वाल्मीकि रामायणम् · अयोध्याकाण्डम्Ayodhyā Kāṇḍa

अयोध्याकाण्डम्Ayodhyā Kāṇḍa

सर्गः ८९ · २२ श्लोकाःSarga 89 · 22 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ २ · ८९ · १ ॥
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् । २.८९.१ ॥

vyuṣya rātriṁ tu tatraiva gaṅgākūle sa rāghava: ।
bharata: kālyamutthāya śatrughnamidamabravīt ।
2.89.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · २ ॥
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् । २.८९.२ ॥

śatrughnottiṣṭha kiṁ śeṣe niṣādādhipatiṁ guham ।
śīghramānaya bhadraṁ te tārayiṣyati vāhinīm ।
2.89.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ३ ॥
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: । २.८९.३ ॥

jāgarmi nāhaṁ svapimi tamevāryyaṁ vicintayan ।
ityevamabravīdbhrātrā śatrughnopi pracodita: ।
2.89.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ४ ॥
इति संवदतोरेवमन्योन्यं नरसिंहयो: । आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् । २.८९.४ ॥

iti saṁvadatorevamanyonyaṁ narasiṁhayo: ।
āgamya prāñjali: kāle guho bharatamabravīt ।
2.89.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ५ ॥
कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् । २.८९.५ ॥

kaccitsukhaṁ nadītīre 'vātsī: kākutstha śarvarīm ।
kaccitte sahasainyasya tāvatsarvamanāmayam ।
2.89.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ६ ॥
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् । २.८९.६ ॥

guhasya tattu vacanaṁ śrutvā snehādudīritam ।
rāmasyānuvaśo vākyaṁ bharato 'pīdamabravīt ।
2.89.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ७ ॥
सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: । २.८९.७ ॥

sukhā na: śarvarī rājan pūjitāścāpi te vayam ।
gaṅgāṁ tu naubhirbahvībhirdāśā: santārayantu na: ।
2.89.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ८ ॥
ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् । २.८९.८ ॥

tato guha: saṁtvaritaṁ śrutvā bharataśāsanam ।
pratipraviśya nagaraṁ taṁ jñātijanamabravīt ।
2.89.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ९ ॥
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु व: सदा । नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् । २.८९.९ ॥

uttiṣṭhata prabudhyadhvaṁ bhadramastu ca va: sadā ।
nāva: samanukarṣadhvaṁ tārayiṣyāma vāhinīm ।
2.89.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १० ॥
ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्यु: समन्तत: । २.८९.१० ॥

te tathoktā: samutthāya tvaritā rājaśāsanāt ।
pañca nāvāṁ śatānyāśu samāninyu: samantata: ।
2.89.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · ११ ॥
अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: । २.८९.११ ॥

anyā: svastikavijñeyā mahāghaṇṭādharā varā: ।
śobhamānā: patākābhiryuktavātā: susaṁhatā: ।
2.89.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १२ ॥
तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । तामारुरोह भरत: शत्रुघ्नश्च महाबल: । २.८९.१२ ॥

tata: svastikavijñeyāṁ pāṇḍukambalasaṁvṛtām ।
sanandighoṣāṁ kalyāṇīṁ guho nāvamupāharat ।
tāmāruroha bharata: śatrughnaśca mahābala: ।
2.89.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १३ ॥
कौसल्या सुमित्रा याश्चान्या राजयोषित: । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणा: । २.८९.१३ ॥

kausalyā ca sumitrā ca yāścānyā rājayoṣita: ।
purohitaśca tatpūrvaṁ guravo brāhmaṇāśca ye ।
anantaraṁ rājadārāstathaiva śakaṭāpaṇā: ।
2.89.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १४ ॥
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् । २.८९.१४ ॥

āvāsamādīpayatāṁ tīrthaṁ cāpyavagāhatām ।
bhāṇḍāni cādadānānāṁ ghoṣastridivamaspṛśat ।
2.89.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १५ ॥
पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: । २.८९.१५ ॥

patākinyastu tā nāva: svayaṁ dāśairadhiṣṭhitā: ।
vahantyo janamārūḍhaṁ tadā sampeturāśugā: ।
2.89.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १६ ॥
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् । २.८९.१६ ॥

nārīṇāmabhipūrṇāstu kāścit kāścicca vājinām ।
kāścidatra vahanti sma yānayugyaṁ mahādhanam ।
2.89.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १७ ॥
ता: स्म गत्वा परं तीरमवरोप्य तं जनम् । निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: । २.८९.१७ ॥

tā: sma gatvā paraṁ tīramavaropya ca taṁ janam ।
nivṛttā: kāṇḍacitrāṇi kriyante dāśabandhubhi: ।
2.89.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १८ ॥
सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: । २.८९.१८ ॥

savaijayantāstu gajā gajārohapracoditā: ।
taranta: sma prakāśante sadhvajā iva parvatā: ।
2.89.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · १९ ॥
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: । २.८९.१९ ॥

nāvaścāruruhuścānye plavaisterustathāpare ।
anye kumbhaghaṭaisteruranye teruśca bāhubhi: ।
2.89.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · २० ॥
सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् । २.८९.२० ॥

sā puṇyā dhvajinī gaṅgā dāśai: santāritā svayam ।
maitre muhūrtte prayayau prayāgavanamuttamam ।
2.89.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · २१ ॥
आश्वासयित्वा चमूं महात्मा निवेशयित्वा यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे । २.८९.२१ ॥

āśvāsayitvā ca camūṁ mahātmā niveśayitvā ca yathopajoṣam ।
draṣṭuṁ bharadvājamṛṣipravaryyamṛtvigvṛta: san bharata: pratasthe ।
2.89.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · ८९ · २२ ॥
ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् । २.८९.२२ ॥

sa brāhmaṇasyāśramamabhyupetya mahātmano devapurohitasya ।
dadarśa ramyoṭajavṛkṣaṣaṇḍaṁ mahadvanaṁ vipravarasya ramyam ।
2.89.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.