वाल्मीकि रामायणम् · अरण्यकाण्डम्Araṇya Kāṇḍa

अरण्यकाण्डम्Araṇya Kāṇḍa

सर्गः ६ · २६ श्लोकाःSarga 6 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ३ · ६ · १ ॥
शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः । अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥

śarabhaṅge divam prāpte muni saṁghāḥ samāgatāḥ ।
abhyagacchanta kākutstham rāmam jvalita tejasam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २ ॥
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः । अश्म कुट्टाः बहवः पत्र आहाराः तापसाः ॥

vaikhānasā vālakhilyāḥ saṁprakṣālā marīcipāḥ ।
aśma kuṭṭāḥ ca bahavaḥ patra āhārāḥ ca tāpasāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ३ ॥
दन्त उलूखलिनः एव तथा एव उन्मज्जकाः परे । गात्र शय्या अशय्याः तथा एव अनवकाशिकाः ॥

danta ulūkhalinaḥ ca eva tathā eva unmajjakāḥ pare ।
gātra śayyā aśayyāḥ ca tathā eva anavakāśikāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ४ ॥
मुनयः सलिल आहारा वायु भक्षाः तथा अपरे । आकाश निलयाः एव तथा स्थण्डिल शायिनः ॥

munayaḥ salila āhārā vāyu bhakṣāḥ tathā apare ।
ākāśa nilayāḥ ca eva tathā sthaṇḍila śāyinaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ५ ॥
तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः । जपाः तपो नित्याः तथा पंच तपोऽन्विताः ॥

tathā ūrthva vāsinaḥ dāntāḥ tathā ārdra paṭa vāsasaḥ ।
sa japāḥ ca tapo nityāḥ tathā paṁca tapo'nvitāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ६ ॥
सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः । शरभंग आश्रमे रामम् अभिजग्मुः तापसाः ॥

sarve brāhmyā śriyā jyuktā dṛḍha yoga samāhitāḥ ।
śarabhaṁga āśrame rāmam abhijagmuḥ ca tāpasāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ७ ॥
अभिगम्य धर्मज्ञा रामम् धर्म भृताम् वरम् । ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥

abhigamya ca dharmajñā rāmam dharma bhṛtām varam ।
ūcuḥ parama dharmajñam ṛṣi saṁghāḥ samāgatāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ८ ॥
त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः महारथः । प्रधानः अपि नाथः देवानाम् मघवान् इव ॥

tvam ikṣvāku kulasya asya pṛthivyāḥ ca mahārathaḥ ।
pradhānaḥ ca api nāthaḥ ca devānām maghavān iva ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ९ ॥
विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च । पितृ व्रतत्वम् सत्यम् त्वयि धर्मः पुष्कलः ॥

viśrutaḥ triṣu lokeṣu yaśasā vikrameṇa ca ।
pitṛ vratatvam satyam ca tvayi dharmaḥ ca puṣkalaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १० ॥
त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् । अर्थित्वात् नाथ वक्ष्यामः तत् नः क्षन्तुम् अर्हसि ॥

tvām āsādya mahātmānam dharmajñam dharma vatsalam ।
arthitvāt nātha vakṣyāmaḥ tat ca naḥ kṣantum arhasi ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · ११ ॥
अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः । यो हरेत् बलि षड् भागम् रक्षति पुत्रवत् ॥

adhārmaḥ sumahān nātha bhavet tasya tu bhūpateḥ ।
yo haret bali ṣaḍ bhāgam na ca rakṣati putravat ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १२ ॥
युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव । नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥

yuṁjānaḥ svān iva prāṇān prāṇaiḥ iṣṭān sutān iva ।
nitya yuktaḥ sadā rakṣan sarvān viṣaya vāsinaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १३ ॥
प्राप्नोति शाश्वतीम् राम कीर्तिम् बहु वार्षिकीम् । ब्रह्मणः स्थानम् आसाद्य तत्र अपि महीयते ॥

prāpnoti śāśvatīm rāma kīrtim sa bahu vārṣikīm ।
brahmaṇaḥ sthānam āsādya tatra ca api mahīyate ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १४ ॥
यत् करोति परम् धर्मम् मुनिः मूल फल अशनः । तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥

yat karoti param dharmam muniḥ mūla phala aśanaḥ ।
tatra rājñaḥ catur bhāgaḥ prajā dharmeṇa rakṣataḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १५ ॥
सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् । त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥

so ayam brāhmaṇa bhūyiṣṭho vānaprastha gaṇo mahān ।
tvam nātho anāthavat rāma rākṣasaiḥ hanyate bhṛśam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १६ ॥
एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् । हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥

ehi paśya śarīrāṇi munīnām bhāvita ātmanām ।
hatānām rākṣasaiḥ ghoraiḥ bahūnām bahudhā vane ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १७ ॥
पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि । चित्रकूट आलयानाम् क्रियते कदनम् महत् ॥

paṁpā nadī nivāsānām anumandākinīm api ।
citrakūṭa ālayānām ca kriyate kadanam mahat ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १८ ॥
एवम् वयम् मृष्यामो विप्रकारम् तपस्विनाम् । क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥

evam vayam na mṛṣyāmo viprakāram tapasvinām ।
kriyamāṇam vane ghoram rakṣobhiḥ bhīma karmabhiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · १९ ॥
ततः त्वाम् शरणार्थम् शरण्यम् समुपस्थिताः । परिपालय नः राम वध्यमानान् निशाचरैः ॥

tataḥ tvām śaraṇārtham ca śaraṇyam samupasthitāḥ ।
paripālaya naḥ rāma vadhyamānān niśācaraiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २० ॥
परा त्वत्तः गतिः वीर पृधिव्यम् उपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥

parā tvattaḥ gatiḥ vīra pṛdhivyam na upapadyate ।
paripālaya naḥ sarvān rākṣasebhyo nṛpātmajaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २१ ॥
एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् । इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥

etat śrutvā tu kākutsthaḥ tāpasānām tapasvinām ।
idam provāca dharmātmā sarvān eva tapasvinaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २२ ॥
एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् । केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥

na evam arhatha mām vaktum ājñāpyaḥ aham tapasvinām ।
kevalena sva kāryeṇa praveṣṭavyam vanam mayā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २३ ॥
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् । पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥

viprakāram apākraṣṭum rākṣasaiḥ bhavatām imam ।
pituḥ tu nirdeśakaraḥ praviṣṭo aham idam vanam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २४ ॥
भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया । तस्य मे अयम् वने वासो भविष्यति महाफलः ॥

bhavatām artha siddhyartham āgato'ham yadṛcchayā ।
tasya me ayam vane vāso bhaviṣyati mahāphalaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २५ ॥
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् । पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥

tapasvinām raṇe śatrūn hantum icchāmi rākṣasān ।
paśyantu vīryam ṛṣayaḥ saḥ brātur me tapodhanāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ३ · ६ · २६ ॥
दत्त्वा अभयम् अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन । तपो धनैः अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥

dattvā abhayam ca api tapo dhanānāmdharme dhṛita ātmā saha lakṣmaṇena ।
tapo dhanaiḥ ca api saha ārya dattaḥsutīkṣṇam eva abhijagāma vīraḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.