वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १५ · ४५ श्लोकाःSarga 15 · 45 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १५ · १ ॥
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् । ७.१५.१ ॥ ॥

tatastām̐llakṣya vitrastānyakṣendrāṁśca sahasraśaḥ ।
dhanādhyakṣo mahāyakṣaṁ māṇicāramathābravīt ।
7.15.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २ ॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् । शरणं भव वीराणां यक्षाणां युद्धशालिनाम् । ७.१५.२ ॥ ॥

rāvaṇaṁ jahi yakṣendra durvṛttaṁ pāpacetasam ।
śaraṇaṁ bhava vīrāṇāṁ yakṣāṇāṁ yuddhaśālinām ।
7.15.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३ ॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् । ७.१५.३ ॥ ॥

evamukto mahābāhurmāṇibhadraḥ sudurjayaḥ ।
vṛto yakṣasahasraistu caturbhiḥ samayodhayat ।
7.15.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४ ॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः । अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् । ७.१५.४ ॥ ॥

te gadāmusalaprāsaiḥ śaktitomaramudgaraiḥ ।
abhighnantastadā yakṣā rākṣasānsamupādravan ।
7.15.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ५ ॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु । बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः । ७.१५.५ ॥ ॥

kurvantastumulaṁ yuddhaṁ carantaḥ śyenavallaghu ।
bāḍhaṁ prayacchannecchāmi dīyatāmiti bhāṣiṇaḥ ।
7.15.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ६ ॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः । दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् । ७.१५.६ ॥ ॥

tato devāḥ sagandharvā ṛṣayo brahmavādinaḥ ।
dṛṣṭvā tattumulaṁ yuddhaṁ paraṁ vismayamāgaman ।
7.15.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ७ ॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे । महोदरेण चानिन्द्यं सहस्रमपरं हतम् । ७.१५.७ ॥ ॥

yakṣāṇāṁ tu prahastena sahasraṁ nihataṁ raṇe ।
mahodareṇa cānindyaṁ sahasramaparaṁ hatam ।
7.15.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ८ ॥
क्रुद्धेन तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्रे निपातिते । ७.१५.८ ॥ ॥

kruddhena ca tadā rājanmārīcena yuyutsunā ।
nimeṣāntaramātreṇa dve sahasre nipātite ।
7.15.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ९ ॥
क्व यक्षार्जवं युद्धं क्व मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि । ७.१५.९ ॥ ॥

kva ca yakṣārjavaṁ yuddhaṁ kva ca māyābalāśrayam ।
rakṣasāṁ puruṣavyāghra tena te 'bhyadhikā yudhi ।
7.15.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १० ॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो कम्पितः । ७.१५.१० ॥ ॥

dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe ।
musalenorasi krodhāttaḍito na ca kampitaḥ ।
7.15.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ११ ॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः पपात ह । ७.१५.११ ॥ ॥

tato gadāṁ samāvidhya māṇibhadreṇa rākṣasaḥ ।
dhūmrākṣastāḍito mūrdhni vihvalaḥ sa papāta ha ।
7.15.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १२ ॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः । ७.१५.१२ ॥ ॥

dhūmrākṣaṁ tāḍitaṁ dṛṣṭvā patitaṁ śoṇitokṣitam ।
abhyadhāvata saṅgrāme māṇibhadraṁ daśānanaḥ ।
7.15.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १३ ॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः । ७.१५.१३ ॥ ॥

taṁ kruddhamabhidhāvantaṁ māṇibhadro daśānanam ।
śaktibhistāḍayāmāsa tisṛbhiryakṣapuṅgavaḥ ।
7.15.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १४ ॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् । ७.१५.१४ ॥ ॥

tāḍito māṇibhadrasya mukuṭe prāharadraṇe ।
tasya tena prahārema mukuṭaṁ pārśvamāgatam ।
7.15.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १५ ॥
ततः संयुध्यमानेन विष्टब्धो व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत । ७.१५.१५ ॥ ॥

tataḥ saṁyudhyamānena viṣṭabdho na vyakampata ।
tadāprabhṛti yakṣo 'sau pārśvamauliriti smṛtaḥ ।
sannādaḥ sumahānrājaṁstasminśaile 'bhyavartata ।
7.15.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १६ ॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां पद्मशङ्खसमावृतः । ७.१५.१६ ॥ ॥

tato dūrātpradadṛśe dhanādhyakṣo gadādharaḥ ।
śukraprauṣṭhapadābhyāṁ ca padmaśaṅkhasamāvṛtaḥ ।
7.15.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १७ ॥
दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले । ७.१५.१७ ॥ ॥

sa dṛṣṭvā bhrātaraṁ saṅkhye śāpādvibhraṣṭagauravam ।
uvāca vacanaṁ dhīmānyuktaṁ paitāmahe kule ।
7.15.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १८ ॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः । ७.१५.१८ ॥ ॥

yanmayā vāryamāṇastvaṁ nāvagacchasi durmate ।
paścādasya phalaṁ prāpya jñāsyase nirayaṁ gataḥ ।
7.15.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · १९ ॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । तस्य परिणामान्ते जानीते कर्मणः फलम् । ७.१५.१९ ॥ ॥

yo hi mohādviṣaṁ pītvā nāvagacchati durmatiḥ ।
sa tasya pariṇāmānte jānīte karmaṇaḥ phalam ।
7.15.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २० ॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे । ७.१५.२० ॥ ॥

devatā nābhinandanti dharmayuktena kenacit ।
yena tvamīdṛśaṁ bhāvaṁ nītassannāvabuddhyase ।
7.15.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २१ ॥
मातरं पितरं यो हि आचार्यं चावमन्यते । पश्यति फलं तस्य प्रेतराजवशं गतः । ७.१५.२१ ॥ ॥

mātaraṁ pitaraṁ yo hi ācāryaṁ cāvamanyate ।
sa paśyati phalaṁ tasya pretarājavaśaṁ gataḥ ।
7.15.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २२ ॥
अध्रुवे हि शरीरे यो करोति तपोर्जनम् । पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽत्मनो गतिम् । ७.१५.२२ ॥ ॥

adhruve hi śarīre yo na karoti taporjanam ।
sa paścāttapyate mūḍho mṛto dṛṣṭvā ' 'tmano gatim ।
7.15.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २३ ॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् । ७.१५.२३ ॥ ॥

dharmādrājyaṁ dhanaṁ saukhyamadharmādduḥkhameva ca ।
tasmāddharmaṁ sukhārthāya kuryātpāpaṁ visarjayet ।
7.15.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २४ ॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति । ७.१५.२४ ॥ ॥

pāpasya hi phalaṁ duḥkhaṁ tadbhoktavyamihātmanā ।
tasmādātmāpaghātārthaṁ mūḍhaḥ pāpaṁ kariṣyati ।
7.15.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २५ ॥
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते । ७.१५.२५ ॥ ॥

kasya cinna hi durbuddheśchandato jāyate matiḥ ।
devaṁ ceṣṭayate sarvaṁ hato daivena hanyate ।
yādṛśaṁ kurute karma tādṛśaṁ phalamaśnute ।
7.15.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २६ ॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः । ७.१५.२६ ॥ ॥

buddhirūpaṁ phalaṁ putrāñchauryaṁ dhīratvameva ca ।
prāpnuvanti narā loke nirjitaṁ puṇyakarmabhiḥ ।
7.15.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २७ ॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः । ७.१५.२७ ॥ ॥

evaṁ nirayagāmī tvaṁ yasya te matirīdṛśī ।
na tvāṁ samabhibhāṣiṣye 'sadvṛtteṣveva nirṇayaḥ ।
7.15.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २८ ॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः । ७.१५.२८ ॥ ॥

evamuktāstatastena tasyāmātyāḥ samāhatāḥ ।
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ ।
7.15.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · २९ ॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि स्थानात्प्रकम्पितः । ७.१५.२९ ॥ ॥

tatastena daśagrīvo yakṣendreṇa mahātmanā ।
gadayābhihato mūrdhni na ca sthānātprakampitaḥ ।
7.15.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३० ॥
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । विह्वलौ श्रान्तौ बभूवतुरमर्षणौ । ७.१५.३० ॥ ॥

tatastau rāma nighnantau tadānyonyaṁ mahāmṛdhe ।
na vihvalau na ca śrāntau babhūvaturamarṣaṇau ।
7.15.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३१ ॥
आग्नेयमस्त्रं तस्मै मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् । ७.१५.३१ ॥ ॥

āgneyamastraṁ tasmai sa mumoca dhanadastadā ।
rākṣasendro vāruṇena tadastraṁ pratyavārayat ।
7.15.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३२ ॥
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च । ७.१५.३२ ॥ ॥

tato māyāṁ praviṣṭo 'sau rākṣasīṁ rākṣaseśvaraḥ ।
rūpāṇāṁ śatasāhasraṁ vināśāya cakāra ca ।
7.15.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३३ ॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी सो ऽदृश्यत दशाननः । ७.१५.३३ ॥ ॥

vyāghro varāho jīmūtaḥ parvataḥ sāgaro drumaḥ ।
yakṣo daityasvarūpī ca so 'dṛśyata daśānanaḥ ।
7.15.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३४ ॥
बहूनि करोति स्म दृश्यन्ते त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः । ७.१५.३४ ॥ ॥

bahūni ca karoti sma dṛśyante na tvasau tataḥ ।
pratigṛhya tato rāma mahadastraṁ daśānanaḥ ।
7.15.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३५ ॥
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं तेनाभिहतो विह्वलः शोणितोक्षितः । ७.१५.३५ ॥ ॥

jaghāna mūrdhni dhanadaṁ vyāviddhya mahatīṁ gadām ।
evaṁ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ ।
7.15.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३६ ॥
कृत्तमूल इवाशोको निपपात धनाधिपः । ७.१५.३६ ॥ ॥

kṛttamūla ivāśoko nipapāta dhanādhipaḥ ।
7.15.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३७ ॥
ततः पद्मादिभिस्तत्र निधिभिः तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् । ७.१५.३७ ॥ ॥

tataḥ padmādibhistatra nidhibhiḥ sa tadā vṛtaḥ ।
dhanadocchvāsitastaistu vanamānīya nandanam ।
7.15.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३८ ॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् । ७.१५.३८ ॥ ॥

nirjitya rākṣasendrastaṁ dhanadaṁ hṛṣṭamānasaḥ ।
puṣpakaṁ tasya jagrāha vimānaṁ jayalakṣaṇam ।
7.15.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ३९ ॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् । ७.१५.३९ ॥ ॥

kāñcanastambhasaṁvītaṁ vaiḍūryamaṇitoraṇam ।
muktājālapraticchannaṁ sarvakāmaphaladrumam ।
7.15.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४० ॥
मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् । ७.१५.४० ॥ ॥

manojavaṁ kāmagamaṁ kāmarūpaṁ vihaṅgamam ।
maṇikāñcanasopānaṁ taptakāñcanavedikam ।
7.15.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४१ ॥
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् । ७.१५.४१ ॥ ॥

devopavāhyamakṣayyaṁ sadādṛṣṭimanaḥsukham ।
bahvāścaryaṁ bhakticitraṁ brahmaṇā parinirmitam ।
7.15.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४२ ॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । तु शीतं चोष्णं सर्वर्तुसुखदं शुभम् । ७.१५.४२ ॥ ॥

nirmitaṁ sarvakāmaistu manoharamanuttamam ।
na tu śītaṁ na coṣṇaṁ ca sarvartusukhadaṁ śubham ।
7.15.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४३ ॥
तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः । ७.१५.४३ ॥ ॥

sa taṁ rājā samāruhya kāmagaṁ vīryanirjitam ।
jitaṁ tribhuvanaṁ mene darpotsekātsudurmatiḥ ।
7.15.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४४ ॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत् । ७.१५.४४ ॥ ॥

jitvā vaiśravaṇaṁ devaṁ kailāsātsamavātarat ।
7.15.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १५ · ४५ ॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः । ७.१५.४५ ॥

svatejasā vipulamavāpya taṁ jayaṁ pratāpavānvimalakirīṭahāravān ।
rarāja vai paramavimānamāsthito niśācaraḥ sadasi gato yathānalaḥ ।
7.15.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.