वाल्मीकि रामायणम् · किष्किन्धाकाण्डम्Kiṣkindhā Kāṇḍa

किष्किन्धाकाण्डम्Kiṣkindhā Kāṇḍa

सर्गः ६५ · २९ श्लोकाःSarga 65 · 29 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ४ · ६५ · २ ॥
अथ अंगद वचः श्रुत्वा सर्वे ते वानर उत्तमाः । स्वम् स्वम् गतौ समुत्साहम् ऊचुः तत्र यथा क्रमम् ४-६५-१ गजो गवाक्षो गवयः शरभो गंधमादनः । मैन्दः द्विविदः चैव सुषेणो जांबवान् तथा ॥

atha aṁgada vacaḥ śrutvā sarve te vānara uttamāḥ ।
svam svam gatau samutsāham ūcuḥ tatra yathā kramam ॥ 4-65-1 gajo gavākṣo gavayaḥ śarabho gaṁdhamādanaḥ ।
maindaḥ ca dvividaḥ caiva suṣeṇo jāṁbavān tathā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३ ॥
आबभाषे गजः तत्र प्लवेयम् दश योजनम् । गवाक्षो योजनानि आह गमिष्यामि इति विंशतिम् ॥

ābabhāṣe gajaḥ tatra plaveyam daśa yojanam ।
gavākṣo yojanāni āha gamiṣyāmi iti viṁśatim ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ९ ॥
शरभो वानरः तत्र वानरान् तान् उवाच ह । त्रिंशत् गमिष्यामि योजनानाम् प्लवंगमाः ४-६५-४ ऋषरभो वानरः तत्र वानरान् तान् उवाच ह । चत्वारिंशत् गमिष्यामि योजनानाम् संशयः ४-६५-५ वानरान् तु महातेजा अब्रवीत् गंधमादनः । योजनानाम् गमिष्यामि पंचाशत् तु संशयः ४-६५-६ मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह । योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे ४-६५-७ ततः तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि संदेहः सप्ततिम् योजनानि अहम् ४-६५-८ सुषेणः तु महातेजाः सत्त्ववान् कपि सत्तमः । अशीतिम् प्रतिजाने अहम् योजनानाम् पराक्रमे ॥

śarabho vānaraḥ tatra vānarān tān uvāca ha ।
triṁśat gamiṣyāmi yojanānām plavaṁgamāḥ ॥ 4-65-4 ṛṣarabho vānaraḥ tatra vānarān tān uvāca ha ।
catvāriṁśat gamiṣyāmi yojanānām na saṁśayaḥ ॥ 4-65-5 vānarān tu mahātejā abravīt gaṁdhamādanaḥ ।
yojanānām gamiṣyāmi paṁcāśat tu na saṁśayaḥ ॥ 4-65-6 maindaḥ tu vānaraḥ tatra vānarān tān uvāca ha ।
yojanānām param ṣaṣṭim aham plavitum utsahe ॥ 4-65-7 tataḥ tatra mahātejā dvividaḥ pratyabhāṣata ।
gamiṣyāmi na saṁdehaḥ saptatim yojanāni aham ॥ 4-65-8 suṣeṇaḥ tu mahātejāḥ sattvavān kapi sattamaḥ ।
aśītim pratijāne aham yojanānām parākrame ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १० ॥
तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च । ततो वृद्धतमः तेषाम् जांबवान् प्रत्यभाषत ॥

teṣām kathayatām tatra sarvān tān anumānya ca ।
tato vṛddhatamaḥ teṣām jāṁbavān pratyabhāṣata ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ११ ॥
पूर्वम् अस्माकम् अपि आसीत् कश्चित् गति पराक्रमः । ते वयम् वयसः पारम् अनुप्राप्ताः स्म सांप्रतम् ॥

pūrvam asmākam api āsīt kaścit gati parākramaḥ ।
te vayam vayasaḥ pāram anuprāptāḥ sma sāṁpratam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १२ ॥
किम् तु एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् । यद् अर्थम् कपि राजः रामः कृत निश्चयौ ॥

kim tu na evam gate śakyam idam kāryam upekṣitum ।
yad artham kapi rājaḥ ca rāmaḥ ca kṛta niścayau ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १३ ॥
सांप्रतम् कालम् अस्माकम् या गतिः ताम् निबोधत । नवतिम् योजनानाम् तु गमिष्यामि संशयः ॥

sāṁpratam kālam asmākam yā gatiḥ tām nibodhata ।
navatim yojanānām tu gamiṣyāmi na saṁśayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १४ ॥
तान् सर्वान् हरि श्रेष्ठान् जांबवान् इदम् अब्रवीत् । खलु एतावत् एव आसीत् गमने मे पराक्रमः ॥

tān ca sarvān hari śreṣṭhān jāṁbavān idam abravīt ।
na khalu etāvat eva āsīt gamane me parākramaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १५ ॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः । प्रदक्षिणी कृतः पूर्वम् क्रममाणः त्रिविक्रमः ॥

mayā vairocane yajñe prabhaviṣṇuḥ sanātanaḥ ।
pradakṣiṇī kṛtaḥ pūrvam kramamāṇaḥ trivikramaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १६ ॥
इदानीम् अहम् वृद्धः प्लवने मन्दविक्रमः । यौवने तदा आसीत् मे बलम् अप्रतिमम् परम् ॥

sa idānīm aham vṛddhaḥ plavane mandavikramaḥ ।
yauvane ca tadā āsīt me balam apratimam param ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १७ ॥
संप्रति एतावत् एव अद्य शक्यम् मे गमने स्वतः । एतावता संसिद्धिः कार्यस्य अस्य भविष्यति ॥

saṁprati etāvat eva adya śakyam me gamane svataḥ ।
na etāvatā ca saṁsiddhiḥ kāryasya asya bhaviṣyati ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १८ ॥
अथ उत्तरम् उदार अर्थम् अब्रवीत् अंगदः तदा । अनुमान्य महाप्राज्ञो जांबवंतम् महाकपिम् ॥

atha uttaram udāra artham abravīt aṁgadaḥ tadā ।
anumānya mahāprājño jāṁbavaṁtam mahākapim ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · १९ ॥
अहम् एतत् गमिष्यामि योजनानाम् शतम् महत् । निवर्तने तु मे शक्तिः स्यात् वा इति निश्चितम् ॥

aham etat gamiṣyāmi yojanānām śatam mahat ।
nivartane tu me śaktiḥ syāt na vā iti na niścitam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २० ॥
तम् उवाच हरि श्रेष्ठो जांबवान् वाक्य कोविदः । ज्ञायते गमने शक्तिः तव हरि ऋक्ष सत्तम ॥

tam uvāca hari śreṣṭho jāṁbavān vākya kovidaḥ ।
jñāyate gamane śaktiḥ tava hari ṛkṣa sattama ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २१ ॥
कामम् शत सहस्रम् वा हि एष विधिः उच्यते । योजनानाम् भवान् शक्तो गन्तुम् प्रतिनिवर्तितुम् ॥

kāmam śata sahasram vā na hi eṣa vidhiḥ ucyate ।
yojanānām bhavān śakto gantum pratinivartitum ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २२ ॥
हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवता अयम् जनः सर्वः प्रेष्यः प्लवग सत्तम ॥

na hi preṣayitā tāta svāmī preṣyaḥ kathaṁcana ।
bhavatā ayam janaḥ sarvaḥ preṣyaḥ plavaga sattama ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २३ ॥
भवान् कलत्रम् अस्माकम् स्वामि भावे व्यवस्थितः । स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप ॥

bhavān kalatram asmākam svāmi bhāve vyavasthitaḥ ।
svāmī kalatram sainyasya gatiḥ eṣā paraṁtapa ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २४ ॥
अपि वै एतस्य कार्यस्य भवान् मूलम् अरिम् दम । तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥

api vai etasya kāryasya bhavān mūlam arim dama ।
tasmāt kalatravat tāta pratipālyaḥ sadā bhavān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २५ ॥
मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदाम् नयः । मूले हि सति सिध्यन्ति गुणाः पुष्प फल उदयः ॥

mūlam arthasya saṁrakṣyam eṣa kāryavidām nayaḥ ।
mūle hi sati sidhyanti guṇāḥ puṣpa phala udayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २६ ॥
तद् भवान् अस्य कार्यस्य साधनम् सत्य विक्रमः । बुद्धि विक्रम संपन्नो हेतुः अत्र परंतपः ॥

tad bhavān asya kāryasya sādhanam satya vikramaḥ ।
buddhi vikrama saṁpanno hetuḥ atra paraṁtapaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २७ ॥
गुरुः गुरु पुत्रः त्वम् हि नः कपि सत्तम । भवन्तम् आश्रित्य वयम् समर्था हि अर्थ साधने ॥

guruḥ ca guru putraḥ ca tvam hi naḥ kapi sattama ।
bhavantam āśritya vayam samarthā hi artha sādhane ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २८ ॥
उक्त वाक्यम् महाप्राज्ञम् जांबवंतम् महाकपिः । प्रत्युवाच उत्तरम् वाक्यम् वालि सूनुः अथ अंगदः ॥

ukta vākyam mahāprājñam jāṁbavaṁtam mahākapiḥ ।
pratyuvāca uttaram vākyam vāli sūnuḥ atha aṁgadaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · २९ ॥
यदि अहम् गमिष्यामि अन्यो वानर पुंगवः । पुनः खलु इदम् अस्माभिः कार्यम् प्रायोपवेशनम् ॥

yadi na aham gamiṣyāmi na anyo vānara puṁgavaḥ ।
punaḥ khalu idam asmābhiḥ kāryam prāyopaveśanam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३० ॥
हि अकृत्वा हरि पतेः संदेशम् तस्य धीमतः । तत्र अपि गत्वा प्राणानाम् पश्यामि परिरक्षणम् ॥

na hi akṛtvā hari pateḥ saṁdeśam tasya dhīmataḥ ।
tatra api gatvā prāṇānām na paśyāmi parirakṣaṇam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३१ ॥
हि प्रसादे अत्यर्थम् कोपे हरिः ईश्वरः । अतीत्य तस्य संदेशम् विनाशो गमने भवेत् ॥

sa hi prasāde ca atyartham kope ca hariḥ īśvaraḥ ।
atītya tasya saṁdeśam vināśo gamane bhavet ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३२ ॥
तत् तथा हि अस्य कार्यस्य भवति अन्यथा गतिः । तत् भवान् एव दृष्ट अर्थः संचिंतयितुम् अर्हति ॥

tat tathā hi asya kāryasya na bhavati anyathā gatiḥ ।
tat bhavān eva dṛṣṭa arthaḥ saṁciṁtayitum arhati ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३३ ॥
सः अंगदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः । जांबवान् उत्तमम् वाक्यम् प्रोवाच इदम् ततो अंगदम् ॥

saḥ aṁgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ ।
jāṁbavān uttamam vākyam provāca idam tato aṁgadam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३४ ॥
तस्य ते वीर कार्यस्य किंचित् परिहास्यते । एष संचोदयामि एनम् यः कार्यम् साधयिष्यति ॥

tasya te vīra kāryasya na kiṁcit parihāsyate ।
eṣa saṁcodayāmi enam yaḥ kāryam sādhayiṣyati ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ६५ · ३५ ॥
ततः प्रतीतम् प्लवताम् वरिष्ठम् एकांतम् आश्रित्य सुखोपविष्टम् । संचोदयामास हरि प्रवीरो हरिप्रवीरम् हनुमंतम् एव ॥

tataḥ pratītam plavatām variṣṭham ekāṁtam āśritya sukhopaviṣṭam ।
saṁcodayāmāsa hari pravīro haripravīram hanumaṁtam eva ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.