वाल्मीकि रामायणम् · किष्किन्धाकाण्डम्Kiṣkindhā Kāṇḍa

किष्किन्धाकाण्डम्Kiṣkindhā Kāṇḍa

सर्गः ५० · ४१ श्लोकाःSarga 50 · 41 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ४ · ५० · १ ॥
सह तारा अंगदाभ्याम् तु संगम्य हनुमान् कपिः । विचिनोति विन्ध्यस्य गुहाः गहनानि च ॥

saha tārā aṁgadābhyām tu saṁgamya hanumān kapiḥ ।
vicinoti ca vindhyasya guhāḥ ca gahanāni ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २ ॥
सिंह शार्दूल जुष्टाः गुहाः परितः तथा । विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥

siṁha śārdūla juṣṭāḥ ca guhāḥ ca paritaḥ tathā ।
viṣameṣu naga indrasya mahā prasravaṇeṣu ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३ ॥
आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् । तेषाम् तत्र एव वसताम् कालो व्यत्यवर्तत ॥

āseduḥ tasya śailasya koṭim dakṣiṇa pascimām ।
teṣām tatra eva vasatām sa kālo vyatyavartata ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ४ ॥
हि देशो दुरन्वेष्यो गुहा गहनवान् महान् । तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥

sa hi deśo duranveṣyo guhā gahanavān mahān ।
tatra vāyu sutaḥ sarvam vicinoti sma parvatam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ५ ॥
परस्परेण रहिता अन्योन्यस्य अविदूरतः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥

paraspareṇa rahitā anyonyasya avidūrataḥ ।
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ६ ॥
मैन्दः द्विविदः चैव हनुमान् जांबवान् अपि । अंगदो युव राजः तारः वनगोचरः ॥

maindaḥ ca dvividaḥ caiva hanumān jāṁbavān api ।
aṁgado yuva rājaḥ ca tāraḥ ca vanagocaraḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ७ ॥
गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् । विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥

giri jāla āvṛtān deśān mārgitvā dakṣiṇām diśam ।
vicinvantaḥ tataḥ tatra dadṛśuḥ vivṛtam bilam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ८ ॥
दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् । क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥

durgam ṛkṣa bilam nāma dānavena abhirakṣitam ।
kṣut pipāsā parītāḥ tu śrāntāḥ tu salila arthinaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ९ ॥
अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् । तत्र क्रौन्चाः हंसाः सारसाः अपि निष्क्रमन् ॥

avakīrṇam latā vṛkṣaiḥ dadṛśuḥ te mahā bilam ।
tatra krauncāḥ ca haṁsāḥ ca sārasāḥ ca api niṣkraman ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १० ॥
जल आर्द्राः चक्रवाकाः रक्त अंगाः पद्म रेणुभिः । ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥

jala ārdrāḥ cakravākāḥ ca rakta aṁgāḥ padma reṇubhiḥ ।
tataḥ tat bilam āsādya sugandhi duratikramam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ११ ॥
विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः । संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥

vismaya vyagra manaso babhūvuḥ vānararṣabhāḥ ।
saṁjāta pariśaṁkāḥ te tat bilam plavaga uttamāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १२ ॥
अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः । नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥

abhyapadyanta saṁhṛṣṭāḥ tejovanto mahābalāḥ ।
nānā sattva samākīrṇām daitya indra nilaya upamam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १३ ॥
दुर्दर्शम् इव घोरम् दुर्विगाह्यम् सर्वशः । ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥

durdarśam iva ghoram ca durvigāhyam ca sarvaśaḥ ।
tataḥ parvata kūṭa ābho hanumān māruta ātmajaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १४ ॥
अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः । गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥

abravīt vānarān ghorān kāntāra vana kovidaḥ ।
giri jāla āvṛtān deśān mārgitvā dakṣiṇām diśam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १५ ॥
वयम् सर्वे परिश्रांता पश्याम मैथिलीम् । अस्मात् अपि बिलात् हंसाः क्रौन्चाः सह सारसैः ॥

vayam sarve pariśrāṁtā na ca paśyāma maithilīm ।
asmāt ca api bilāt haṁsāḥ krauncāḥ ca saha sārasaiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १६ ॥
जल आर्द्राः चक्रवाकाः निष्पतन्ति स्म सर्वशः । नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥

jala ārdrāḥ cakravākāḥ ca niṣpatanti sma sarvaśaḥ ।
nūnam salilavān atra kūpo vā yadi vā hradaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १७ ॥
तथा इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः । इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥

tathā ca ime bila dvāre snigdhāḥ tiṣṭhanti pādapāḥ ।
iti uktāḥ tat bilam sarve viviśuḥ timira āvṛtam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १८ ॥
अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् । निशम्य तस्मात् सिंहाः तान् तान् मृग पक्षिणः ॥

acandra sūryam harayo dadṛśū roma harṣaṇam ।
niśamya tasmāt siṁhāḥ ca tān tān ca mṛga pakṣiṇaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · १९ ॥
प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् । तेषाम् सज्जते दृष्टिः तेजः पराक्रमः ॥

praviṣṭā hari śārdūlā bilam timira āvṛtam ।
na teṣām sajjate dṛṣṭiḥ na tejaḥ na parākramaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २० ॥
वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते । ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥

vāyoḥ iva gatiḥ teṣām dṛṣṭiḥ tam api vartate ।
te praviṣṭāḥ tu vegena tat bilam kapi kuṁjarāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २१ ॥
प्रकाशम् अभिरामम् ददृशुः देशम् उत्तमम् । ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥

prakāśam ca abhirāmam ca dadṛśuḥ deśam uttamam ।
tataḥ tasmin bile bhīme nānā pādapa saṁkule ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २२ ॥
अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् । ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥

anyonyam saṁpariṣvajya jagmur yojanam aṁtaram ।
te naṣṭa saṁjñāḥ tṛṣitāḥ saṁbhrāṁtāḥ salila arthinaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २३ ॥
परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः । ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥

paripetur bile tasmin kaṁcit kālam atandritāḥ ।
te kṛśā dīna vadanāḥ pariśrāntāḥ plavaṁgamāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २४ ॥
आलोकम् ददृशुः वीरा निराशा जीविते यदा । ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥

ālokam dadṛśuḥ vīrā nirāśā jīvite yadā ।
tataḥ tam deśam āgamya saumyāḥ vitimiram vanam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २५ ॥
ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् । सालान् तालान् तमालान् पुन्नागान् वंजुलान् धवान् ॥

dadṛśuḥ kāncanān vṛkṣān dīpta vaiśvānara prabhān ।
sālān tālān tamālān ca punnāgān vaṁjulān dhavān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २६ ॥
चंपकान् नाग वृक्षान् कर्णिकारान् पुष्पितान् । स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥

caṁpakān nāga vṛkṣān ca karṇikārān ca puṣpitān ।
stabakaiḥ kāṁcanaiḥ citraiḥ raktaiḥ kisalayaiḥ tathā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २७ ॥
आपीडैः लताभिः हेम आभरण भूषितैः । तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥

āpīḍaiḥ ca latābhiḥ ca hema ābharaṇa bhūṣitaiḥ ।
taruṇa āditya saṁkāśān vaidūryamaya vedikān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २८ ॥
विभ्राजमानान् वपुषा पादपान् हिरण्मयान् । नील वैदूर्य वर्णाः पद्मिनीः पतगैः आवृताः ॥

vibhrājamānān vapuṣā pādapān ca hiraṇmayān ।
nīla vaidūrya varṇāḥ ca padminīḥ patagaiḥ āvṛtāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · २९ ॥
महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः । जातरूपमयैः मत्स्यैः महद्भिः अथ पन्कजैः ॥

mahadbhiḥ kāṁcanaiḥ vṛkṣaiḥ vṛtā bāla arka saṁnibhaiḥ ।
jātarūpamayaiḥ matsyaiḥ mahadbhiḥ ca atha pankajaiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३० ॥
नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः । कांचनानि विमानानि राजतानि तथा एव च ॥

nalinīḥ tatra dadṛśuḥ prasanna salila āyutāḥ ।
kāṁcanāni vimānāni rājatāni tathā eva ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३१ ॥
तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च । हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥

tapanīya gavākṣāṇi muktā jāla āvṛtāni ca ।
haima rājata bhaumāni vaidūrya maṇimanti ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३२ ॥
ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः । पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥

dadṛśuḥ tatra harayo gṛha mukhyāni sarvaśaḥ ।
puṣpitān phalino vṛkṣān pravāla maṇi saṁnibhān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३३ ॥
कांचन भ्रमरान् चैव मधूनि समन्ततः । मणि कांचन चित्राणि शयनानि आसनानि च ॥

kāṁcana bhramarān caiva madhūni ca samantataḥ ।
maṇi kāṁcana citrāṇi śayanāni āsanāni ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३४ ॥
विविधानि विशालानि ददृशुः ते समन्ततः । हेम रजत कांस्यानाम् भाजनानाम् राशयः ॥

vividhāni viśālāni dadṛśuḥ te samantataḥ ।
hema rajata kāṁsyānām bhājanānām ca rāśayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३५ ॥
अगुरूणाम् दिव्यानाम् चंदनानाम् संचयम् । शुचीनि अभ्यवहाराणि मूलानि फलानि च ॥

agurūṇām ca divyānām caṁdanānām ca saṁcayam ।
śucīni abhyavahārāṇi mūlāni ca phalāni ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३६ ॥
महा अर्हाणि पानानि मधूनि रसवन्ति च । दिव्यानाम् अम्बराणाम् महा अर्हाणाम् संचयान् ॥

mahā arhāṇi ca pānāni madhūni rasavanti ca ।
divyānām ambarāṇām ca mahā arhāṇām ca saṁcayān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३७ ॥
कंबलानाम् चित्राणाम् अजिनानाम् संचयान् । तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥

kaṁbalānām ca citrāṇām ajinānām ca saṁcayān ।
tatra tatra vinyastān dīptān vaiśvānara prabhān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३८ ॥
ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥

dadṛśuḥ vānarāḥ śubhrān jātarūpasya saṁcayān ।
tatra tatra vicinvanto bile tatra mahā prabhāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ३९ ॥
ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः । ताम् ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥

dadṛśuḥ vānarāḥ śūrāḥ striyam kāṁcit adūrataḥ ।
tām ca te dadṛśuḥ tatra cīra kṛṣṇa ajina ambarām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ४० ॥
तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा । विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः । प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥

tāpasīm niyata āhārām jvalaṁtīm iva tejasā ।
vismitā harayaḥ tatra vyavatiṣṭanta sarvaśaḥ ।
prapaccha hanumān tatra kā asi tvam kasya vā bilam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ४ · ५० · ४१ ॥
ततो हनूमान् गिरि सन्निकाशःकृत अंजलिः ताम् अभिवाद्य वृद्धाम् । पप्रच्छ का त्वम् भवनम् बिलम् चरत्नानि इमानि वदस्व कस्य ॥

tato hanūmān giri sannikāśaḥkṛta aṁjaliḥ tām abhivādya vṛddhām ।
papraccha kā tvam bhavanam bilam caratnāni ca imāni vadasva kasya ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.