkaram ।
7.16.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १४ ॥
तं दृष्ट्वा वानरमुखमवज्ञाय राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः । ७.१६.१४ ॥ ॥

taṁ dṛṣṭvā vānaramukhamavajñāya sa rākṣasaḥ ।
prahāsaṁ mumuce tatra satoya iva toyadaḥ ।
7.16.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १५ ॥
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् । ७.१६.१५ ॥ ॥

taṁ kruddho bhagavānnandī śaṅkarasyāparā tanuḥ ।
abravīttatra tadrakṣo daśānanamupasthitam ।
7.16.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १६ ॥
यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् । ७.१६.१६ ॥ ॥

yasmādvānararūpaṁ māmavajñāya daśānana ।
aśanīpātasaṅkāśamapahāsaṁ pramuktavān ।
7.16.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १७ ॥
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः । ७.१६.१७ ॥ ॥

tasmānmadrūpasampannā madvīryasamatejasaḥ ।
utpatsyanti vadhārthaṁ hi kulasya tava vānarāḥ ।
7.16.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १८ ॥
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः । ७.१६.१८ ॥ ॥

nakhadaṁṣṭrāyudhāḥ krūrā manaḥsampātaraṁhasaḥ ।
yuddhonmattā balodriktāḥ śailā iva visarpiṇaḥ ।
7.16.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · १९ ॥
ते तव प्रबलं दर्पमुत्सेधं पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च । ७.१६.१९ ॥ ॥

te tava prabalaṁ darpamutsedhaṁ ca pṛthagvidham ।
vyapaneṣyanti sambhūya sahāmātyasutasya ca ।
7.16.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २० ॥
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः । ७.१६.२० ॥ ॥

kiṁ tvidānīṁ mayā śakyaṁ hantuṁ tvāṁ he niśācara ।
na hantavyo hatastvaṁ hi pūrvameva svakarmabhiḥ ।
7.16.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २१ ॥
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । ७.१६.२१ ॥ ॥

ityudīritavākye tu deve tasminmahātmani ।
devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā ।
7.16.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २२ ॥
अचिन्तयित्वा तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः । ७.१६.२२ ॥ ॥

acintayitvā sa tadā nandivākyaṁ mahābalaḥ ।
parvataṁ tu samāsādya vākyamāha daśānanaḥ ।
7.16.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २३ ॥
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते । ७.१६.२३ ॥ ॥

puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ ।
tamimaṁ śailamunmūlaṁ karomi tava gopate ।
7.16.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २४ ॥
केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं जानीते भयस्थानमुपस्थितम् । ७.१६.२४ ॥ ॥

kena prabhāveṇa bhavo nityaṁ krīḍati rājavat ।
vijñātavyaṁ na jānīte bhayasthānamupasthitam ।
7.16.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २५ ॥
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं शैलं समकम्पत । ७.१६.२५ ॥ ॥

evamuktvā tato rāma bhujānvikṣipya parvate ।
tolayāmāsa taṁ śīghraṁ sa śailaṁ samakampata ।
7.16.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २६ ॥
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽश्लिष्टा महेश्वरम् । ७.१६.२६ ॥ ॥

cālanātparvatasyaiva gaṇā devasya kampitāḥ ।
cacāla pārvatī cāpi tadā ' 'śliṣṭā maheśvaram ।
7.16.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २७ ॥
ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया । ७.१६.२७ ॥ ॥

tato rāma mahādavo devānāṁ pravaro haraḥ ।
pādāṅguṣṭhena taṁ śailaṁ pīḍayāmāsa līlayā ।
7.16.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २८ ॥
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः । ७.१६.२८ ॥ ॥

pīḍitāstu tatastasya śailasyādhogatā bhujāḥ ।
vismitāścābhavaṁstatra sacivāstasya rakṣasaḥ ।
7.16.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · २९ ॥
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् । ७.१६.२९ ॥ ॥

rakṣasā tena roṣācca bhujānāṁ pīḍanāttadā ।
mukto virāvaḥ sahasā trailokyaṁ yena kampitam ।
7.16.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३० ॥
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः । ७.१६.३० ॥ ॥

menire vajraniṣpeṣaṁ tasyāmātyā yugakṣaye ।
tadā vartmasthacalitā devā indrapurogamāḥ ।
7.16.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३१ ॥
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् । ७.१६.३१ ॥ ॥

samudrāścāpi saṅkṣubdhāścalitāścāpi parvatāḥ ।
yakṣā vidyādharāḥ siddhāḥ kimetaditi cābruvan ।
7.16.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३२ ॥
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् । ७.१६.३२ ॥ ॥

atha te mantriṇastasya vikrośantamathābruvan ।
toṣayasva mahādevaṁ nīlakaṇṭhamumāpatim ।
7.16.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३३ ॥
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज । ७.१६.३३ ॥ ॥

tamṛte śaraṇaṁ nānyaṁ paśyāmo 'tra daśānana ।
stutibhiḥ praṇato bhūtvā tameva śaraṇaṁ vraja ।
7.16.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३४ ॥
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति । एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् । ७.१६.३४ ॥ ॥

kṛpāluḥ śaṅkarastuṣṭaḥ prasādaṁ te vidhāsyati ।
evamuktastadāmātyaistuṣṭāva vṛṣabhadhvajam ।
7.16.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३५ ॥
सामभिर्विविधैः स्तोत्रैः प्रणम्य दशाननः । संवत्सरसहस्रं तु रुदतो रक्षसो गतम् । ७.१६.३५ ॥ ॥

sāmabhirvividhaiḥ stotraiḥ praṇamya sa daśānanaḥ ।
saṁvatsarasahasraṁ tu rudato rakṣaso gatam ।
7.16.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३६ ॥
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः । मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् । ७.१६.३६ ॥ ॥

tataḥ prīto mahādevaḥ śailāgre viṣṭhitaḥ prabhuḥ ।
muktvā cāsya bhujānrāma prāha vākyaṁ daśānanam ।
7.16.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३७ ॥
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन । शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः । ७.१६.३७ ॥ ॥

prīto 'smi tava vīryasya śauṇḍāryācca daśānana ।
śailākrāntena yo muktastvayā rāvaḥ sudāruṇaḥ ।
7.16.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३८ ॥
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि । ७.१६.३८ ॥ ॥

yasmāllokatrayaṁ caitadrāvitaṁ bhayamāgatam ।
tasmāttvaṁ rāvaṇo nāma nāmnā rājanbhaviṣyasi ।
7.16.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ३९ ॥
देवता मानुषा यक्षा ये चान्ये जगतीतले । एवं त्वामभिधास्यन्ति रावणं लोकरावणम् । ७.१६.३९ ॥ ॥

devatā mānuṣā yakṣā ye cānye jagatītale ।
evaṁ tvāmabhidhāsyanti rāvaṇaṁ lokarāvaṇam ।
7.16.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४० ॥
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् । ७.१६.४० ॥ ॥

gaccha paulastya visrabdhaṁ pathā yena tvamicchasi ।
mayā caivābhyanujñāto rākṣasādhipa gamyatām ।
7.16.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४१ ॥
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् । प्रीतो यदि महादेव वरं मे देहि याचतः । ७.१६.४१ ॥ ॥

evamuktastu laṅkeśaḥ śambhunā svayamabravīt ।
prīto yadi mahādeva varaṁ me dehi yācataḥ ।
7.16.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४२ ॥
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः । राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः । ७.१६.४२ ॥ ॥

avadhyatvaṁ mayā prāptaṁ devagandharvadānavaiḥ ।
rākṣasairguhyakairnāgairye cānye balavattarāḥ ।
7.16.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४३ ॥
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः । दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक । ७.१६.४३ ॥ ॥

mānuṣānna gaṇe deva svalpāste mama sammatāḥ ।
dīrghamāyuśca me prāptaṁ brahmaṇastripurāntaka ।
7.16.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४४ ॥
वाञ्छितं चायुषः शेषं शस्त्रं त्वं प्रयच्छ मे । एवमुक्तस्ततस्तेन रावणेन शङ्करः । ७.१६.४४ ॥ ॥

vāñchitaṁ cāyuṣaḥ śeṣaṁ śastraṁ tvaṁ ca prayaccha me ।
evamuktastatastena rāvaṇena sa śaṅkaraḥ ।
7.16.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४५ ॥
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् । आयुषश्चावशेषं स्थित्वा भूतपतिस्तदा । ७.१६.४५ ॥ ॥

dadau khaḍgaṁ mahādīptaṁ candrahāsamiti śrutam ।
āyuṣaścāvaśeṣaṁ ca sthitvā bhūtapatistadā ।
7.16.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४६ ॥
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया । अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः । ७.१६.४६ ॥ ॥

dattvovāca tataḥ śambhurnāvajñeyamidaṁ tvayā ।
avajñātaṁ yadi hi te māmevaiṣyatyasaṁśayaḥ ।
7.16.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४७ ॥
एवं महेश्वरेणैव कृतनामा रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् । ७.१६.४७ ॥ ॥

evaṁ maheśvareṇaiva kṛtanāmā sa rāvaṇaḥ ।
abhivādya mahādevamārurohātha puṣpakam ।
7.16.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४८ ॥
ततो महीतले राम पर्यक्रामत रावणः । क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः । ७.१६.४८ ॥ ॥

tato mahītale rāma paryakrāmata rāvaṇaḥ ।
kṣatऺitrayānsumahāvīryānbādhamāna itastataḥ ।
7.16.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ४९ ॥
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः । तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः । ७.१६.४९ ॥ ॥

kecittejasvinaḥ śūrāḥ kṣatऺitrayā yuddhadurmadāḥ ।
tacchāsanamakurvanto vineśuḥ saparicchadāḥ ।
7.16.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १६ · ५० ॥
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् । ७.१६.५० ॥

apare durjayaṁ rakṣo jānantaḥ prājñasammatāḥ ।
jitāḥ sma ityabhāṣanta rākṣasaṁ baladarpitam ।
7.16.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.