वाल्मीकि रामायणम् · अयोध्याकाण्डम्Ayodhyā Kāṇḍa

अयोध्याकाण्डम्Ayodhyā Kāṇḍa

सर्गः २५ · ४७ श्लोकाःSarga 25 · 47 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ २ · २५ · १ ॥
सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि । चकार माता रामस्य मन्गलानि मनस्विनी ॥

sā apanīya tam āyāsam upaspṛśya jalam śuci ।
cakāra mātā rāmasya mangalāni manasvinī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २ ॥
शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम । श्रीघ्रम् विनिवर्तस्व वर्तस्व सताम् क्रमे ॥

na śakyase vārayauitum gacchedānīm raghuttama ।
śrīghram ca vinivartasva vartasva ca satām krame ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३ ॥
यम् पालयसि धर्मम् त्वम् धृत्या नियमेन च । सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥

yam pālayasi dharmam tvam dhṛtyā ca niyamena ca ।
savai rāghavaśārdula! dharmastvāmabhirakṣatu ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४ ॥
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च । ते त्वामभिरक्षन्तु वने सह महर्षिभिः ॥

yebhyaḥ praṇamase putra caityeṣvāyataneṣu ca ।
te ca tvāmabhirakṣantu vane saha maharṣibhiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ५ ॥
यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥

yāni dattāni te' strāṇi viśvāmitreṇa dhīmatā ।
tāni tvāmabhirakṣantu guṇaissamuditam sadā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ६ ॥
पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा । सत्येन महाबाहो चिरम् जीवाभिरक्षितः ॥

pitṛśuśruṣayā putra mātṛśu śrūṣayā tathā ।
satyena ca mahābāho ciram jīvābhirakṣitaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ७ ॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥

samitkuśapavitrāṇi vedyaścāyatanāni ca ।
sthaṇḍhilāni vicitrāṇi śailā vṛkṣāḥ kuśuphā hradāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ८ ॥
पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम । स्वस्ति साध्याः विश्वे मरुतः महर्षयः ॥

pataṅgāḥ pannagāḥ simhāstvām rakṣantu narottama ।
svasti sādhyāḥ ca viśve ca marutaḥ ca maharṣayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ९ ॥
स्वस्ति धाता विधाता स्वस्ति पूषा भगो अर्यमा । ऋतवः चैव पक्षाः मासाः सम्वत्सराः क्षपाः ॥

svasti dhātā vidhātā ca svasti pūṣā bhago aryamā ।
ṛtavaḥ caiva pakṣāḥ ca māsāḥ samvatsarāḥ kṣapāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १० ॥
ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः । दिनानि मुहूर्ताः स्वस्ति कुर्वन्तु ते सदा ॥

ṛtavaścaiva pakṣāśca māsāssamvatsarāḥ kṣapāḥ ।
dināni ca muhūrtāḥ ca svasti kurvantu te sadā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ११ ॥
स्मृतिर् धृतिः धर्मः पान्तु त्वाम् पुत्र सर्वतः । स्कन्दः भगवान् देवः सोमः सबृहस्पतिः ॥

smṛtir dhṛtiḥ ca dharmaḥ ca pāntu tvām putra sarvataḥ ।
skandaḥ ca bhagavān devaḥ somaḥ ca sabṛhaspatiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १२ ॥
सप्त ऋषयो नारदः ते त्वाम् रक्षन्तु सर्वतः । याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥

sapta ṛṣayo nāradaḥ ca te tvām rakṣantu sarvataḥ ।
yāścāpi sarvataḥ siddā diśśca sadigīśvarāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १३ ॥
स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः । शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥

stutā mayā vane tasmin pāntutvām putra nityaśaḥ ।
śailāḥ sarve samudrāśca rājā varuṇa eva ca ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १४ ॥
द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च । नक्षत्राणि सर्वाणि ग्रहाः सहदेवताः ॥

dyaurantarikṣam pṛthivī nadyassarvāstathaiva ca ।
nakṣatrāṇi ca sarvāṇi grahāḥ ca sahadevatāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १५ ॥
अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् । ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥

ahorātre tathā sandhye pāntu tvām vanamāśritam ।
ṛtavaścaiva ṣṭpuṇyā māsāḥ samvatsarāstathā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १६ ॥
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महा वनानि चरतः मुनि वेषस्य धीमतः ॥

kalāśca kāṣṭhāśca tathā tava śarma diśantu te ।
mahā vanāni carataḥ muni veṣasya dhīmataḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १७ ॥
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा । राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥

tavādityāśca daityāśca bhavantu sukhadāḥ sadā ।
rākṣasānām piśācānām raudrāṇām krūrakarmaṇām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १८ ॥
क्रव्यादानाम् सर्वेषम् माभूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥

kravyādānām ca sarveṣam mābhūtputraka te bhayam ।
plavagā vṛścikā damśā maśakāḥ caiva kānane ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · १९ ॥
सरी सृपाः कीटाः मा भूवन् गहने तव । महा द्विपाः सिम्हाः व्याघ्राऋक्षाः दम्ष्ट्रिणः ॥

sarī sṛpāḥ ca kīṭāḥ ca mā bhūvan gahane tava ।
mahā dvipāḥ ca simhāḥ ca vyāghrāṛkṣāḥ ca damṣṭriṇaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २० ॥
महिषाः शृन्गिणो रौद्रा ते द्रुह्यन्तु पुत्रक । नृ माम्स भोजना रौद्रा ये अन्ये सत्त्व जातयः ॥

mahiṣāḥ śṛngiṇo raudrā na te druhyantu putraka ।
nṛ māmsa bhojanā raudrā ye ca anye sattva jātayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २१ ॥
मा त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह । आगमाः ते शिवाः सन्तु सिध्यन्तु पराक्रमाः ॥

mā ca tvām himsiṣuḥ putra mayā sampūjitāḥ tu iha ।
āgamāḥ te śivāḥ santu sidhyantu ca parākramāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २२ ॥
सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक । स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥

sarva sampattayo rāma svastimān gacca putraka ।
svasti te astu āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २३ ॥
सर्वेभ्यः चैव देवेभ्यो ये ते परिपन्थिनः । गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥

sarvebhyaḥ caiva devebhyo ye ca te paripanthinaḥ ।
guruḥ somaśca sūryaśca dhanado'tha yamastathā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २४ ॥
पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥

pāntu tvāmarcitā rāma! daṇḍakāraṇyavāsinam ।
agnirvāyustathā dhūmomantrāścarṣimukhāccyutāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २५ ॥
उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन । सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥

upasparśanakāle tu pāntu tvām raghundadana ।
sarva loka prabhur brahmā bhūta bhartā tathā ṛṣayaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २६ ॥
ये शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् । इति माल्यैः सुर गणान् गन्धैः अपि यशस्विनी ॥

ye ca śeṣāḥ surāḥ te tvām rakṣantu vana vāsinam ।
iti mālyaiḥ sura gaṇān gandhaiḥ ca api yaśasvinī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २७ ॥
स्तुतिभिः अनुरूपाभिर् आनर्च आयत लोचना । ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥

stutibhiḥ ca anurūpābhir ānarca āyata locanā ।
jvalanam samupādāya brāhmaṇena mahātmanā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २८ ॥
हावयामास विधिना राममङ्गलकारणात् । घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥

hāvayāmāsa vidhinā rāmamaṅgalakāraṇāt ।
ghṛtam śvetāni mālyāni samidhaḥ śvetasarṣapān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · २९ ॥
उपसम्पादयामास कौसल्या पमाङ्गना । उपाध्यायः विधिना हुत्व शान्तिमनामयम् ॥

upasampādayāmāsa kausalyā pamāṅganā ।
upādhyāyaḥ sa vidhinā hutva śāntimanāmayam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३० ॥
हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् । मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥

hutahavyāvaśeṣeṇa bāhyam balimakalpayat ।
madhudadyakṣataghṛtaiḥ svastivācya dvijām stataḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३१ ॥
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः । ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥

vācayāmāsa rāmasya vane svastyayanakriyāḥ ।
tatastanmai dvijendrāya rāmamātā yaśasvinī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३२ ॥
दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् । यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥

dakṣiṇām pradadau kāmyām rāghavam cedamabravīt ।
yan mangalam sahasra akṣe sarva deva namaḥ kṛte ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३३ ॥
वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् । यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥

vṛtra nāśe samabhavat tat te bhavatu mangalam ।
yan mangalam suparṇasya vinatā akalpayat purā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३४ ॥
अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् । अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥

amṛtam prārthayānasya tat te bhavatu mangalam ।
amṛtotpādane daityān ghnato vajradharasya yat ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३५ ॥
अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् । तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥

aditirmaṅgaLam prādāt tatte bhavatu maṅgaLam ।
tīnvikramān prakamato viṣṇoramitatejasaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३६ ॥
यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् । ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥

yadāsīnmaṅgaLam prādāt tatte bhavatu maṅgaLam ।
ṛtavaḥ sāgarā dvīpā vedā lokā diśścate ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३७ ॥
मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥

mamgaLāni mahābāho diśantu śubhavaṅgaLāḥ ।
iti putrasya śeṣāśca kṛtvā śirasi bhāminī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३८ ॥
गन्दाम्श्चापि समालभ्य राममायतलो चना । ओषधीम् अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥

gandāmścāpi samālabhya rāmamāyatalo canā ।
oṣadhīm ca api siddha arthām viśalya karaṇīm śubhām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ३९ ॥
चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च । उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥

cakāra rakṣām kausalyā mantraiḥ abhijajāpa ca ।
uvācātiprahṛṣṭeva sā duḥkhavaśartinī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४० ॥
वाङ्मात्रेण भावेन वाचा सम्सज्जमानया । आनम्य मूर्ध्नि आघ्राय परिष्वज्य यशस्विनी ॥

vāṅmātreṇa na bhāvena vācā samsajjamānayā ।
ānamya mūrdhni ca āghrāya pariṣvajya yaśasvinī ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४१ ॥
अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् । अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥

avadat putra siddha artho gacca rāma yathā sukham ।
arogam sarva siddha artham ayodhyām punar āgatam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४२ ॥
पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि । प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥

paśyāmi tvām sukham vatsa susthitam rāja veśmani ।
praṇaṣṭakuḥkhasamkalpā harṣavidyotitānanā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४३ ॥
द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् । भद्रासनगतम् राम वनवासादिहागतम् ॥

drakṣyāmi tvām vanātrpāptam pūrṇacandramivoditam ।
bhadrāsanagatam rāma vanavāsādihāgatam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४४ ॥
द्रक्षामि पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः । मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥

drakṣāmi ca punastvām tu tīrṇavantam piturvacaḥ ।
maṅgaśairupasampanno vanavāsādihāgataḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४५ ॥
पध्वा मम नित्यम् त्वम् कामान् सम्वर्ध याहि भोः । मया अर्चिता देव गणाः शिव आदयो । महर्षयो भूत महा असुर उरगाः । अभिप्रयातस्य वनम् चिराय ते । हितानि कान्क्षन्तु दिशः राघव ॥

padhvā mama ca nityam tvam kāmān samvardha yāhi bhoḥ ।
mayā arcitā deva gaṇāḥ śiva ādayo ।
maharṣayo bhūta mahā asura uragāḥ ।
abhiprayātasya vanam cirāya te ।
hitāni kānkṣantu diśaḥ ca rāghava ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४६ ॥
इति इव अश्रु प्रतिपूर्ण लोचना । समाप्य स्वस्त्ययनम् यथा विधि । प्रदक्षिणम् चैव चकार राघवम् । पुनः पुनः अपि निपीड्य सस्वजे ॥

iti iva ca aśru pratipūrṇa locanā ।
samāpya ca svastyayanam yathā vidhi ।
pradakṣiṇam caiva cakāra rāghavam ।
punaḥ punaḥ ca api nipīḍya sasvaje ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ २ · २५ · ४७ ॥
तथा तु देव्या कृत प्रदक्षिणो । निपीड्य मातुः चरणौ पुनः पुनः । जगाम सीता निलयम् महा यशाः । राघवः प्रज्वलितः स्वया श्रिया ॥

tathā tu devyā sa kṛta pradakṣiṇo ।
nipīḍya mātuḥ caraṇau punaḥ punaḥ ।
jagāma sītā nilayam mahā yaśāḥ ।
sa rāghavaḥ prajvalitaḥ svayā śriyā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.